Srimad Valmiki Ramayanam

Balakanda Sarga 44

Ganga is called Bhagirathi !!

बालकांड
चतुश्चत्वारिंशस्सर्गः

सगत्वा सागरं राजा गंगयाsनुगतस्तदा ।
प्रविवेश तलं भूमेः यत्र ते भस्मसात् कृताः ॥

स॥स राजा गंगाया अनुगतः तदा भूमेः तलं प्रविवेश यत्र ते सागरं भस्मसात् कृताः ।

With Ganga following him , Bhagiratha entered those earthly underground parts where his forefathers were turned into ashes.

भस्मन्यथाप्लुते राम गंगायास्सलिलेन वै।
सर्वलोकप्रभुर्ब्रह्मा राजानम् इदमब्रवीत् ॥

स॥ हे राम ! यथा भस्मन् गंगायाः सलिलेन वै प्लुते ( तथा) सर्वलोक प्रभुः ब्रह्मा राजानं इदं अब्रवीत् ।

' Oh Rama ! as soon as the ashes were immersed by Ganga waters then Brahma the father of all the three worlds spoke to the king as follows'.

तारिता नरशार्दूल दिवं याताश्च देववत् ।
षष्टिः पुत्र सहस्राणि सगरस्य महात्मनः ।

स॥ हे नरशार्दूल महात्मनः सगरस्य षष्ठिः पुत्र सहस्राणि तारिता देववत् दिवं याताश्च।

" Oh Best of men ! The sixty thousand sons of Sagar have been released and they reached the heavenly abode of the Devas."

सागरस्य जलं लोके यावत् स्थास्यति पार्थिव ।
सगरस्यात्मजास्तावत् स्वर्गे स्थास्यंति देववत् ॥

स॥ हे पार्थिव यावत् लोके सागरस्य जलं स्थास्यति तावत् सगरस्य आत्मजः स्वर्गे स्थास्यंति देववत् ।

" Oh King ! As long as there are waters in the oceans , the sons of Sagara like Devas will be in the heavens.

इहं च दुहिता ज्येष्ठा तव गंगा भविष्यति ।
त्वत्कृतेन च नाम्नाsथ लोके स्थास्यति विश्रुता ॥
गंगा त्रिपथगा राजन् दिव्या भागीरथीति च ।
त्रीन् पथो भावयंतीति ततः त्रिपथगा स्मृता॥

स॥ गंगा इहंच तव ज्येष्ठा दुहिता भविष्यति. अथ त्वत्कृतेन च लोके दिव्या भागीरथी इति नाम्ना स्थास्यति विश्रुता । राजन् गंगा त्रिपथगा त्रीन् पथो भावयंती इति त्रिपथगा ततः स्मृता ।

" This Ganga will be your elder daughter. Because of your deeds Ganga will be known all over the world as Bhagirathi.`

पितामहानां सर्वेषां त्वमत्र मनुजाधिप।
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥

स॥ हे मनुजाधिप ! सर्वेषां पितमहानां सलिलं कुरुष्व. राजन् प्रतिज्ञां अपवर्जय ।

" Oh King! Please perform the water rituals for your forefathers. Oh King ! complete the vow taken by you".

पूर्वकेण हि ते राजन् तेनातियशसा तदा ।
धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ॥

स॥ हे राजन् ! ते अति यशसा पूर्वकेण एष न प्राप्तो मनोरथः ।

"Oh King ! most famous of your ancestors could not accormplish this wish"

तथैवांशुमता तात लोके प्रतिमतेजसा ।
गंगां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥

स॥ हे तात ! तथैव लोके प्रतिम तेजसा आंशूमता गंगां प्रार्थयिता नेतुं न अपवर्जिता ।

" Oh Son! Anshuman , the very powerful one on the earth could not keep up his word that he 'will pray to Ganga and bring her !"
राजर्षिणा गुणवता महर्षिसमतेजसः ।
मत्तुल्य तपसा चैव क्षत्रधर्मस्थितेन च ॥
दिलीपेन महाभाग तव पित्र अति तेजसा ।
पुनर्न शंकिता नेतुं गंगां प्रार्थयिताsनघा ॥

स॥ हे अनघा ! राजर्षि गुणवता महर्षि सम तेजसः तपसा च क्षत्र धर्मस्थितेन च मत् तुल्यः तव पित्रः महाभागा दिलीपेन गंगां नेतुम् प्रार्थयिता, पुनः न शंकिता ।

" Oh Seer among Kings ! equal to a Maharshi in qualities and lustre, equal to me in penance and the warrior code , the great one Dilipa also prayed to bring Ganga , and later gave up having not been successful".

सा त्वया समतिक्रांता प्रतिज्ञा पुरुषर्षभ ।
प्राप्तोsसि परमं लोके यशः परमसम्मतम् ॥

स॥ त्वया सा प्रतिज्ञा समति क्रांता । लोके ( त्वं) प्राप्तोसि परमं यशः परम सम्मितम् ।

" You have been able to redeem the pledge. In all the three worlds you will attain great fame"

यच्च गंगावतरणं त्वया कृतमरिंदम ।
अनृत्न च भवान् प्राप्तो धर्मस्यायतनं महत् ॥

स॥ हे अरिंदम ! यच्च त्वया गंगावतरणं कृतं भवान् प्राप्तो अनृत्न च धर्मस्य आयतनं महत् ।

"Oh Destroyer of enemies ! By bringing Ganga to earth, you have performed your duty and attained an etrnal fame. "

प्लावयस्य त्व मात्मानं नरोत्तम सदोचिते ।
सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ॥
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
स्वस्ति तेsस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥

स॥ हे नरोत्तम ! त्वं आत्मानं सदोचिते शुचिः सलिले प्लावयस्यच पुण्य फलो भव । सर्वेषां पितामहानां सलिल क्रियां कुरुष्व ! ते स्वस्ति अस्तु ! ( अहं ) स्वं लोकं गमिष्यामि । हे नृप गच्चतां ।

" Oh Best of men ! You may bathe in the auspicious waters and obtain fruits of that action. You may leave water for all your forefathers. May all good be with you. I will now go to my abode. O King! you may also go !

इत्येव मुक्त्वा देवेशः सर्वलोक पितामहः ।
यथाssगतं तथागच्छत् देवलोकं महायशः ॥

स॥ इति एवं उक्त्वा सर्वलोक पितामहः महायशः देवेशः यथा आगतं तथा देवलोकं गच्चत् ।

'Having said so Brahma, the great one , then went back the same way he has come'.

भगीरथोsपि राजर्षिः कृत्वा सलिलमुत्तमम् ।
यथाक्रमं यथान्यायं सागराणां महायशः ॥
कृतोदक श्शुची राजा स्वपुरं प्रविवेश ह ।
समृद्धार्थो रघुश्रेष्ठ स्वराज्यं प्रशशास ॥

स॥ राजर्षिः महायशः भगीरथः अपि यथाक्रमं यथा न्यायं सागराणां उत्तमम् सलिलं कृत्वा ,शुची कृतोदकः राजा स्वपुरं प्रविवेश ह । हे रघुश्रेष्ठ ! समृद्धर्थो स्वराज्यं प्रशशास ।

" Bhagiratha the seer among kings, then completed the water rituals as per practice. Having completed water rituals and cleansing himself he entered his own city. Oh Best of Raghus ! There after he ruled the kingdom well endowed with all forms of wealth. '

प्रमुमोद ह लोकस्तं नृपमासाद्य राघव ।
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥

स॥ हे राघव ! तं नृपम् आसाद्य लोकः नष्ठ शोकः विगत ज्वरः समृद्धर्थो बभूव ।

' Oh Raghava ! Under his rule the people were without sorrow or worries and were endowed with all forms of wealth. '

एष ते राम गंगाया विस्तरो sभिहितो मया ।
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोति वर्तते ॥

स॥ हे राम ! एष ते मया गंगाया विस्तरो अभिहितः । (त्वं) स्वस्ति प्राप्नुहि । ते भद्रं अस्तु ! संध्याकालः वर्तते इति ।

'Oh Rama ! Thus I have explained the way Ganga was brought the earth. May all good happen to you . Now we are nearing the twilight time'.

धन्यं यशस्य मायुष्यं पुत्त्र्यं स्वर्ग्यमतीव च
यश्श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥
प्रीयंते पितरस्तस्य प्रीयंते दैवतानि च ।
इदमाख्यानम्व्यग्रो गंगावतरणं शुभम्॥

स॥ इदं गंगावतरणं आख्यानं यः श्रावयति विप्रेषु क्षत्रियेषु इतरेषु च (सः) धन्यं यशस्य अयुष्यं पुत्त्रं स्वर्गं ( प्राप्नोति). तस्य पितरः प्रीयंते , दैवतानि प्रीयंति च ।

' Who ever reads this story of Ganga's arrival on earth to Brahmins, Kshtriyas and others, his purpose of his life is fullfilled, he will attain fame, longevity, sons, and reach heaven too ! They will please their forefathers in heaven and also the Devas !

य श्शृणोति च काकुत् स्थ सर्वान् काममवाप्नुयात् ।
सर्वे पापाः प्रणस्यंति आयुः कीर्तिश्च वर्थते ॥

स॥ हे काकुस्थ ! यः शृणोति (सः) सर्वान् कामान् अवाप्नुयात् । (तस्य) सर्वे पापाः प्रणस्यंति ! आयुः कीर्थिः वर्थते च ।

'Oh Kakutstha ! Who ever listens to the story will have all his wishes fullfilled . Their sins will be destroyed. Their fame and longevity will increase'.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे चतुश्चत्वारिंश स्सर्गः ॥
समाप्तं ॥

|| Thus the forty fourth sarga of Balakanda in Ramayana come to an end ||
|| om tat sat ||