Samkshipta Ramayanam !
from Balakanda !!
Srimad Valmiki Ramayanam !
Parayana slokas - Text in Devanagari !!
ओम्
श्रीरामायनमः
श्रीमद्वाल्मीकि रामायणम्
बालकांडम्
प्रथम सर्गः
संक्षिप्त रामाणम्
ओम् तपस्स्वाध्याय निरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपृच्छ वाल्मीकिर्मुनिपुंगवम् ॥
कोन् अस्मिन् सांप्रतं लोके गुणवान् कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।
विद्वान् कः कः समर्थश्च कः एक प्रियदर्शनः ॥
आत्मवान् को जितक्रोधो द्युतिमान् कोनसूयकः ।
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोसि ज्ञातुमेवं विधं नरम् ॥
श्रुत्वा चैतत् त्रिलोकज्ञो वाल्मिकेर्नारदो वचः ।
श्रूयतामिति चामंत्र्य प्रहृष्टो वाक्यमब्रवीत् ॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।
मुने वक्ष्याम्यहं बुध्वा तैर्युक्तः श्रूयताम् नरः ॥
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।
नियतात्मा महोवीर्यो द्युतिमान् धृतिमान् वशी ॥
बुद्धिमान् नीतिमान् वाग्मी श्रीमान् शत्रु निबर्हणः ।
विपुलांसो महाबाहुः कंबुग्रीवो महा हनुः ॥
महोरस्को महेष्वासो गूढजत्रुः अरिंदमः ।
आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥
समः समविभक्तांगः स्निग्धवर्णः प्रतापवान् ।
सीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ॥
धर्मज्ञः सत्यसंधश्च प्रजानांच हिते रतः ।
यशस्वी ज्ञानसंपन्नः शुचि र्वस्यः समाधिमान् ॥
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेद वेदांग तत्वज्ञो धनुर्वेदे च निष्ठितः ॥
सर्व शास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान् ।
सर्वलोकप्रियः साधुः अदीनात्मा विचक्षणः ॥
सर्वदाभिगतः सद्भिः समुद्र इव सिंदुभिः ।
आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥
स च सर्व गुणोपेतः कौसल्यानंदवर्धनः ।
समुद्र इव गांभीर्ये धैर्येन हिमवानिव ॥
विष्णूना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
कालाग्नि सदृशः क्रोधे क्षमया पृथिवी समः ॥
धनदेन समस्त्याग्रे सत्ये धर्म इवापरः ॥
तमेवं गुणसंपन्नं रामं सत्य पराक्रमं ।
ज्येष्ठः श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ॥
प्रकृतीनां हितैर्युक्तं प्रकृति प्रियकाम्यया ।
यौवराज्येन संयोक्तुं इच्चत् प्रीत्या महीपतिः ॥
तस्याभिषेक संभारान् दृष्ट्वा भार्या अध कैकेयी ।
पूर्वं दत्तवरा देवी वरं एनम् अयाचत ।
विवासनंच रामस्य भरतस्याभिषेचनम् ॥
स सत्यवचानाद्राजा धर्म पाशेन संयुतः ।
विवासयामास सुतं रामं दशरथः प्रियम् ॥
स जगाम वनं वीरः प्रतिज्ञां अनुपालयन् ।
पितुर्वचन निर्देशात् कैकेय्याः प्रियकारणात् ॥
तं व्रजंतं प्रियो भ्राता लक्ष्मणोनुजगाम ह।
स्नेहाद्वियसंपन्नः सुमित्रानंदवर्धनः ॥
भ्रातरं दयितो भ्रातुः सौभ्रात्र मनुदर्शयन् ॥।
रामस्य दयिता भार्या नित्यं प्राण समाहिता ।
जनकस्य कुले जाता देवमायेव निर्मिता ॥
सर्व लक्षण संपन्ना नारीणां उत्तमावधुः ।
सीता अपि अनुगता रामं शशिनं रोहिणी यथा ॥
पौरै रनुगतो दूरं पित्रा दशरथेन च ॥
शृंगिबेरपुरे सूतं गंगाकूले व्यसर्जयत् ।
गुहामासाद्य धर्मात्मा निषादाधिपतिं प्रियम्॥
गुहेन सहितो रामो लक्ष्मनेन च सीतया ।
ते वनेन वनं गत्वा नदी स्तीर्त्वा बहूदकाः ॥
चित्रकूट मनुप्राप्य भरध्वाजस्य शासनात् ।
रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥
देव गंधर्व संकाशाः तत्र ते न्यवसन् सुखम् ॥।
चित्रकूटं गते रामे पुत्रशोकातुरस्तदा ।
राजा दशरथः स्वर्गं जगाम विलपन् सुतम् ॥
मृतेतु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ।
नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः ॥
स जगाम वनं वीरो रामपाद प्रसादकः ।
गत्वा तु सुमहात्मानं रामं सत्य पराक्रमम् ।
अयाचत् भ्रात्रं रामं आर्य भाव पुरस्कृतः ॥
त्वमेव राजा धर्मज्ञ इति रामं वचो अब्रवीत् ॥।
रामोपि परमोदारः सुमुखः सुमहायशाः ।
न चैछ्चत् पितुरादेशात् राज्यं रामो महाबलः ॥
पादुके चास्य राज्याय न्यासं दत्वा पुनः पुनः ।
निवर्तयामास ततो भरतं भरताग्रजः ॥
स कामं आनवाप्यैव रामपादवुपस्पृशन् ।
नंदिग्रामे करोत् राज्यं रामागमन कांक्षया ॥
गतेतु भरते श्रीमान् सत्यसंधो जितेंद्रियः ।
रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।
तत्रागमनमेकाग्रो दंडकान् प्रविवेश ह ॥
प्रविश्य तु महारण्यं रामो राजीव लोचनः ।
विराथं राक्षसं हत्वा शरभंगं ददर्स ह ॥
सु तीक्ष्णं चाप्यगस्त्यंच आगस्त्य भ्रातरम् तथा ॥।
अगस्त्यवचनाच्चैव जग्राह ऐंद्रं शरासनम् ।
खड्गं च परम प्रीतः तूणीचाक्षयसायकौ ॥
वसतस्तस्य रामस्य वने वनचरैः सह ।
ऋषयो अभ्यागमन् सर्वे वधाय सु ररक्षसाम् ॥
स तेषां प्रतिशुश्राव राक्षसानां तथा वने ।
प्रतिज्ञातश्च रामेण वधः संयति रक्षसां ।
ऋषिणामग्निकल्पानां दंडकारण्य वासिनाम् ॥
तेन तत्रैव वसता जनस्थान निवासिनी ।
विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥
ततः शूर्पणखावाक्यादुद्युक्तान् सर्व राक्षसान् ।
खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥
निजघान रणे रामः तेषां चैव पदानुगान् ॥।
वने तस्मिन् निवसता जनस्थाननिवासिनाम् ।
रक्षसाम् निहतान्यासन् सहस्राणि चतुर्दश ॥
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्चितः ।
सहायं वरयामास मारीचं नाम राक्षसम् ॥
वार्यमाणस्सुबहुशो मारीचेन स रावणः ।
न विरॊथो बलवता क्षमो रावण तेन ते ॥
अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ।
जगाम सह मारीचः तस्य आश्रमपदं तदा ॥
तेन मायाविना दूरं अपवाह्य नृपात्मजौ ।
जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ॥
गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ।
राघवः शोक संतप्तो विललापाकुलेंद्रियः ॥
तत स्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ।
मार्गमाणो वने सीतां राक्षसं संददर्श ह ।
कबंधं नाम रूपेण विकृतं घोर दर्शनम् ॥
तं निहत्य महाबाहुः ददाह स्वर्गतश्च सः ॥।
स चास्य कथयामास शबरीं धर्म चारिणीम् ।
श्रमणीं धर्मनिपुणां अभिगच्छेति राघव ॥
सोभ्यगच्छन्महातेजाः शबरीम् शत्रुसूदनः ।
शबर्या पूजितः सम्यग्रामो दशरथात्मजः ॥
पंपातीरे हनुमता संगतो वानरेण ह ।
हनुमाद्वचनाच्चैव सुग्रिवेण समागतः ॥
सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ।
आदितस्तद् यथावृत्तं सीताश्च विशेषतः ॥
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ।
चकार सख्यं रामेण प्रीतश्चैवाग्नि साक्षिकम् ॥
ततो वानर राजेन वैराम कथनं प्रति ।
रामायावेदितं सर्वं प्रणयाद्दुःखितेन च ॥
प्रतिज्ञातं च रामेण तथा वालि वथं प्रति।
वालिनश्च बलं तत्र कथयामास वानरः ॥
सुग्रीव श्शंकितश्चासी न्नित्यं वीर्येण राघवे ।
राघवप्रत्ययार्धं तु दुंदुभेः काय मुत्तमम् ।
दर्शयामस सुग्रीवो महापर्वत सन्निभम् ॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादांगुष्ठेन चिक्षेप संपूर्णं दश योजनम् ॥
बिभेद च पुनस्तालान् सप्तैकेन महेषुणा ।
गिरिं रसातलं चैव जनयन् प्रत्ययं तदा ॥
ततः प्रीतिमनास्तेन विश्वस्तः स महाकपिः ।
किष्किंधां रामसहितो जगाम च गुहां तथा ॥
ततो गर्जत् हरिवरं सुग्रीवो हेम पिंगळः ।
तेन नादेन महता निर्जगाम हरीश्वरः ॥
अनुमान्य तदा तारां सुग्रीवेण समागतः ।
निजघान च तत्रैनं शरेणैकेन राघवः ॥
ततः सुग्रीव वचनात् हत्वा वालिनमाहवे ।
सुग्रीवमेव तद्राज्ये राघवः प्रत्य पादयत् ॥
स च सर्वान् समानीय वानरान् वानरर्षभः ।
दिशः प्रस्थापयामास दिदृक्षुर् जनकात्मजाम्॥
ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।
शतयोजन विस्तीर्णं पुप्लुवे लवणार्णवम् ॥
तत्र लंकां समासाद्य पुरीं रावणपालिताम् ।
ददर्श सीतां ध्यायंतीं अशोकवनिकां गताम् ॥
निवेदयित्वा अभिज्ञानं प्रवृतिं च निवेद्य च ।
समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥
पंच सेनाग्रगान् हत्वा सप्तमंत्रि सुतानपि ।
शूरमक्षं च निष्पिप्य ग्रहणं समुपागमत् ॥
अस्त्रेणोन्मुक्तं आत्मानं ज्ञात्वा पैतामहाद्वरात् ।
मर्षयन् राक्षसान् वीरो यंत्रिणस्तान् यदृच्चया ॥
ततो दग्ध्वा पुरीं लंकां ऋते सीतां च मैथिलीम् ।
रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥
सो भिगम्य महात्मानं कृत्वा रामं प्रदक्षिणंम् ।
न्यवेदयदमेयात्मा दृष्ठा सीतेति तत्वतः ॥
ततः सुग्रीवसहितो गत्वा तीरं महदधेः ।
समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥
दर्शयामास च आत्मानं समुद्रः सरितां पतिः ।
समुद्रवचनाच्छैव नळं सेतुमकारयत् ॥
तेन गत्वा पुरीं लंकां हत्वा रावण माहवे ।
रामस्सीतामनुप्राप्य परां व्रीडामुपागमत् ॥
तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥
ततो अग्निवचनात् सीतां ज्ञात्वा विगत कल्मषाम् ।
बभौ रामः संप्रहृष्टः पूजितः सर्व दैवतैः ॥
कर्मणा तेन महता त्रैलोक्यं स चराचरम् ।
स देवर्षिगणं तुष्टं राघवस्य महात्मनः ॥
अभिषिच्य च लंकायां राक्षसेंद्रम् विभीषणम् ।
कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥
भरद्वाजाश्रमं गत्वा रामः सत्य पराक्रमः ।
भरतस्यांतिकं रामो हनूमंतं व्यसर्जयत् ॥
पुनराख्यायिकां जल्पन् सुग्रीवसहितश्च सः ।
पुष्पकं तत् समारुह्य नंदिग्रामं ययौ तथा ॥
नंदिग्रामे जटां हित्वा भ्रातृभिः सहितो अनघः ।
रामः सीता मनुप्राप्य राज्यं पुनरवास्तवान् ॥
प्रहृष्टोमुदितो लोकः तुष्टः पुष्टः सुधार्मिकः ।
निरामयो ह्यरोगिश्च दुर्भिक्षभयवर्जितः ॥
न पुत्रमरणं किंचित् द्रक्ष्यंति पुरुषाः क्वचित् ।
नार्यश्चा अविधवा नित्यं भविष्यंति पतिव्रताः ॥
न चाग्निजं भयं किंचित् नाप्सु मज्जंति जंतवः ।
न वातजं भयं किंचित् नापि ज्वरकृतं तथा ॥
न चापि क्षुद्भयं तत्र न तस्कर भयम् तथा ॥।
नगराणी च राष्ट्राणि धन धान्य युतानिच ।
नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ॥
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ।
गवां कोट्ययुतं दत्वा विद्वभ्यो विधिपुर्वकम् ।
असंख्येयं धनं दत्वा ब्राह्मणेभ्यो महायशाः ॥
राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
चातुर्वर्ण्यं च लोके अस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥
दशवर्ष सहस्राणि दशवर्ष शतानि च ।
रामोराज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥
एतदाख्यानसमायुष्यं पठन् रामायणं नरः ।
सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥
पठन् द्विजो वागृषभत्वमीयात्
स्यात् क्षत्रियो भूमिपतित्वमीयात् ।
वणिग्जनः पण्यफलत्वमीयात्
जनश्च शूद्रो अपि महत्वमीयात् ॥
इत्यार्षे श्रीमद्रामायणे
वाल्मीकिये आदि काव्ये बाल कांडे
प्रधमसर्गः
समाप्तमु ॥
॥ ओम् तत् सत् ॥
Om tat Sat