Srimad Valmiki Ramayanam
Balakanda Sarga 50
Janaka receives Viswamitra in Mithila !!
बालकांड
पंचास सर्गः
(मिथिलानगर प्रवेशः)
ततः प्रागुत्तरां गत्वा रामस्सौमित्रिणा सह ।
विश्वामित्रं पुरस्कृत्य यज्ञ वाटं उपागमत् ॥
स॥ ततः रामः सौमित्रिणः सहा विश्वामित्रं पुरस्कृत्य प्रागुत्तरं गत्वा यज्ञवाटं उपागमत् ।
Then Rama along with Lakshmana followed the venerable sage, and travelling in the north easterly direction they reached the place where sacrifice is being conducted.
रामस्तु मुनिशार्दूलं उवाच सह लक्ष्मणः ।
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः ॥
स॥ रामः लक्ष्मणः सह साध्वी मुनिशार्दूलं उवाच " महात्मनः जनकस्य यज्ञसमृद्धिर्हि "।
Then Rama along with Lakshman spoke to the best of sages as follows." The sacrifice of venerable Janaka is well provide for"
बहूनीह सहस्राणि नानादेश निवासिनाम्।
ब्राह्मणानां महाभाग वेदाध्ययन शालिनाम् ॥
स॥ इह बहूणी सहस्राणि नानादेश निवासिनाम् ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम् (संति) ।
"Here there are thousands of Brahmins from many countries who are scholars having studied Vedas"
ऋषिवाटाश्च दृश्यंते शकटी शतसंकुलाः ।
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयं॥
स॥ हे ब्रह्मन् ! ऋषिवाटाश्च शत शकटी संकुलाः दृश्यंते ।वयं देशो यत्र वत्स्यामहे विधीयतं ।
"Oh Brahman ! Residences for the sages, as well as hundreds of vehicles can be seen here. You may decide the location where we may stay. "
रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः ।
निवेशमकरोद्देशे विविक्ते सलिलायुते ॥
स॥ महामुनिः विश्वामित्रः रामस्य वचनं श्रुत्वा विविक्ते सलिलायुते देशे निवेशं अकरोत् ।
The venerable sage having heard Rama selected a place with peaceful surroundings and facilities for water.
विश्वामित्रं अनुप्राप्तं श्रुत्वा स नृपतिस्तदा ।
शतानंदं पुरस्कृत्य पुरोहितमनिंदितम् ।
प्रत्युज्जगाम सहसा विनयेव समन्वितः ॥
स॥ सः नृपतिः विश्वामित्रं अनुप्राप्तं श्रुत्वा विनयेव समन्वितः अनिंदितं पुरोहितं शतानंदं पुरस्कृत्य सहसा प्रत्युज्जगाम ।
The King too having heard that sage Viswamitra has come, came there quickly with humility along with his blemish less priest Satananda.
ऋत्विजोs पि महात्मान स्त्वर्घ्यमादाय सत्वरम्।
विश्वामित्राय धर्मेण ददुर्मंत्र पुरस्कृतम् ॥
स॥ ऋत्विजः अपि सत्वरं अर्घ्यं अदाय धर्मेण मंत्र पुरस्कृतं महात्मनः विश्वामित्राय तत् ददुः ।
The priests brought the sacred waters and offered the same to venerable Viswamitra following the prescribed rituals and chanting mantras.
प्रतिगृह्य च तां पूजां जनकस्य महात्मनः ।
प्रपच्छ कुशलं राज्ञो यज्ञस्य च निरामयं ॥
स॥ महात्मनः जनकस्य पूजां प्रतिगृह्य (सः) राज्ञो कुशलं यज्ञस्य निरामयं च प्रपच्छ ।
Receiving the honors offered by King Janaka , the venerable sage enquired about his welfare and about the sacrifice which is proceeding without a hitch.
स तांश्चापि मुनीन् पृष्ट्वा सोपाध्यायपुरोधनः।
यथा न्यायं ततः सर्वैः समागच्छत् प्रहृष्टवत् ॥
स॥ सः तां मुनीन् यथा न्यायं पृष्ट्वा ततः सोपाध्याय पुरोधनः सर्वैः प्रहृष्ठवत् समागच्छत् ।
There after he enquired after the welfare of other sages and then proceeded happily along with those priests.
अथ राजा मुनिश्रेष्ठं कृतांजलिरभाषत ।
आसने भगवनास्तां सहैभिर्मुनिपुंगवैः ॥
स॥अथ राजा कृतांजलिः मुनिश्रेष्ठं अभाषत । हे भगवन् तां मुनिपुंगवैः सह आसने ( तिष्ठतु) ।
Then the king with folded hands spoke to the best of sages as follows. " Oh Bhagavan ! Please take your seat along with other sages".
जनकस्य वचश्रुत्वा निषसाद महामुनिः ।
पुरोधा ऋत्विज श्चैव राजा च सहमंत्रिभिः ॥
स॥ महामुनिः जनकस्य वचः श्रुत्वा निषसाद । राजा ऋत्विजश्च एव मंत्रिभिः सह पुरोधा ।
Hearing those words of Janaka , sage Viswamitra then took his seat. Then the king along with his ministers and priests took his seat.
आसनेषु यथान्यायं उपविष्टान् समंततः ।
दृष्ट्वा स नृपतिस्तत्र विश्वामित्रं अथाब्रवीत् ॥
स॥ आसनेषु यथान्यायं समंततः उपविष्ठान् दृष्ट्वा स नृपतिः विश्वामित्रं अथाब्रवीत् ।
Seeing all of them seated appropriately , the king spoke to sage Viswamitra as follows.
अद्य यज्ञ समृद्धिर्मे सफला दैवतैः कृता ।
अद्य यज्ञ फलं प्राप्तं भगवद्दर्शनान्मया ॥
स॥ मे अद्य यज्ञ समृद्धिः देवतैः सफला कृता ।भगवत् दर्शनात् मया यज्ञफलं अद्य प्राप्तं ।
"By Gods grace , today the sacrifice is well provided for and has become fruitful too. Today with your venerable presence the sacrificial fruits have also been obtained".
धन्योस्मि अनुगृहीतोस्मि यस्यमे मुनिपुंगव ।
यज्ञोपसदनं ब्रह्मन् प्राप्तोsसि मुनिभिस्सह ॥
स॥ हे ब्रह्मन् यस्य मे यज्ञोपसदनं मुनिभिः सह मुनिपुंगवः प्राप्तोसि धन्योस्मि अनुगृहीतोस्मि ।
"Oh Brahman ! With arrival of all sages along with you, the best of sages, I am blessed. I have also been rewarded ."
द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः ।
ततो भागार्थिनो देवान् द्रष्टुं अर्हसि कौशिक ॥
स॥ हे ब्रह्मर्षी ! मनीषिणः द्वादशाहं शेषं आहुः ! ततः कौशिका भागार्थिनो देवाः द्रष्टुं अर्हसि ।
Oh Brahmarshi ! The priests tell that only twelve days are left. Then the gods arriving to receive their part of sacrificial offerings will be seen by you".
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा ।
पुनस्तं परिपृच्छ प्रांजलिः प्रणतो नृपः ॥
स॥ मुनिशार्दूलं इत्युक्त्वा तदा प्रहृष्टवदनः नृपः प्रांजलिः प्रणतो पुनः तं परिपृच्च।
Having spoken with the best of the sages thus , the king with folded hands again asked the following.
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
गजसिंहगती वीरौ शार्दूल वृषभौपमौ ॥
पद्मपत्र विशालाक्षौ खड्गतूणीधनुर्धौ ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥
स॥ भद्रं ते । इमौ कुमारौ देवतुल्य पराक्रमौ , शार्दूल वृषभौपमौ , गजसिंहगती वीरौ , पद्मपत्र विशाल अक्षौ, खड्गतूणीर धनुर्धरौ रूपेण अस्विनां इव, समुपस्थित यौवनौ (अस्ति)
"May all be well with you. These two boys seem to be of valor equalling the Devas, they look like a bull or tiger. In their movement they look like a lion or elephant. They have wide eyes resembling a lotus leaf. They are carrying their swords,arrows and wearing their Bow. In looks they resemble the Ashwini gods. They are of age appropriate to youth".
यदृच्छयैव गां प्राप्तौ देवलोक दिवामरौ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुनेः॥
स॥ अमरौ देवलोकाद् इव यदृच्चयैव गां प्राप्तः । कथं मुनेः पद्ब्यां इह प्राप्तः ? किमर्थं कस्या वा?
They look like the celestials free of death from Devaloka who arrived here by chance. Oh Sage! How are you coming on foot ? Why are are here ?
वरायुधधरौ वीरौ कस्यपुत्रौ महामुने।
भूषयंता विमं देशं चंद्र सूर्याविवांबरम् ॥
स॥ महामुने वीरौ वरायुध धरौ कस्यपुत्रौ ? इमं देशं चंद्र सूर्य मिव अंबरं भूषयंतां ।
"Oh Venerable sage ! Whose sons are these two who are carrying best of arms ? Like the Sun and Moon gracing the skies, these two are gracing this land by their presence."
परस्परस्य सदृशौ प्रमाणेंगितचेष्टितैः ।
काकपक्षधरौ वीरौ श्रोतुं इच्छामि तत्त्वतः ॥
स॥ प्रमाणांगित चेष्टितैः परस्पर सदृशौ काकपक्ष धरौ वीरौ तत्त्वतः श्रोतुं इच्छामि ।
By their acts, form and speak they resemble each other. I am curious to know about these two who are wearing their hair long which retains its freshness of childs hair.
तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः ।
न्यवेदयन्महात्मानौ पुत्रौ दसरथस्य तौ ।
स॥ महात्मनः जनकस्य तस्य तत् वचनं श्रुत्वा तौ महात्मानौ दशरथस्य पुत्रौ (इति) न्यवेदयन् ।
Hearing those words of venerable Janaka, Viswamitra told him that these two are sons of King Dasaratha.
सिद्धाश्रमनिवासं च राक्षसानां वथं तथा ।
तच्चागमन मव्यग्रं विशालायाश्च दर्शनं॥
स॥ सिद्धाश्रम निवासं च राक्षसानां वथं तथा विशालायाश्च दर्शनं तत् आगमनं अव्यग्रं ( निवेद्य)।
The stay in Siddhasrama, the killing of Rakshasas, visiting the city of Visala and travel from there have been detailed.
अहल्या दर्शनं चैव गौतमेन समागमम् ।
महाधनुषि जिज्ञासां कर्तुम् आगमनं तथा ॥
स॥ अहल्या दर्शनं च गौतमेन समागमनं च तथा महाधनुषि जिज्ञासां कर्तुं आगमनं ( निवेद्य)
Then the visiting with Ahalya, there after the meeting with sage Gautama , and the interest in knowing about the great bow of Siva which brought them here have been detailed.
एतत्सर्वं महातेजा जनकाय महात्मने ।
निवेद्य विररामाथ विश्वामित्रो महामुनिः ॥
स॥ एतत् सर्वं महातेजा जनकाय विश्वामित्रो महात्मने निवेद्य अथ विरराम ।
Having related all of above to the venerable Janaka, Viswamitra the great soul became silent.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे पंचाशस्सर्गः ॥
समाप्तं॥
|| Thus ends Sarga fifty of Balakanda in Srimad Valmiki Ramayan ||
||om tat sat||
|| om tat sat ||