Srimad Valmiki Ramayanam

Balakanda Sarga 45

Sagara manthan!

बालकांड
पंच चत्वारिंश स्सर्गः
( क्षीरसागर मथनं - देवासुर संग्रामं)

विश्वामित्रः वचश्रुत्वा राघवः सह लक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रं अथाब्रवीत् ॥

स॥ अथः राघवः सह लक्ष्मणः विश्वामित्रस्य वचः श्रुत्वा परमं विस्मयं गत्वा विश्वामित्रं अब्रवीत् ।

Hearing those words of sage Viswamitra, Rama along with Lakshmana, spoke to him with a great surprise.

अत्यद्भुतमिदं ब्रह्मन् कथितं त्वया ।
गंगावतरणं पुण्यं सागरस्यापि पूरणम् ॥

स॥ (हे) ब्रह्मन् ! इदं पुण्यं गंगावतरणं सागरस्य अपि पूरणं त्वया कथितं अति अद्भुतं ।

' Oh Brahman ! The arrival of Ganga on the earth and filling of the ocean elaborated by you are amazing and wonderful'

तस्य सा शर्वरी सर्वा सहसौमित्रिणा तदा ॥
जगाम चिंतयानस्य विश्वामित्र कथां शुभाम् ॥

स॥ विश्वामित्रस्य शुभां कथां सौमित्रिणा सह चिंतयानस्य तस्य सा शर्वरी जगाम ।

While thinking and reminiscing about the auspicious stories narrated by Viswamitra with Lakshmana the night passed.

ततः प्रभाते विमले विश्वामित्रं महामुनिम्
उवाच राघवो वाक्यं कृताह्निक मरिंदम ॥

स॥ ततः विमले प्रभाते कृताह्निकं विशामित्रं महामुनिं अरिंदमः राघवः वाक्यं उवाच ।

There after having completed the morning rituals in the peaceful time of daybreak , Rama the terror of enemies said the following to the venerable sage.

गता भगवतीरात्र्रिः श्रोतव्यं परमंश्रुतम् ।
क्षणभूतेन नौ रात्रिः संवृत्तेयं महातपः ।
इमां चिंतयितः सर्वां निखिलेन कथां तव ॥
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥
नौ रेषा हि सुखा स्तीर्णा ऋषीणां पुण्यकर्मणाम् ।
भगवंत मिह प्राप्तं ज्ञात्वा त्वरित मागता ॥

स॥ हे महातपः ! भगवती कथा परमं श्रोतव्यं श्रुतम्. इमां चिंतयितः तव सर्वां कथां निखिलेन संवृतेयं क्षणभूतेन नौरात्रिः। सरितां श्रेष्ठां नदीं पुण्यां त्रिपथगां तराम ।एषा पुण्यकर्मणां ऋषीणां सुखा नौका प्राप्तं । भगवंतं इहा ज्ञात्वा त्वरितम् आगता ।

' Oh Venerable Sage ! We heard that auspicious story that should be heard. The auspicious night has passed. While reminiscing about the story the night time passed off in a moment. Now we have to cross Tripatha , the best amongst all rivers. The comfortable boat of the venerable sages is here. Knowing your presence here it came quickly'.

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
संतारं कारयामास सर्षिसंघस्सराघवः ॥

स॥ (सः) महात्मनः तस्य राघवस्य तत् वचनं श्रुत्वा स ऋषिसंघः स राघवः संतारं कारयामास ।

The venerable sage hearing those words of Raghava crossed the river along with all the Rishis and Raghava.

उत्तरं तीरमासाद्य संपूज्यर्षिगणं तदा ।
गंगाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥

स॥ उत्तरं तीरं आसाद्य तदा ऋषिगणं संपूज्य गंगाकूले निविष्ठाः ते विशालं पुरीं ददृशुः ।

After reaching the northern shores and having worshipped the Rishis they saw the cty of Visala on the banks of Ganga.

ततो मुनिवरस्तूर्णं जगाम सह राघवः ।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥

स॥ ततः मुनिवरः रम्यां दिव्यं स्वर्गोपमां नगरीं विशालं राघव सह तूर्णं जगाम ।

Then the venerable sage along with Raghava went to that beautiful, auspicious city of Visala which equals the heavens.

अथ रामो महप्राज्ञो विश्वामित्रं महामुनिम् ।
प्रपच्छ प्रांजलिर्भूत्वा विशालं उत्तमां पुरीम् ॥

स॥ अथ महाप्राज्ञो रामः विश्वामित्रं महामुनिं प्रांजलिं भूत्वा प्रपच्छउत्तमां पुरीं विशालं ।

Then the very intelligent Rama paying obeisance to the venerable sage asked the venerable sage Viswamitra about the city of Visala.

कतरो राजवंशो यं विशालायां महामुने ।
श्रोतु मिच्छामि भद्रं ते परं कौतूहलं हि मे ॥

स॥ (हे) महामुने ते भद्रं । यं विशालायां कतरो राजवंशो श्रोतुं इच्छामि । मे परं कौतूहलं हि ।

' Oh Venerble sage ! What is the dynasty that ruled the city of Visala. I am very much curious . May you live long'.

तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः ।
आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥

स॥ तस्य रामस्य तत् वचनं श्रुत्वा (सः) मुनिपुंगवः तत् विशालस्य पुरातनं आख्यातुं समारभे ।

Hearing those words of Rama, the venerable sage started to tell the ancient story of the city of Visala.

श्रूयतां राम शक्रस्य कथां कथयतश्शुभाम् ।
अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ॥

स॥ हे राम ! शक्रस्य शुभां कथां अस्मिन् देशे यद्वृत्तं तदपि कथयतः हे राघवा श्रुणु ।

'Oh Rama I will tell you the auspicious story of Indra , as well as the happennings in this country. O Raghava please listen.'

पूर्वं कृत युगे राम दितेः पुत्त्राः महाबलाः ।
अदितेश्च महाभाग वीर्यवंतः सुधार्मिकाः ॥

स॥ हे रामा ! पूर्वं कृतयुगे दितेः पुत्राः महाबलाः ! अदितेश्च ( पुत्राः) महाभाग वीर्यवंतः सुधार्मिकाः ।

' Oh Rama ! in the Krita yuga the sons of Diti were very powerful. The sons of Aditi too were illustrious heroes and followers of Dharma'.

ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् ।
अमरा अजराश्चैव कथं स्याम निरामयः ॥

स॥ हे नरश्रेष्ठा ! ततः तेषां महात्मनाम् अमरा अजरश्च एव निरामयः कथं स्याम (इति) बुद्धिरासीत् ।

'Oh Best of men ! Then a thought occurred to them about becoming immortal, with no disceases and no old age .'

तेषां चिंतयतां राम बुद्धिरासीन्महात्मनाम् ।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥

स॥ हे राम ! (इति) चिंतयतां तेषां महात्मनां क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै (इति) बुद्धिरासीत् ।

Then it occurred to them that they could churn the milky ocean and obtain its juices and consume the same.

ततो निश्चित्य मथनं योक्त्रं कृत्वाच वासुकिम् ।
मंथानं मंदरं कृत्वा ममंथरमितौजसः ॥

स॥ (ते) अमितौजसः ततो निश्चित्य वासुकीम् योक्त्रं कृत्वा मंदरं मंधानं कृत्वा ममंधर ।

The very powerful Devas having decided then using the Mount Mandara as the churning rod and the great serpent Vasuki as the churning rope they started churning.

अथ वर्ष सहस्रेण योक्त्रसर्पशिरांसि च ।
वमंत्यति विषं तत्र ददंशुर्दशनै श्शिलाः ॥

स॥ अथ सहस्रेण वर्ष ( पर्यंतं ) योक्त्र सर्प शिरांसि विषं वमंत्यति दशनैः शिलाः ददंशु च ।

After a thousand years , Vasuki deployed as churning rope , started to spew poison and started biting the rocks with her teeth.

उत्पपाताग्नि संकाशं हालाहल महाविषम् ।
तेन दग्धं जगत् सर्वं सदेवासुरमानुषम् ॥

स॥ हाला हल महाविषं अग्नि संकाशं उत्पपात । तेन देवासुरमानुषं सर्वं जगत् दग्धं ।

From that poison Haalaahala, fire emerged. That fire burnt down the worlds inhabited by Devas Asuras and the mankind.

अथ देवा महादेवं शंकरं शरणार्थिनः ।
जग्मुः पशुपतिं रुद्रं त्राहित्राहीति तुष्टुवुः ॥
एवमुक्तोस्ततो देवैः देवदेवेश्वरः प्रभुः ।
प्रादुरासीत् ततोsत्रैव शंख चक्रधरो हरिः ॥

स॥ अथ शरणार्थिनः देवाः महादेवं शंकरं पशुपतिं रुद्रं त्राहि ताहि इति तुष्टुवुः । ततः ऎवं उक्तो दॆवैः देवदेवेश्वरः प्रभुः (शंकरः) जग्मुः ॥ तत्रैव शंखचक्रधरो हरिः ( जग्मुः) ॥

Then all Devas wanting to be protected approached Rudra the Lord of of all Devas who is also called Mahadeva or Pasupati. They prayed saying "protect us" "protect us". Having been thus prayed to the Lord of all Devas, Sankara came there. The Mahavishnu wearing his conch and the disc also came there.

उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरिः ।
दैवतैर्मध्यमाने तु यत्पूर्वं समुपस्थितम् ॥
तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रजोs सि यत् ।
अग्रपूजमिमां मत्वा गृहेणेदं विषं प्रभो ॥

स॥ हरिः स्मितं कृत्वा शूलभृतं रुद्रं उवाच । (हे) सुरश्रेष्ठ यत् त्वदीयं सुराणां अग्रजोसि देवतैर्मध्यमानेतु यत्पूर्वं समुपस्थितं तत् इमां अग्रपूजं मत्वा इदं विषं गृहाण ।

Then Srihari with a smile told Rudra carrying his spear the following. " O Best of Suras ! You are the first one among Suras. Hence the first offerings coming out of the churning of the milky ocean should be given to you !".

इत्युक्त्वाच सुरश्रेष्ठः तत्रैवांतरधीयत।
देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यंतु शार्ज्ञिणः ॥
हालाहलं विषं घोरं स जग्राहामृतोपमम् ।
देवान् विश्रुज्य देवेशो जगाम भगवान् हरिः ॥

स॥ इत्युक्त्वा सुरश्रेष्ठः तत्र एव अंतरधीयत । शार्ज्ञ्णिणः वाक्यं तु श्रुत्वा देवतानां भयं दृष्ठ्वा हालाहलंघोरं विषं अमृतोपमम् ( मत्वा) जग्राह । देवेशो भगवान् हरिः देवान् विश्रुज्य जगाम।

'Having said this that best of Suras Mahavishnu disappeared. Siva too having heard the words of Mahavishnu and noticing the fear among the Devas took the poison . Then Sankara the Lod of Suras too disappeared'.

ततो देवान् सुरास्सर्वे ममंथू रघुनंदन ।
प्रविवेशाथ पाताळं मंथानः पर्वतोsनघ ॥

स॥ हे रघुनंदन ! अनघ ! ततः देवान् सुराः असुरा सर्वे ममंथू । अथः पर्वतः मंथानः पाताळं प्रविवेश ।

'Oh Raghunandana ! O Anagha ! Then the Devas and Asuras continued churning the ocean as before. Then the the mountain being used as the churning rod sank into Patala'.

ततो देवास्सगंधर्वाः तुष्टुवुर्मधुसूदनम् ।
त्वं गतिस्सर्वभूतानां विशेषेण दिवौकसाम् ॥

स॥ ततः देवाः स गंधर्वाः मधुसूदनं तुष्ठुवुः । सर्वभुतानां त्वं गतिः । विशेषेण दिवौकसां ।

Then the Devas along with Gandharvas sang song of praises to Madhusudan saying " for all the living beings you are the source , particularly for Devas"

पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि ।
इतिश्रुत्वा हृषीकेशः कामठं रूपमास्थितः ॥

स॥ हे महाबाहो (त्वं) गिरि मुद्धर्तुं अर्हसि । अस्मान् पालय इति । हृषीकेशः इति श्रुत्वा कामठं रूपमास्थितः ।

" O Mahabaho ! You are capable of bringing up the mountain". Then Hrishikesa, the Lord took the form of Tortoise.'

पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रो दधौ हरिः ।
पर्वाताग्रंतु लोकात्मा हस्तेनाक्रम्य केशवः ।
देवानां मध्यतः स्थित्वा ममंथ पुरुषोत्तमः ॥

स॥ हरिः पर्वतं पृष्ठतः कृत्वा तत्रः दधौ शिश्ये । पर्वताग्रंतु हस्तेन आक्रम्य देवानां मध्ये स्थित्वा पुरुषोत्तमः केशवः ममंथ ।

'Then that Srihari carried the mountain on his back and rested in the milky ocean. Then Purushottam , the Lord, rotating the mountain with his hand continued churning of the ocean while staying among the Devas.

अथ वर्ष सहस्रेण सदंडः सकमंडलुः ।
पूर्वं धन्वंतरिर्नाम अप्सराश्च सुवर्चसः ॥

स॥ अथ सहस्रेण वर्षे ( पर्यंतं) पूर्वं धन्वंतरी नामः सदंडः सकमंडुलुः ( तत् पश्चात्) सुवर्चसः अप्सराश्च ।

'After one thousand years ( of churning ) , a great soul by name Dhanvantari carrying a staff and kamandalu emerged first , then beautiful Apsarasas emerged from it'.

अप्सु निर्मथनादेव रसस्तस्मात् वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मात् अप्सरसोs भवन् ॥

स॥ (हे) मनुज श्रेष्ठ ! अप्सु निर्मथनादेन रसः , तस्मात् उत्पेतुः वरस्त्रियः । तस्मात् अप्सरसो अभवन् ।

'Oh Best of men ! Because Apsarasas emerged out of the "Ras" of the churning of "Apsu", they are called "Apsaras".'

षष्टिः कोट्यो भवंस्तासाम् अप्सराणां सुवर्चसाम् ।
असंख्येयास्तु काकुत् स्थ या स्तासां परिचारिकाः ॥

स॥ हे काकुत् स्थ ! तासां षष्टि कोट्यो सुवर्चसां अभवं तासां असंख्येयास्तु परिचारिकाः ।

'Oh Kakutstha ! Thus six crore Apsarasa emerged. Along with them many more attendants too emerged' !

न ताः स्म प्रतिगृह्णंति सर्वे ते देव दानवाः ।
अप्रतिगृह्णात् ताश्च सर्वाः साधारणाः स्मृताः ॥

स॥ ते सर्वे देवदानवाः न प्रतिगृह्णंति स्म ।ताश्च अप्रतिगृह्णात् सर्वाः साधारणाः स्मृताः ।

'The Devas and Danavas did not accept them . Since they were not accepted they remained to be remembered as common people'.

वरुणस्य ततः कन्या वारुणी रघुनंदन ।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥

स॥ हे रघुनंदन !ततः वरुणस्य कन्या वारुणी महाभागा परिग्रहं मार्गमाणा उत्पपात ।

' Oh Raghunandana! Then the daughter of Varuna by name Varuni came out in search of one who will receive her'.

दितेः पुत्रा न तां राम जगृहुः वरुणात्मजाम् ।
अदितेस्तु सुता वीर जगृहुः तामनिंदिताम् ॥

स॥ हे रामा ! वीर ! तां वरुणात्माजाम् दिते पुत्राः न जगृहुः । अदितेस्तु सुता तां अनिंदितां जगृहुः ।

'Oh Rama ! Oh Vira ! the daughter of Varuna was not received by Diti's sons . The blemishless lady was accepted by Aditi's sons'.

असुरास्तेन दैतेया सुरास्तेनादिते स्सुताः ।
हृष्टाः प्रमुदिताश्चासन् वारुणी ग्रहणात् सुराः ॥

स॥ तेन दैतेया असुराः अदितेः सुताः सुराः । वारुणी ग्रहणात् सुराः हृष्टाः प्रमुदिताः आसन् ।

' Hence the sons of Diti were called "Asuras" , the ones without Sura. Aditi's sons were called "Sura", the ones with "Sura". Having accepted Varuni, Suras were delighted and happy'.

उच्छैश्श्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभं ।
उदतिष्ठत् नरश्रेष्ठ तथैवामृत मुत्तमम् ॥

स॥ हे नरश्रेष्ठ ! हयश्रेष्ठो उच्छैश्रवा , मणिरत्नं कौस्तुभं च उदतिष्ठत् । तथैव मुत्तमम् अमृतं ( उदतिष्ठत् !)।

' Oh Best among men! The best of horses by name Ucchisravas, and the best among jewels Kausthubham too emerged out of the churning. Similarly the auspicious nectar too emerged'.

अथ तस्य कृते राम महानासीत् कुलक्षयः ।
अदितेस्तु ततः पुत्त्रादितेः पुत्त्रान् असूदयन् ॥

स॥ हे राम ! अथ तस्य कृते महान् कुलक्षयः आसीत् । ततः अदितेस्तु पुत्राः दितेः पुत्राः असूदयन् ।

'Oh Rama ! Once the nectar emerged there was a great war. The sons of Aditi killed sons of Diti'.

एकतो अभाग्यमन् सर्वे ह्यासुरा राक्षसैस्सह ।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥

स॥ हे वीरा ! सर्वे असुरा राक्षसैः सह एकतो अभ्यागमन् महा घोरं त्रैलोक्यमोहनं युद्धं आसीत् ।

'Oh Vira ! All the Asuras were on one side along with Rakshasas, in the war whose intensity surprised all'.

यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।
अमृतं सोsहरत् तूर्णं मायामास्थायमोहिनीम्॥

स॥ यदा सर्वे क्षयं गतं तदा महाबलः विष्णुः मायां मोहिनीं आस्थाय अमृतं स अहरत् ।

'As all were getting decimated , the most powerful MahaVishnu in the garb of a Mohini took away the nectar'.

ये गताभिमुखं विष्णुम् अक्षयं पुरुषोत्तमम् ।
संपिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥

स॥ अक्षयं पुरुषोत्तमं विष्णुं ये अभिमुखं गता तदा प्रभविष्णुना विष्णुना युद्धे ते संपिष्टाः ।

'That Purushottm who cannot be destroyed was opposed by some. They were killed in the battle by Vishnu'.

अदितेरात्मजा वीरा दितेः पुत्त्रान् नि जघ्निरे।
तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्॥

स॥ हे वीर तस्मिन् दैतेयाः अदित्ययोः भृशं घोरे महायुद्धे अदितेः आत्मजाः दितेः पुत्रान् नि जघ्निरे ।

'Oh Vira ! In that severe battle of Aditi and Diti's children, Aditi's children defeated Diti's children'.

निहत्यदितपुत्त्रांश्च राज्यंप्राप्य पुरंदरः ।
शशास मुदितो लोकान् सर्षि संघान् स चारणान् ॥

स॥ पुरंदरः दिति पुत्रां च निहत्य राज्यं प्राप्य मुदितो स ऋषिसंघान् स चारणान् लोकान् शशास ।

'Purandara ( Indra) defeated Diti's children and gained the kingdom . He ruled over all the three worlds including Rishis and Charanas'.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे पंच चत्वारिंश स्सर्गः ॥
समाप्तं॥

|| Thus ends the forty fifth sarga of Balakanda in Srimad valmiki Ramayan |

|| Om tat sat ||


|| om tat sat ||