Srimad Valmiki Ramayanam
Balakanda Sarga 48
Story of Ahalya !
बालकांड
अष्टचत्वारिंश स्सर्गः
( अहल्याशाप वृत्तांतः)
पृष्ट्वा तु कुशलं तत्र परस्पर समागमे ।
कथांते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥
स॥ तत्र परस्पर समागमे कुशलं पृष्ट्वा कथांते सुमतिः महामुनिं व्याजहार ।
There after greeting each other and enquiring about welfare etc in the end the King Sumati addressed the venerable sage as follows.
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूल वृषभोपमौ ॥
पद्मपत्र विशालाक्षौ खड्गतूणी धनुर्थरौ ।
अश्विनाविव रूपेण समुपश्थितयौवनौ ॥
यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥
भूषयंताविमं देशं चंद्रसूर्याविवांबरम् ।
परस्परस्य सदृशौ प्रमाणेंगितचेष्टितैः ।|
किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि ।
वरायुधधरौ वीरौ श्रोतुमिछ्छामि तत्त्वतः ॥
स॥ ते भद्रं (भवतु) । इमौ कुमारौ देवतुल्य पराक्रमौ शार्दूल वृषभोपमौ गजसिंहगती वीरौ ।(ते) पद्म पत्र विशालाक्षौ । खड्गतूणी धनुर्धरौ । रूपेण अश्विना इव । समुपस्थित यौव्वनौ ।( ते) देवलोकाद् अमरौ इव । यदृच्चयएव गां प्राप्तौ । कथं पद्भ्यां इह प्राप्तः । किमर्थं कस्य वा ।अंबरं चंद्रसूर्याविव इमं देशं भूषयंता । ते प्रमाणांगित चेष्टितैः परस्परस्य सदृसौ ।वरायुधधरौ वीरौ नरश्रेष्टौ किमर्थं दुर्गम् पथि. । श्रोतुमिच्चामि तत्त्वतः ।
"Oh Venerable sage ! May you be blessed. These two princes look like equals of Devas in prowess. They seem to equal a tiger and bull in their posture , and in their gait they resemble a lion and an elephant. Their eyes are as big as the lotus leaf. Carrrying a bow and arrows they look equals of Aswini in form and they seem to be of age appropriate to the youth. They look like those without death from the Devaloka, and came here because of our good fortune. Who are they ? Why did they come here ? Like the Sun and Moon gracing the skies they are gracing the town. They look alike in their postures and actions. Carrying best of arms why are they coming through these dense forests on foot . I am interested in knowing fully about them".
तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत् ।
सिद्धाश्रम निवासं च राक्षसानां वधं तथा ॥
विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः ।
अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ ।
पूजयामास विधिवत् सत्कारार्हौ महाबलौ ॥
स॥ तस्य तत् वचनं श्रुत्वा सिद्धाश्रम निवासं तथा राक्षसानां वथं च यथावृत्तं न्यवेदयत् ।विश्वामित्रः वचः श्रुत्वा राजा तौ दशरथस्य पुत्रौ परमौ अतिथी प्राप्तौ परमहर्षितः विधिवत् सत्कारार्हौ महाबलौ पूजयामास ।
Hearing the words of the king , the sage told him about Siddhasrama as well as the killing of Rakshasas as it happened. Hearing those words of Viswamitra and delighted to have the sons of Dasaratha, the king honored the two who are fit to be honored and who are known for their prowess.
ततः परमसत्कारं सुमतेः प्राप्य राघवौ।
उष्य तत्र निशामेकां जग्मतुः मिथिलां ततः ॥
तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीम् शुभाम् ।
साधु साध्विति शंसंतो मिथिलां समपूजयन् ॥
स॥ ततः राघवौ सुमतेः परम सत्कारं प्राप्य तत्र नीशां एकाम् उष्य मिथिलां जग्मतुः ।जनकस्य पुरीं शुभां मिथिलां दृष्ट्वा साधु साध्विति शंसंतो तां समपूजयन् ।
Then Rama and Lakshmana having thus been honored spent one night in that place and proceeded to Mithila. Seeing Janaka's city, the auspicious Mithila the sages exclaimed "good" "good" and proceeded to pay their respects.
मिथिलोपवने तत्र आश्रमं दृश्य राघवः ।
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम् ॥
श्रीमदाश्रमसंकाशं किन्विदं मुनिवर्जितम् ।
श्रोतु मिच्छामि भगवन् कस्यायं पूर्व आश्रमः ॥
स॥ राघवः तत्र मिथिलोपवने आश्रमं पुराणं निर्जनं रम्यं दृश्य मुनिपुंगवं प्रपच्छ ।हे भगवन् किन्विदं श्रीमदाश्रम संकाशं मुनिवर्जितं । कस्य अयं पूर्व आश्रमः । श्रोतुमिच्छामि ।
There, near Mithila, seeing an ancient hermitage which is devoid of people, Rama asked the venerable sage as follows. " Oh Bhagavan , why is this place which is looking like a hermitage in all respects, devoid of sages ? Whose is this hermitage in ancient times? I would like to know this."
तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः ।
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ॥
हंत ते कथयिष्यामि श्रुणु तत्त्वेन राघव ।
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना ॥
स॥ राघवेण उक्तं तत् वाक्यं श्रुत्वा वाक्य विशारदः महातेजाः विश्वामित्रः महामुनिः प्रत्युवाच । हे राघव । हंत ते कथयिष्यामि तत्त्वेन । एतद् आश्रमपदं महात्मना यस्य कोपान् शप्तं (इति) ।
Hearing those words of Rama, the venerable sage Viswamitra who is an expert in forming sentences and who has great radiance, spoke as follows. "O Raghava ! I will answer your question. This hermitage was cursed because of the anger of a great soul".
गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः ।
आश्रमो दिव्य संकाशः सुरैरपि सुपूजितः ॥
स चेह तप अतिष्ठत् अहल्या सहितः पुरा ।
वर्षपूगानने कांश्च राजपुत्त्र महायशः ॥
स॥ हे नरश्रेष्ठ ! पूर्वं गौतमस्य दिव्य संकाशः सुरैरपि सुपूजितः आश्रमं आसीत् ।हे राजपुत्र ! पुरा स च इह महायशः अहल्या सहितः अनेकांश्च वर्षपूगान् तप अतिष्ठत्।
"Oh Best of men! In ancient days it is Gautama's hermitage which is honoured by Devas and shone with celestial brilliance. Oh Prince ! In the old times That great soul performed penance here along with Ahalya for several years".
तस्यांतरं विदित्वा तु सहस्राक्षश्शचीपतिः
मुनिवेषधरो अहल्याम् इदं वचनमब्रवीत् ।
ऋतुकालं प्रतीक्षंते नार्थिनस्सुसमाहिते ।
संगमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥
स॥ तस्य अंतरं विदित्वा सहस्राक्षः शचीपतिः मुनिवेषधरः अहल्यां इदं वचनं अब्रवीत् ।हे सुमध्यमे ! अर्थिनः ऋतुकालं न प्रतीक्ष्यंते अहं त्वया सह संगमं इच्छामि ।
" Once when the sage was not in the hermitage , Indra came in the garb of that sage and spoke to Ahalya as follows. " Oh beautiful one ! those who have desire do not wait for the season or time. I want to make love now"
मुनिवेषं सहस्राक्षं विज्ञाय रघुनंदन ।
मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥
अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनांतरात्मना ।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्र मितः प्रभो ॥
अत्मानं मां च देवेश सर्वथा रक्ष मानद ।
इंद्रस्तु प्रहसन् वाक्यं अहल्यां इदमब्रवीत् ।
सुश्रोणी परितुष्टोsस्मि गमिष्यामि यथागतम् ॥
स॥ हे रघुनंदन ! मुनिवेषं सहस्राक्षं देवराज विदित्वा दुर्मेधा कुतूहलात् मतिं चकार । अथ कृतार्थेनांतरात्मना सुरश्रेष्ठं अब्रवीत् " प्रभो कृतार्थास्मि. गच्छ शीघ्रं इतः ।देवेश आत्मानंच मांच सर्वथा रक्ष मानद । इंद्रस्तु प्रहसन् अहल्यां इदं वाक्यं अब्रवीत् । हे सुश्रोणी परितुष्टोस्मि गमिष्यामि यथा गतं ।
"Oh Raghunandana! Realizing that the one in the garb of the sage is none other than Indra the one with thousand eyes, the lady was bedevilled with curiosity. Then having satisfied herself she spoke to Indra."O King! I am satisfied . Please go away immediately. O Indra please protect your honor and mine too". Indra also spoke with a smile." O Lady ! I am happy I will go the way I have come."
एवं संगम्य तु तदा निश्चक्रामोटजात् ततः ।
स संभ्रमात् त्वरन् राम शंकितो गौतमं प्रति ॥
गौतमं सददर्शाथ प्रविशंतं महामुनिम्।
देवदानव दुर्दर्षं तपोबलसमन्वितम् ॥
स॥ हे राम ! तदा एवं संगम्य गौतमं प्रति शंकितो स संभ्रमात् ततः त्वरं निश्चक्राम उटजात् ।अथ स देवदानव दुर्दर्षं तपोबलसमन्वितं प्रविशंतं महामुनिं गौतमं ददर्श ।
Oh Rama ! having thus got together, being afraid that the sage Gautama may come he came out of the hermitage in a hurry. Then he saw venerable sage Gautama who is above Devas and Danavas and who has immense power of penance entering the hermitage.
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् ।
गृहीत समिधं तत्र सकुशं मुनिपुंगवम् ॥
दृष्ट्वा सुरपतिः त्रस्तो विवर्णsवदनो भवत् ॥।
स॥ तत्र तीर्थोदक परिक्लिन्नं अनिलमिव दीप्यमानं सकुशं गृहीत समिधं मुनिपुंगवं (तं) दृष्ट्वा त्रस्तः सुरपतिः विवर्ण वदनो अभवत् ।
Seeing that sage who has taken bath in auspicious waters who is shining brilliantly like fire and is carrying Kusa grass and implements for puja , Indra who is killer of Trastra became one whose face is drained of color.
अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः ।
दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत् ॥
ममरूपं समास्थाय कृतवानपि दुर्मते ।
अकर्तव्यमिदं तस्मात् विफलस्त्वं भविष्यसि ॥
गौतमेनैवमुक्तस्य सरोषेण महात्मना ।
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत् क्षणात् ॥
स॥ अथ मुनिः मुनिवेषधरं दुर्वृत्तं सहस्राक्षं दृष्ट्वा रोषात् वृत्त संपन्नो (इदं) वचनम् अब्रवीत् । हे दुर्मते ममरूपम् समास्थाय अकर्तव्यं कृतवान् तस्मात् विफलत्वं भविष्यसि । गौतमेन सरोषेण एवमुक्तस्य तत् क्षणात् सहस्राक्षस्य वृषणौ पेततुः ।
Then the sage spoke to Indra who is wearing the garb of sage and who is embodiment of evil actions. Oh Evil minded one ! Wearing my form you have done a thing that is not to be done. Hence you will haunted by failure. Thus as soon as he was cursed in anger by the sage Gautama ,Indra's testicles fell off on the ground.
अथ शप्त्या स वै शक्रं अहल्यामपि शप्तवान् ।
इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥
वायुभक्षा निराहारा तप्यंती भस्मशायिनी ।
अदृश्या सर्वभूतानां आश्रमेsस्मिन् निवत्स्यसि ॥
यदाचैतद्वनं घोरं रामो दशराथत्मजः ।
आगमिष्यति दुर्दर्षः तदा पूता भविष्यसि ॥
तस्यातिथ्येन दुर्वृत्ते लोभमोह विवर्जिता ।
मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥
स॥ स अथ शक्रं शप्त्या अहल्यं अपि शप्तवान् । त्वं इह बहूनि वर्ष सहस्राणि निवत्स्यसि।अस्मिन् आश्रमे वायुबक्षा निराहारा सर्वभूतानां अदृश्या तप्यंती निवत्स्यसि ।यदा दुर्दर्षः रामः दशरथात्मजः एतत् घोरं वनम् आगमिष्यति तदा पूता भविष्यसि ।दुर्वृत्ते तस्य अतिथ्येन लोभ मोह विवर्जिता मुदा युक्ता मत्सकाशे स्वं वपुः धारयिष्यसि ।
The sage having cursed Indra thus then cursed Ahalya also saying, " You will live for thousands of years in this hermitage not eating any food but living only on air. You will be doing penance unseen by any creatures. When Rama the unconquerable son of Dasaratha comes to this dangerous forest then you will purified. Oh Lady of evil action ! With his arrival as a guest , you will be rid of desires and join me happily attaining your normal form".
एवमुक्त्वा महतेजा गौत मो दुष्ठचारिणीम्।
इममाश्रममुत्सृज्य सिद्धचारणसेविते ।
हिमवच्छिखरे पुण्ये तपस्तेपे महातपाः ॥
स॥महातपाः महातेजा गौतमः दुष्ठचारिणीं एवम् उक्त्वा इमं आश्रमम् उत्सृज्य पुण्ये सिद्ध चारण सेविते हिमवत् शिखरे तपः तेपे।
The highly celebrated Gautama having told that lady of evil actions left the hermitage and moved on to Himalayas which is the abode of Siddhas and Charanas in order to perform penance.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे अष्टचत्वारिंश स्सर्गः ॥
समाप्तं ॥
||Thus ends the Sarga forty eight in Balakanda of Srimad Valmiki Ramayana ||
|| om tat sat ||
|| Om tat sat ||