Srimad Valmiki Ramayanam
Balakanda Sarga 38
Story of Sagara !
With Sanskrit text in Telugu , Kannada and Devanagari,
बालकांड
अष्टत्रिंशस्सर्गः
( सगरस्य कथः )
तां कथां कौशिको रामे निवेद्य कुशिकात्मजः ।
पुनरेवापरं वाक्यं काकुत् स्थम् इदमब्रवीत् ॥
स ॥ कौसिको रामे तां कथां निवेद्य , पुनरेव (सः) कुशिकात्मजः इदं वाक्यं काकुत् स्थम् अब्रवीत् ।
That son of Kusa having told the story to Rama , again he further told the following to that scion of Kakutstha.
अयोध्यापतिः शूरः पूर्वमासीन्नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामस्सचाप्रजः ॥
स॥ पूर्वं सगरो नाम धर्मात्मा शूरः नराधिपः अयोध्यापतिः असीत् . (सः) प्रजा कामः अप्रजा ( आसीत्)
'In the olden times there was a leader of men, follower of righteous path, and a warrior by name Sagara who was the king of Ayodhya. he is desirous of progeny and did not have any children'.
वैदर्भदुहिता राम केशिनी नाम नामतः ।
ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥
स॥ (हे) राम केशिनी नाम नामतः वैदर्भ दुहिता ज्येष्ठा सगर पत्नी ( आसीत्) . सा धर्मिष्ठा सत्यवादिनी ( अपि)
'Oh Rama ! The daughter of Vidarbha by name Kesini was the Eldest wife of Sagara. She is the follower of righteous path and truth."
अरिष्टनेमि दुहिता रूपेणाप्रतिमा भुवि।
द्वितीया सगरस्यासीत् पत्नी सुमति संज्ञिता ॥
स॥ सुमति संज्ञिता रूपेणा प्रतिमाभुवि अरिष्ठनेमि दुहिता सगरस्य द्वितीय पत्नीआसीत् ॥
"Arishtanemi , with an excellent mind, who knows everything and who is of a form unmatched on the earth is the second wife of Sagara".
ताभ्यां सह ततो राजा पत्नीभ्यां तप्तवां स्तपः ।
हिमवंतं समासाद्य् भृगुप्रस्रवणे गिरौ ॥
स॥ ततो राजा पत्नीभ्यां सह हिमवंतम् समसाद्य भृगुप्रस्रवणे गिरौ सः ताभ्यां तपः तप्तवां ॥
"That king along with his wives went to Brighu hermitage in the Himalayas and performed penance on the top of that hill".
अथ वर्ष शते पूर्णे तपसाराधितो मुनिः ।
सगराय वरं प्रादात् भृगु स्सत्यवतां वरः ॥
स॥ अथ वर्ष शते पूर्णे भृगुः आराधितो ( सः) मुनिः स्सत्यवतां वरः, सगराय वरं प्रादात् ।
"For hundred years they worshipped the venerable sage Brighu. That venerable sage best among followers of truth gave a boon to Sagara"
अपत्यलाभ स्सुमहान् भविष्यति तवानघ ।
कीर्तिं चाप्रतिमं लोके प्राप्यसे पुरुषर्षभ ॥
स॥ अनघ तव सुमहान् अपत्यलाभः भविष्यति । पुरुषर्षभ अप्रतिमंचापि कीर्तिं प्राप्यसे ॥
"Oh Anagha! you will have many children . Oh Best of men ! You wil also attain unmatched fame ."
एका जनयिता तात पुत्त्रं वंशकरं तव ।
षष्टिं पुत्त्र सहस्राणि अपरा जनयिष्यति ॥
स॥ तात एका जनयिष्यति तव वंशकरं पुत्रं । अपरा षष्ठिं सहस्र पुत्राणि जनयिष्यति ॥
" Dear son ! One wife will give birth to a son who will uphold the family prestige . The other wife will have sixty thousand children."
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परमप्रीते कृतांजलिपुटे तदा ॥
स॥ तम् भाषमाणं महात्मानं प्रसाद्य , परमप्रीते कृतांजलि पुटे राजपुत्र्यौ ऊचतुः ॥
'Pleasing the venerable sage who told as above , the two princesses bowed down to him and spoke to him with folded hands.'
एकः कस्यास्सुतो ब्रह्मन् का बहून् जनयिष्यति ।
श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥
स॥ब्रह्मन् कः एकः सुतो स्यात् , का बहून् जनयिष्यति श्रोतुं इच्छावहे । तव वचनं सत्यमस्तु ॥
" O Brahman ! Who will get the one son ? Who will get many sons ? We are desirous of hearing the same ? May your words be always truthful"
तयोस्तद्वचनं श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमां वाणीं स्वच्छंदोs त्र विधीयताम् ॥
स॥तयोः तत् वचनं श्रुत्वा भृगुः परमधार्मिकः उवाच , अत्र परमां वाणीं स्वच्चंदो विधीयतां ॥
Hearing those words of the two princesses , the venerable sage told the following . " Now you may tell what your desire".
एको वंशकरो वास्तु बहवो वा महाबलाः ।
कीर्तिमंतो महोत्साहा का वा कं वरमिच्छति ॥
स॥ एको कीर्तिमंतो वंशकरो वास्तु वा बहवो महोत्साहो कीर्तिमंतो वा (अस्तु) कं वरमिच्छति ॥
" The one son will be bring fame and uphold the family name. The many children will be famous and powerful. Which one of you desire whom please let me know."
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनंदन ।
पुत्त्रं वंशकरं राम जग्राह नृप सन्निधौ ॥
स॥ रघुनंदना ! केशिनी मुनेः वचनं श्रुत्वा नृप सन्निधौ पुत्त्रं वंशकरं जग्राह ।
'Oh Ragunandana ! Kesini in the presence of the king having heard the sages words asked for the one son who will uphold the family prestige'
षष्टिं पुत्त्र सहस्राणि सुपर्णभगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥
स॥ तदा सुपर्ण भगिनी सुमतिः महोत्साहान् कीर्तिमतो षष्टिं पुत्त्र सहस्राणि सुतान् जग्राह ॥
'Then the sister of Suparna amd the one with excellent mind asked for sixty thousand children who will be famous'.
प्रदक्षिणं ऋषीं कृत्वा शिरसा भि प्रणम्य च ।
जगाम स्वपुरं राजा सभार्यो रघुनंदन ॥
स॥ रघुनंदन ! राजा सभार्यो ऋषीं शिरसाभि प्रणम्य प्रदक्षिणं कृत्वा स्वपुरं जगाम ॥
'Oh Raghunandana ! The king then bowed down with his head as mark of respect and after circumbulating the venerable sage went to his own city.'
अथ काले गते तस्मिन् ज्येष्ठापुत्रं व्यजायत ।
असमंज इति ख्यातं केशिनी सगरात्मजं ॥
स॥ अथ काले गते केशिनी ज्येष्ठा असमंज इति ख्यातं सगरात्मजं पुत्रं व्यजायत ॥
' After some time the eldest wife Kesini gave birth to a son of Sagara by name Asamamjasa.'
सुमतिस्तु नरव्याघ्र गर्भतुंबं व्यजायत ।
षष्टिः पुत्त्रा सहस्राणि तुंबभेधाद्विनिस्सृतः ॥
स॥ (हे) नरव्याघ्र ! सुमतिस्तु गर्भतुंभं व्यजायत । तुंभ भेदात् षष्ठिः सहस्र पुत्राणि विनिश्रुतः ।
'Oh Tiger among men ! Sumati too gave birth to a foetus which is very large. After cutting the large Foetus it is known that sixty thousand chilren were born'.
घृतपूर्णेषु कुंभेषु धात्र्यस्तान् समवर्धयन् ।
कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥
स॥ धात्र्यः तान् घृतपूर्णेषु कुंभेषु समवर्थयन् । सर्वे कालेन महता यौवनं प्रतिपेदिरे |
'The midwifes brought them up on pots full of ghee . With time they all grew up and reached the stage of youth.'
अथ दीर्घेण कालेन रूपयौवनशालिनः ।
षष्टिः पुत्त्र सहस्राणि सगरस्याभवं स्तदा ॥
स॥ अथ दीर्घेण कालेन सगरस्य षष्ठिः पुत्र सहस्राणि रूपयौवनशालिनः अभवं तदा ।
'After a long time the sixty thousand sons of Sagara attained a stage of youtful form '.
स च ज्येष्ठो नरश्रेष्ठः सगरस्यात्मसंभवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनंदन ।
प्रक्षिप्य प्रहसन् नित्यं मज्जतस्तान् निरीक्ष्यवै ॥
स॥ (हे) रघुनंदना ! नरश्रेष्ठा ! सगरस्य आत्मसंभवः ज्येष्ठः बालान् गृहीत्वा सरय्वा जले प्रक्षिप्य , मज्जतः तान् निरीक्ष्य वै प्रहसन्।
' Oh Raghunandana , the best among men ! The eldest son of Sagara would take other children drown them in river Sarayu and would enjoy their tumbling in the river waters'.
एवं पापसमाचारः सज्जनप्रतिभाधकः ।
पौराणामहिते युक्तः पुत्त्रो निर्वासितः पुरात् ॥
स॥ एवं पौराणाम् अहिते युक्तः पाप समाचारः सज्जनप्रतिभाधकः पुत्रो पुरात् निर्वासितः ।
'That son who was acting in complete disrgard for the interests of the citizens, who was troubling the good people was banished from the city'.
तस्य पुत्त्रोंशुमान् नाम असमंजस्य वीर्यवान् ।
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियं वदः ॥
तस्य असमंजस्य पुत्रः अंशुमान् नामः वीर्यवान् सर्वलोकस्य सम्मतः । सर्वस्यापि प्रियं वदः ॥
'The son of Asamamjasa is one by name Amsuman. He is a warrior well liked by all in the world and would talk to all in an appropriate way'.
ततः कालेन महता मति स्समभिजायत ।
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता ॥
स॥ (हे) नरश्रेष्ठा ! ततः महता कालेन यजेयमिति सगरस्य मति समभिजायत निश्चिता ।
' Oh Best of men ! After some time , Sagara thought in his mind about performing a sacrifice. Then he decided to do the same.
सकृत्वा निश्चयं राम सोपाध्यायगण स्तदा ।
यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥
स॥ हे राम ! स: निश्चयं कृत्वा सोपध्यागणो तदा वेदज्ञो यज्ञकर्मणि यष्ठुं समुपचक्रमे ॥
'Oh Rama ! Having decided , he started the sacrificial activities with the help of Gurus and those well versed in Vedas.'
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये
बालकांडे अष्टत्रिंशस्सर्गः ॥
समाप्तं ॥
॥ वाल्मीकि विरचित आदिकाव्ये श्रीमद्रामायणे बालकांडे अष्ठत्रिंशस्सर्गः समाप्तं इति ॥
|| Thus ends the Sarga thirty eight in Balakanda of Srimad Valmiki Ramayana ||
||Om tat sat ||
|| Om tat sat ||