Srimad Valmiki Ramayanam

Balakanda Sarga 46

Diti's sorrow !

बालकांड
षट्चत्वारिंश स्सर्गः

हतेषु तेषु पुत्त्रेषु दितिः प रम दुःखिता ।
मारीचं काश्यपं राम भर्तारं इदमब्रवीत् ॥

स॥ हे रामा ! तेषु पुत्रेषु हतेषु दितिः परम दुःखिता ( अस्ति) भर्तारं काश्यपं मारीचं इदं अब्रवीत् ।

Oh Rama! since her sons were killed, Diti was full of sorrow and spoke to her husband Kasayapa who was the son of Marichi.

हतपुत्त्राs स्मि भगवन् तवपुत्रैर्महबलैः ।
शक्रहंतारमिछ्छामि पुत्रं दीर्घतपोर्जितम्॥

स॥ हे भगवन् ! महाबलैः तव पुत्रैः हत पुत्रा अस्मि । दीर्घ तपोर्जितं पुत्रं शक्र हंतारं इच्छामि ।

Oh Bhagavan ! the powerful sons of yours made me one whose children have been killed. I want to perform a long penance and desire a son who can defeat Indra.

साहं तपः चरिष्यामि गर्भं मे दातु मर्हसि ।
ईश्वरं शक्र हंतारं त्व मनुज्ञातु मर्हसि॥
तस्यास्तद्वचनं श्रुत्वा मारीचः कास्यपस्तथा ।
प्रत्युवाच महातेजा दितिम् परमदुःखिताम् ॥

स॥ अहं तपः चरिष्यामि त्वं अनुज्ञातु मर्हसि । ईश्वरं शक्र हंतारं गर्भं मे दातुमर्हसि ।मारीचः कस्यपः महातेजा तथा तस्याः तद् वचनं श्रुत्वा परमदुःखितां दितिं प्रत्युवाच

"I will do penance. You may give the permission to do so. Allow me to have a son who will rule the three words and who can kill Indra". The venerable sage Kasyapa, son of Maricha having heard the words of Diti who was in deep sorrow, spoke to her as follows.

एवं भवतु भद्रं ते शुचिर्भव तपोधने ।
जनयिष्यति पुत्त्रं त्वं शक्रहंतार माहवे॥
पूर्णे वर्ष सहस्रे तु शुचिर्यदि भविष्यसि ।
पुत्त्रं त्रैलोक्य भर्तारं मत्तस्त्वं जनयिष्यसि ॥
एवमुक्त्वा महातेजाः पाणिना सममार्जताम् ।
समालभ्य ततः स्वस्ती त्युक्त्वा स तपसे ययौ ॥

स॥ हे तपोधने एवं भवतु । भद्रं ते ।त्वं शुचिर्भव माहवे शक्र हंतारं पुत्रं जनयिष्यति।यदि सहस्रे वर्ष पूर्णे शुचिः भविष्यति तदा पुत्त्रं त्रैलोक्य भर्तारं मत्तः त्वं जनयिष्यसि ।महातेजाः पाणिना सम मार्जतां ततः समालभ्य स्वस्ती इति युक्त्वा स तपसे ययौ ।

"Oh Lady with a treasure of penance ! Let it be so. May auspicious things happen to you. You maintain your purity. You will have a son who can kill Indra. If you remain so for a thousand years you will give birth to a son of mine who will be the leader of the three worlds". Having said so touching her with his hand by way of affection he went away for his penance.

गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता ।
कुशप्लवन मासाद्य तपस्तेपे सुदारुणं ॥
तपस्तस्यां हि कुर्वंत्यां परिचर्यां चकार ह ।
सहस्राक्षो नरश्रेष्ठ परया गुण संपदा ॥
अग्निं कुशान् काष्ठ मपः फलं मूलं तथैव च।
न्यवेदयत् सहस्राक्षो यच्छान्यदपि कांक्षितम् ॥
गात्र संवाहनैश्चैव श्रमापनयनैस्तथा ।
शक्रस्सर्वेषु कालेषु दितिं परिचचार ह ॥

स॥ हे नरश्रेष्ठ! तस्मिन् गते परमहर्षिता दितिः कुश प्लवनं आसाद्य सुदारुणं तपः तेपे ।हे नरस्रेष्ठ ! तस्यां तपः हि कुर्वंत्यां सहास्राक्षः परया गुण संपदा परिचर्यां चकार ह ।सहस्राक्षः अग्निं कुशान् काष्ठम् आपः फलं मूलं तथैव अन्यदपि कांक्षितं यच्छान् च न्यवेदयत् ।शक्रः सर्वेषु कालेषु गात्रः संवाहनैश्च एव श्रमापनयनैस्तथा दितिं परिचचार ह ।

'O Best of men ! After he left Diti who was delighted went to Kusaplavana and performed her penance. O Best of men ! when she is performing her penance Indra , the one with thousand eyes undertook the task of attending on her with respect. Indra took care of the needs of fire, auspicious grass for puja, the implements required for her daily rituals, the roots and fruits , and all her needs as and when required. He was doing all in his power to reduce strain on her by massaging and fanning her etc.

अथ वर्ष सहस्रे तु दशोने रघुनंदन।
दितिः परम संप्रीता सहस्राक्षम् अथाब्रवीत्॥
याचितेव सुर श्रेष्ठ तवपित्रा महात्मना ।
वरो वर्ष सहस्रांते दत्तो मम सुतं प्रति ॥
तप श्चरंत्या वर्षाणि दश वीर्यवतां वर ।
अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥
तमहं त्वत्कृते पुत्त्र समधास्ये जयोत्सुकम् ।
त्रैलोक्यविजयं पुत्त्रं सहभोक्ष्यसि विगत ज्वरः ॥

स॥ हे रघुनंदना ! सहस्रवर्षे दशोने तु परम संप्रीता दिति सहस्राक्षं अब्रवीत् । हे सुरस्रेष्ठा ! तव पित्रा महात्मना वरो याचितेव सहस्र वर्षे अंते सुतं दत्तो मम प्रति । वीर्यवतां वर तपः चरंत्या दश वर्षाणि अवशिष्ठानि । ततः भ्रातरं द्रक्ष्य से ।भद्रं ते । त्वत्कृते पुत्त्र जयोत्सुकं तं अहं समधास्ये । त्रैलोक्य विजयं पुत्रं सह भोक्ष्यसे विगत ज्वरः ।

'Oh Raghunandana ! when there are ten years left for the completion of thousand years, Diti happy with the services of Indra spoke to him as follows." O Best of Suras! Your great father gave me a son to be born after thousand years of penance as a boon. Only ten years are left. Then you can see your brother. My son who is capable of killing you, when he gets ready for a victory I will calm him down. Both of you together can enjoy the leadership of the three worlds".

एवमुक्त्वा दितिश्शक्रं प्राप्ते मध्यं दिवाकरे ।
निद्रयापहृता देवी पादौ कृत्वाsथ शीर्षतः ॥
द्रुष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्थजाम् ।
शिरःस्थाने कृतौ पादौ जहास च मुमोद च ॥

स॥ दितिः शक्रं एवं उक्त्वा दिवाकरं मध्यं प्राप्ते । देवी निद्रया अपहृता अथ शीर्षतः पादौ कृत्वा ( भभूव)। शिरः स्थाने कृतं पादौ, पादतः कृत मूर्थजां तां अशुचिं दृष्ट्वा शक्रः जहास च मुमोद च ।

While she was telling this it became afternoon. She fell asleep with her head in the direction where her feet should be. Feet were in the place where head should be so was the hair. Seeing that violation of principles of purity Indra smiled and was happy.

तस्य शरीरविवरं विवेश च पुरंदरः ।
गर्भं च सप्तथा राम भिभेद परमात्मवान् ॥
भिद्यमनस्ततो गर्भो वज्रेण शतपर्वणा ।
रुरोद सुस्वरं राम ततो दितिरबुध्यत ॥

स॥ हे राम ! पुरंदरः तस्य शरीर विवरं विवेश गर्भं च सप्तथा भिभेद परमात्मन्। हे राम ! शत पर्वणा वज्रेण गर्भो भिद्यमनः ततो रुरोद सुस्वरं ततः दितिः अभुध्यत।

Oh Rama! Then Indra entered her body and cut the foetus into seven pieces. O Rama as he cut the foetus with his hundred inch long Vajrayudha, the foetus cried loudly. Then Diti realized.

मारुदो मारुदश्चेति गर्भं शक्रोsभ्यभाषत ।
भिभेद च महातेजा रुदंतमपि वासवः ॥
न हंतव्यो न हंतव्य इत्येवं दिति रब्रवीत् ।
निष्पपात ततश्शक्रो मातुर्वचन गौरवात् ॥

स॥ शक्रः मारुदो मारुदश्च इति अभ्यभाषत । रुदंतमपि वासवः महतेजा (तं) भिभेद च । दितिः न हंतव्यो न हंतव्यो इतिः एवं अब्रवीत् । शक्रः मातुर्वचन गौरवात् ततः निष्पपात ।

Indra told the foetus not to cry even as he continued to cut into pieces. Diti cried out saying " do not kill" "do not kill". Respecting mothers words Indra came out.

प्रांजलिवज्र सहितो दितिं शक्रोs भ्यभाषत ।
अशुचिर्देवी सुप्तासि पादयोः कृतमूर्धजः ॥
तदंतर महं लब्ध्वा शक्र हंतारमाहवे ।
अभिंदं सप्तधा देवी तन्मे त्वं क्षंतुमर्हसि ॥

स॥ शक्रः वज्र सहितो प्रांजलि अभ्यभाषत । देवी पादयोः कृत मूर्धजः अशुचिः सुप्तासि । तदंतरं लब्ध्वा अहं शक्रहंतारं सप्तधा अभिंदं आहवे । देवी तन्मे त्वं क्षंतुमर्हसि ।

Indra carrying his Vajrayudha paid obeisance to Diti and spoke as follows. " Oh Mother keeping your head where feet should be you became impure. Using the opportunity I cut that foetus which is capable of killing Indra, into seven pieces. Oh mother forgive me !

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे षट्चत्वारिंश स्सर्गः ॥
समाप्तं ॥

Thus ends Sarga forty seventh in Balakanda of Srimad Valmiki Ramayan
॥ओम् तत् सत्॥

 

 


|| om tat sat ||