Srimad Valmiki Ramayanam
Balakanda Sarga 42
Story of Sagara 5 ( contd )!
बालकांड
द्विचत्वारिंशस्सर्गः
( भगीरथ प्रयत्नमु)
कालधर्मं गते राम सगरे प्रकृती जनाः ।
राजानं रोचयामासुः अंशुमंतं सुधार्मिकम् ॥
स॥ हे रामा! सगरे कालधर्मं गते प्रकृती जनाः सुधार्मिकं अंशुमंतं राजानं रोचयामासुः ।
Oh Rama! When King Sagara passed away , the people wanted righteous Ansuman to be the king.
स राजा सुमहानासीत् अंशुमान् रघुनंदन ।
तस्य पुत्त्रो महानासीत् दिलीप इति विश्रुतः ॥
स॥ हे रघुनंदन ! स अंशुमान् राजा सुमहान् आशीत्. तस्य पुत्रः दिलीप महनाशीत् इति विश्रुतः ।
Oh Raghunandana ! O King Ansuman indeed became the king. It is well known that his Dilipa also became the king.
तस्मिन् राज्यं समावेश्य दिलीपे रघुनंदन ।
हिमवत् शिखरे पुण्ये तपस्तेपे सुदारुणम् ॥
स॥ हे रघुनंदन ! तस्मिन् दिलीपे राज्यं समावेश्य पुण्ये हिमवत् शिखरे सुदारुणं तः तेपे ।
'O Raghunandana ! having left the kingdom under the charge of Dilipa , he ( Ansuman) performed severe penances in the Himalayan mountains'.
द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।
तपोवनं गतो राजा स्वर्गं लेभे तपोधनः ॥
स॥ द्वात्रिंशत् सहस्राणि वर्षाणि तपोवनं गतो राजा सुमहायशाः तपोधनः स्वर्गं लेभे ।
After completing thirty two thousand years of penance, that person with wealth of penance departed.
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।
दुःखोप हतया बुद्ध्या निश्चयं नाध्यगच्छत॥
कथं गंगावतरणम् कथं तेषां जलक्रिया ।
तारयेयं कथं चैतान् इति चिंतापरोsभवत् ॥
तस्य चिंतयतो नित्यं धर्मेण विदितात्मनः ।
पुत्त्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥
स॥ दिलीपस्तु महातेजाः पिता महं वधं श्रुत्वा दुःखोप हतया बुध्या निश्छयं नाध्यगच्चत ।कथं गंगावतरणं ? कथं तेषां जलक्रिया ? अयं कथं तारयेत् च इति एतान् चिंतापरो अभवत् ।नित्यं धर्मेण विदितात्मनः तस्य चिंतयतो भगीरथोनाम पुत्रो जज्ञे ! (सःभगीरथः) परमधार्मिकः ।
The King Dilipa too heard of the death of his forefathers with full of sorrow. But he could not decide on further action.
How to bring Ganga down ? How can the water rituals be completed? How will they get liberated ?Thinking as above he was worried. Ever performing righteous acts and knowing about Atman , he obtained a son by name Bhagiratha. He too was a very righteous person.
दिलीपस्तु महातेजा यज्ञैः बहुभिरिष्टवान् ।
त्रिंशद्वर्ष सहस्राणि राजा राज्यमकारयत् ॥
अगत्वा निश्चयं राजा तेषामुद्दरणं प्रति ।
व्याधिना नरशार्दूल कालधर्मं उपेयवान् ॥
इंद्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।
राज्ये भगीरथं पुत्त्रम् अभिषिच्य नरर्षभः ॥
स॥ महातेजा दिलीपस्तु यज्ञैः बहुभिः इष्टवान् , सः राजा त्रिंशद्वर्ष सहस्राणि राज्यं अकारयत् ।तेषां उद्धरणं प्रति निश्चयं अगत्वा ,(सः) नरशार्दूल व्याधिना कालधर्मं उपेयवान् ।नरर्षभ ! राज्ये भगीरथम् पुत्रं अभिषित्य राजा स्वार्जितॆनैव कर्मणा इंद्रलोकं गतः ।
King Dilipa liked to perform sacrifices etc. He ruled for thirty two thousand years. Then O Tiger among men ! he too passed away without deciding on any course of action. O Tiger among men ! Having anointed Bhagiratha as the king , Dilipa attained Indra's world due to his own good deeds.
भगीरथस्तु राजर्षिः धार्मिको रघुनंदन ।
अनपत्यो महातेजा प्रजाकामः स चाप्रजः ॥
मंत्रिष्वाधाय तद्राज्यं गंगावतरणे रतः ।
स तपो दीर्घमातिष्ठत् गोकर्णे रघुनंदन ॥
स॥ हे रघुनंदन ! भगीरथः धार्मिकः राजर्षिः अनपत्यो अस्तु । महातेजा प्रजाकामः स च अप्रजः ।तत् राज्यं मंत्रिष्वाधाय गंगावतीर्णे रतः स गोकर्णे दीर्घं तपः आतिष्ठत् ।
'Oh Raghunandana ! Bhagiratha was a righteous man, and a Rajarshi but he had no children. He is desirous of children but did not have any. He handed over the kingdom to his ministers and he performed severe penance to bring Ganga to earth.
ऊर्ध्वबाहुः पंचतपा मासाहारो जितेंद्रियः ।
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ॥
स॥ ( सः) जितेंद्रियः ऊर्ध्वबाहुः मासाहारो पंचतपा तस्य घोरे तपसि वर्षसहस्राणि तिष्ठतः ।
Having conquered the indriyas , with arms raised , taking food only once a month he performed severe penance between the five sacrificial fires for more than thousand years.
अतीतानि महाबाहो तस्य राज्ञो महात्मनः ।
सुप्रीतो भगवान् ब्रह्म प्रजानां पतिरीश्वरः ॥
ततै स्सुरगणैस्सार्थं उपागम्य पितामहः ।
भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥
स॥ राज्ञो महाबाहो महात्मन्ः तस्य अतीतानि भगवन् प्रजानां पतिः ईश्वरः ब्रह्म सुप्रीतः ( अस्तु)। ततः पितामहः सुरगणैस्सार्थं उपागम्य तप्यमानं महात्मानं भगीरथं अथ अब्रवीत् ।
Brahma ,the creator was pleased with the severe penance of that king who is a great soul with powerful arms. Then he came along with the entourage of Suras and addressed Bhagiratha who was doing penance.
भगीरथ महाभाग प्रीतस्तेsहं जनेश्वर ।
तपसा च सुतप्तेन वरं वरय सुव्रत ॥
स॥ हे महाभाग जनेश्वर भगीरथ ते तपसा च सुतप्तेन प्रीतोहं ! हे सुव्रत वरं वरय ।
"Oh Great one ! leader of people ! Bhagiratha I am satisfied with the severe penance performed by you. O King ask for a boon".
तमुवाच महातेजाः सर्वलोकपितामहम् ।
भगीरथो महभागः कृतांजलिरुपस्थितः ॥
स॥ महातेजाः भगीरथो महाभागः कृतांजलिः उपस्थितः सर्वलोक पितामहं तं उवाच ।
Then Bhagiratha, the great soul , folded his hands and spoke to Brahma the father of all creation.
यदि मे भगवन् प्रीतो यद्यस्ति तपसः फलम् ।
सगरस्यात्मजा स्सर्वे मत्त सलिल माप्नुयुः ॥
गंगायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्।
स्वर्गं गच्छेयुरत्यंतं सर्वे मे प्रपितामहाः ॥
स॥ यदि मे भगवन् प्रीतः अस्ति यदि तपसः फलं अस्ति मत्त सर्वे सगरात्मजा सलिलमाप्नुयुः । एषां महात्मनां भस्मन् गंगायाः सलिलक्लिन्ने सर्वे मे प्रपितामहः अत्यंतं स्वर्गं गच्चेयुः ।
"O Bhagavan If you are satisfied with my penance then as result of that penance ensure that water rituals can be completed for all my forefathers. Once the ashes of my fore fathers are sprinkled with Ganga waters they will attain their heavenly abode".
देया च संतति र्देव नावसीदेत् कुलं च नः ।
इक्ष्वाकूणां कुले देव एषमे अस्तु वरः परः ॥
स॥ देव ! नावसीदेत् नः कुलः च , इक्ष्वाकूणां कुले देया च संतति । एषः मे अस्तु अपरः वरः ।
"Oh Lord ! Our line, the Ikshwaku line is ending. Please give us a progeny for continuation of the Ikshwaku line".
उक्तवाक्यं तु महान् एष भगीरथ महारथ ।
प्रत्युवाच शुभां वाणीं मथुरां मथुराक्षराम्।
मनोरथो महानेष भगीरथ महारथ ।
एवं भवतु भद्रं ते इक्ष्वाकुकुल वर्धन ॥
स॥ एष भगीरथ महारथ राजानं उक्त वाक्यं तु प्रत्युवाच मथुरां मथुराक्षराम् । महारथ भगीरथ एष मनोरथः महान् । इक्ष्वाकु कुलवर्थन एवं भवतु । भद्रं ते ।
Hearing those words of king Bhagiratha , the creator replied with sweet words. " O Maharatha ! Bhagiratha ! your wishes are most appropriate. The Ikshwaku race will get a progeny . May all auspicious things happen for you".
इयं हैमवती गंगा ज्येष्ठा हिमवत्सुता ।
तां वै धारयंतुं शक्तो हरस्तत्र नियुज्यताम् ॥
गंगायाः पतनं राजन् पृथिवी न सहिष्यति ॥
तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥
स॥ ज्येष्ठा हिमवत् सुता हैमवती गंगा , तां धारयंतुं हरः शक्तो , तत्र नियुज्यताम् !हे राजन् गंगायाः पतनं पृथिवी न सहिष्यति । हे वीर तां धारयितुं न अन्यं शूलिनः पश्यामि ।
"Ganga is the eldest daughter of Himavan. Only Siva has the capability to bear her . Hence he must be approached. Oh Rajan ! The earth cannot bear the force of Ganga. O Heroic one , I cannot think of any other person who is capable ".
तमेवमुक्त्वा राजानं गंगां चाभाष्य लोककृत् ।
जगाम त्रिदिवं देवस्सह देवैः मरुद्गणैः ॥
स॥ तं राजनं एवं उक्त्वा गंगां च लोककृत् च अभाष्य त्रिदिवम् देवस्सह दॆवैः मरुद्गणैः सः जगाम ।
Having told this to the king , and also telling Ganga , Brahma then returned along with all the entourage of Devas etc.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे द्विचत्वारिंश स्सर्गः ॥
समाप्तं ॥
|| Thus the forty second chapter of Balakanda in Srimad Valmiki Ramayan comes to an end ||
||om tat sat ||
|| Om tat sat ||