Srimad Valmiki Ramayanam
Balakanda Sarga 47
Story of Sapta maruths & the city of Visala !
बालकांड
सप्तचत्वारिंश स्सर्गः
( सप्तमरुतस्य कथः - विशाल नगरस्य कथः)
सप्तधा तु कृते गर्भे दितिः परमदुःखिता ।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाs ब्रवीत् ॥
स॥ गर्भे कृते तु सप्तधा दितिः परम दुःखिता (भवति) । स अनुनयात् दुराधर्षं सहस्राक्षं वाक्यं अब्रवीत् ।
With foetus being made into seven pieces Diti was full of sorrow. Yet she spoke in an appealing manner to Indra who cannot be defeated.
ममापराधात्गर्भोयं सप्तधा विफलीकृतः ।
नापराधो स्ति देवेश तवात्र बलसूदन ॥
स॥ अयं गर्भः मम अपराधात् विफली कृतः । बलसूदना देवेश अत्र तव न अपराधो अस्ति ।
" This pregnancy has failed because of my flatu Concurred of Bala ! Oh Best of Gods ! There is no fault of yours in this."
प्रियं कर्तु मिच्छामि ममगर्भ विपर्यये ।
मरुतां सप्त सप्तानां स्थानपाला भवंत्विमे ॥
स॥ मम गर्भ विपर्यये प्रियं कर्तु मिच्छामि । इमे मरुतां सप्त सप्तानां स्थानपाला भवंति ।
"Although my foetus has been cut into seven pieces I would like to do my best. These seven will be the leaders of seven regions'.
वातस्कंधा इमे सप्त चरंतु दिवि पुत्रक ।
मारुता इति विख्याता दिव्यरूपा ममात्मजः ॥
स॥ दिव्यरूपा ममात्मजः इमे सप्त वातस्कंधा चरंतु दिवि पुत्रक मारुता इति विख्याता।
My children in celestial forms will be leaders of seven Vayus and will be known in the celestial world as " Maruts"
ब्रह्मलोकं चरत्वेक इंद्र लोकं तथापरः ।
दिवि वायुरिति ख्यातः तृतीयोs पि महायशाः ॥
स॥ एकः ब्रह्म लोकः चरति तथा अपरः इंद्रलोकं । तृतीयः अपि महायशाः वायुरिति दिवि ख्यातः ।
"One will be moving in the Brahma Loka , the other in Indra Loka. The third will be very well known and attain fame with the name 'Vayu'."
चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् ।
संचरिष्यंति भद्रं ते देवभूता ममात्मजः ।
त्वत्कृते नैव नाम्ना च मारुता इति विश्रुताः ॥
स॥ सुरश्रेष्ठ चत्वारः तव शासनात् दिशो वै संचरिष्यंति । भद्रं ते । देवभूता ममात्मजः त्वत्कृतेन एव नाम्ना मारुता इति विश्रुताः।
"Oh Indra ! The remaining four will follow your direction and they will move in the four directions. Oh Devabhuta ! They attain the name "Maruta" based on the your acts".
तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः ।
उवाच प्रांजलिर्वाक्यं दितिं बलनिषूदन ॥
सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।
विचरिष्यंति भद्रं ते देवरूपास्तवात्मजः ॥
स॥ बलनिषूदन पुरंदरः सहस्राक्षः तस्याः तद् वचनं श्रुत्वा प्रांजलिः दितिंवाक्यं उवाच।एतत्त् सर्वं यथोक्तं ते भविष्यति न संशयः ! तवात्मजः देवरूपा विचरिष्यंति । भद्रं ते।
Indra, the destroyer of Bala and also called Purandara, having heard the words of Diti, bowing to her solemnly spoke as follows."It shall happen as you stated. Your sons will move about in celestial forms. May all auspicious things happen to you."
एवं तौ निश्चयं कृत्वा मातापुत्त्रौ तपोवने।
जग्मतुस्त्रिदिवं राम कृतार्थाविति नश्श्रुतम् ॥
स॥ हे राम ! तौ मातापुत्रौ तपोवने एवं निश्चयं कृत्वा कृतार्थाः त्रिदिवं जग्मतुः इति नः श्रुतं।
' Oh Rama ! It is understood that the mother and the son having thus decided in that grove of penance and having achieved their objective went back to the heaven'.
एष देशः काकुत् स्थ महेंद्राध्युषितः पुरा ।
दितिम् यत्र तपस्सिद्धां एवम् परिचचार सः ॥
स॥ हे काकुत् स्थ ! एष देशः यत्र पुरा तपस्सिद्धां दितिं सः महेंद्रः अध्युषितः एवं परिचचार ।
'O Kakutstha! This is the place where Indra served Diti who undertook her penance'.
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः।
अलंबुसायाम् उत्पन्नो विशाल इतिश्रुतः ॥
तेन चासीदिह स्थाने विशालेति पुरी कृता ॥
स॥ हे नरव्याघ्र ! इक्ष्वाको परमधार्मिकः अस्तु. (सः) अलंबुसायाम् विशाल इति पुत्रः उत्पन्नो इति विश्रुतः । तेन चासीत् विशाल इति इह स्थाने पुरी कृता ।
'Oh Tiger among men !There was king by name Ikshvaku who is very righteous. He had a son by name Visala through Alambusa. In his name only the city of Visala was made here'.
विशालस्यु सुतो राम हेमचंद्रो महाबलः।
सुचंद्र इति विख्यातो हेमचंद्रादनंतरः ॥
सुचंद्र तनयो राम धूम्राश्व इति विश्रुतः ।
धूम्राश्व तनयश्चापि सृंजय स्समपद्यत ॥
स॥ हे राम ! हेमचंद्रः महाबलः विशालस्य सुतः । हेमचंद्रात् अनंतरः सुचंद्र इति विख्यातः । हे राम ! सुचंद्रः तनयः धूम्राश्व इति विश्रुतः । धुम्राश्वस्य तनयः सृंजयः अपि समपद्यत ।
'Oh Rama ! Hemachandra was the son of Visala. After Hemachandra Suchandra has attained fame. Oh Rama ! Dhumraasva is heard to be the son of Suchandra. Dhumraasva's son is Srunjaya'.
सृंजयस्य सुत श्श्रीमान् सहदेवः प्रतापवान् ।
कुशाश्वः सहदेवस्य पुत्त्रः परमधार्मिकः ॥
कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्।
सोमदत्तस्य पुत्त्रस्तु काकुत् स्थ इति विश्रुतः ॥
स॥ सृंजयस्य सुतः प्रतापवान् श्रीमान् सहदेवः । सहदेवस्य पुत्रः परमधार्मिकः कुशाश्वः ।कूशाश्वस्य ( पुत्रः) सोमदत्तः प्रतापवान् महातेजाः । सोमदत्तस्य पुत्रः तु काकुत् स्थः इति विश्रुतः ।
'Srunjaya's son Sahadeva has all auspicious qualities and is a great warrior. Sahadeva's son is Kusaasva who is righteous person. Kusaasva's son is Somadatta who is illustrious and powerful. Somadatta's son is heard to be Kakustha'.
तस्य पुत्त्रो महातेजाः संप्रत्येष पुरीमिमाम् ।
अवसत्यमर प्रख्यः सुमतिर्नाम दुर्जयः ॥
इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः ।
दीर्घायुषो महात्मानो वीर्यवंत सुधार्मिकः ॥
स॥ तस्य पुत्रः महातेजाः दुर्जयः सुमतिः नाम संप्रतिः एष इमाम् पुरीम् अवसत्यमरप्रख्यः ।इक्ष्वाकस्य प्रसादेन वैशालिका नृपाः सर्वे दीर्घायुषः महात्मानः वीर्यवंतः सुधार्मिकः ।
'His is son is very powerful and cannot be defeated. His name is Sumati. Presently he is ruling this place. Because of Ikshvakus grace all the rulers of Visala were righteous, powerful and were with long life'.
इहाद्य रजनीं राम सुखं वत्स्यमहे वयम् ।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ॥
स॥ हे राम इह अद्य रजनीं सुखं वत्स्यमहे वयं ।हे नरश्रेष्ठ ! श्वः प्रभाते जनकं द्रष्टुं अर्हसि ।
' O Rama! We will stay here for the night and rest. Tomorrow we will be on our way to see Janaka'.
सुमतिस्तु महातेजा विश्वामित्रम् उपागतम् ।
श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ॥
पूजां च परमं कृत्वा सोपाध्यायस्सबांधवः ।
प्रांजलिः कुशलं पृष्ट्वा विश्वामित्रं अथाब्रवीत् ॥
स॥ महातेजा सुमतिस्तु विश्वामित्रं उपागतं श्रुत्वा नरवरस्रेष्ठः प्रत्युद् गच्छन् महायशाः ।सह उपाध्याय सह बांधवः परमं पूजां कृत्वा , प्रांजलिः कुशलं पृष्ठ्वा विश्वामितं अथ अब्रवीत् ।
Having come to know of the arrival of Viswamitra, the powerful Sumati who is the best among men and who has lot of fame came ahead to receive the sage. Having received him along with his priests and relatives , he paid obeisance to sage Viswamitra and spoke to him as follows.
धन्योस्मि अनुग्रहीतोस्मि यस्य मे विषयं मुनिः ।
संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मया ॥
स॥ हे मुनिः धन्योश्मि यस्य मे विषयं अनुग्रहीतोश्मि। (तव) दर्शनं संप्राप्तः च एव धन्यतरः नास्ति ।
"Oh Sage ! I am gratified. With your visit I have been blessed. I have your Darshan too. There can be nothing more auspicious than that !"
इत्यार्षे श्रीमद्रामयणे वाल्मीकीये आदिकाव्ये बालकांडे सप्तचत्वारिंश स्सर्गः ॥
समाप्तं ॥
Thus ends the Sarga forty Seven of Balakanda in Valmiki Ramayan.
||om tat sat ||
|| Om tat sat ||