Srimad Valmiki Ramayanam
Balakanda Sarga 51
Satananda tells the story of Viswamitra !!
बालकांड
एकपंचाश स्सर्गः
( विश्वामित्रस्य पूर्व वृत्तांतः)
तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।
हृष्टरोमा महातेजाः शतानंदो महतपाः ॥
गौतमस्य सुतो ज्येष्ठः तपसा द्योतित प्रभः ।
रामसंदर्शनादेव परं विस्मयमागतः ॥
स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ।
शतानंदो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥
स॥धीमतः विश्वामित्रस्य तस्य तत् वचनं श्रुत्वा महातेजाः महातपाः शतानंदः हृष्टरोमा (अभवत्) ।गौतमस्य ज्येष्टः सुतः तपसा ज्योतित प्रभः रामसंदर्शनादेव परं विस्मयं आगतः |शतानंदः निषण्णौ सुखासीनौ नृपात्मजौ संप्रेक्ष्य मुनिश्रेष्ठं विश्वामित्रं अथ अब्रवीत् ।
Hearing those words of sagacious sage Viswamitra, Satananda highly radiant and rich with the power of penance was thrilled. Satanada the the eldest son of Gautama radiant with the power of penance was delighted with seeing Rama. Satanada then seeing the two princes seated nearby spoke to Viswamitra, the best of sages.
अपिते मुनिशार्दूल मम माता यशस्विनी ।
दर्शिता राजपुत्त्राय तपो दीर्घमुपागता ॥
अपि रामे महातेजा मम माता यशस्विनी ।
वन्यैरुपाहरत् पूजां पूजार्हे सर्व देहिनाम् ॥
अपि रामाय कथितं यथावृत्तं पुरातनं ।
मममातुर्महातेजो दैवेन दुरनुष्ठितम् ॥
अपि कौशिक भद्रं ते गुरुणा ममसंगता ।
मम माता मुनिश्रेष्ठ रामसंदर्शनादितः ॥
अपि मे गुरुणा रामः पूजितः कुशिकात्मजः ।
इहागतो महातेजाः पूजां प्राप्तो महात्मनः ॥
अपि शांतेन मनसा गुरुर्मे कुशिकात्मजः ।
इहागतेन रामेण प्रयतेनाभिवादितः ॥
स॥ मुनिशार्दूल राजपुत्राय दीर्घं तपः उपागता मम माता ते दर्शिता अपि ।मम माता यशस्विनी सर्वदेहिनां पूजार्हे महातेजा रामे वन्यैः पूजां उपाहरत् अपि ।हे महातेजो ! मम मातुः पुरातनं दैवैन दुरनुतिष्टितं यथावृत्तं रामाय कथितम् अपि। हे कौशिक भद्रं ते ! हे मुनिश्रेष्ट मममाता रामसंदर्शनात् इतः मम गुरुणा संगता अपि। हे कुशिकात्मजः ! मे गुरुणा रामः पूजितः । पूजां प्राप्तो महातेजाः महात्मनः इहागतो अपि। हे कूशिकात्मजः इहागतेन रामेण मे गुरुः शांतेन मनसा प्रयतेन अभिवादितः ।
"Oh Tiger among sages ! Did the princes for whose darshan my mother was performing long penance oblige her ? Did my mother of great fame offer worship with things available in the forest to Rama who is fit for worship by the whole living world? O Highly radiant one ! Were those incidents that happened to my mother by misfortune told to SriRama ?Oh Kaushika , O Best of sages ! May all be well with you. After having Darshan of Rama did my mother join my father? O Son of Kusika ! Did my father offer worship to SriRama? Did Rama having received the worship oblige my father ? Oh Son of Kusika ! Rama having obliged did he receive my father with a calm mind and pay respects?"
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः।
प्रत्युवाच शतानंदं वाक्यज्ञो वाक्य कोविदम् ॥
नातिक्रांतं मुनि श्रेष्ठ यत्कर्तव्यं कृतं मया ।
संगता मुनिना पत्नी भार्गवेण रेणुका॥
स॥ तस्य तत् वचनं श्रुत्वा महामुनिः विश्वामित्रः वाक्यज्ञो वाक्य कोविदं शतानंदं प्रतुवाच ।हे मुनिश्रेष्ठ ! यत् कृता मया (तत्)कर्तव्यं नातिक्रांतं ! यथा भार्गवेण रेणुका तथा मुनिना पत्नी संगता ।
Hearing those words of Satananda who is a master of framing sentences and knows all about sentences, sage Viswamitra replied as under." Oh Best of sages! What I did was my duty. Nothing beyond that. The venerable sage rejoined his wife just like Bhargava was with Renuka !"
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य भाषितम्।
शतानंदो महतेजा रामं वचनमब्रवीत् ॥
स॥ तस्य विश्वामित्रस्य भाषितं वचनं तत् श्रुत्वा शतानंदः महातेजा रामं वचन्ं अब्रवीत् ।
Hearing those words of Viswamitra , the highly radiant Satananda spoke to Rama as follows.
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो सि राघव ।
विश्वामित्रं पुरस्कृत्य महर्षिं अपराजितम् ॥
अचिंत्य कर्मा तपसा ब्रह्मर्षितुलप्रभः ।
विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥
नास्ति धन्यतरो राम त्वत्तोsन्योभुवि कश्चन ।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥
श्रूयतांचाभिदास्यामि कौशिकस्य महात्मनः ।
यथाबलं यथावृत्तं तन्मे निगदतः शृणु ॥
स॥ हे नरश्रेष्ठ ! स्वागतं ।हे राघव ! अपराजितं महर्षिं विश्वामित्रं पुरस्कृत्य दिष्ट्या प्राप्तोसि ।महातेजा विशामित्रः अचिंत्य कर्मा तपसा ब्रह्मर्षि तुल प्रभः एनं परमां गतिं वेत्स (सः) ।राम त्वत् अन्यः धन्यतरो नास्ति भुवि कश्चन । कुशिकपुत्रस्ते येन महत्तपः तप्तं गोप्ता । महात्मनः कौशिकस्य यथा बलं यथा वृत्तं तन् मे अभिदास्यामि श्रूयतां निगदतः श्रुणु ।
" Oh Best of men! Welcome. O Raghava ! Following the undefeated and venerable sage Viswamitra is indeed fortunate for you. The highly radiant Viswamitra has become a Brahmarshi performing actions that cannot be imagined. It is instructive to know his ways. Oh Rama there cannot be any other man luckier than you in this world. This son of Kusika has performed tremendous penance. He is is your protector. I will tell you about the strength of Kausika in detail. Please listen !.
राजाsभूदेष धर्मात्मा दीर्घकालमरिंदमः ।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥
प्रजापतिसुतश्चासीत् कुशो नाम महीपतिः ।
कुशस्य पुत्त्रो बलवान् कुशनाभ स्सुधार्मिकः ॥
कुशनाभसुतश्चासीत् गाधिरित्येव विश्रुतः ।
गाधेः पुत्त्रो महातेजाः विश्वामित्रो महामुनिः ॥
विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।
बहुवर्ष सहस्राणि राजा राज्य मकारयत् ॥
स॥ एष धर्मात्मा अरिंदमः दीर्घकालं राजा अभूत् । धर्मज्ञः कृतविद्यश्च प्रजानां हिते रतः ।कुशोनाम महीपतिः प्रजापतिसुतः आसीत् । कुशस्य पुत्रः बलवान् कुशनाभः सुधार्मिकः ।कुशनाभस्य सुतः गाधिः इति एव विश्रुतः । गाधेः पुत्रः महातेजाः विश्वामित्रः माहामुनिः आसीत् ।विश्वामित्रः महातेजाः मेदिनीम् पालयामास । राजा बहुवर्ष सहस्राणि राज्यं अकारयत् ।
"He is righteous. He has crushed all the enemies. He was a king for along time. He is knowledgeable about right conduct. He has learned all crafts. He is desirous of the welfare of people. There was a king by name Kusa. The son of Kusa is Kuasanabha, who is also righteous. The son of Kusanabha is well known as Gadhi. The son of Gadhi is the highly radiant and great ascetic Viswamitra. The highly radiant Viswamitra ruled the earth. He was ruling as a king for thousands of years".
कदाचित्तु महातेजा योजयित्वा वरूधिनीम्।
अक्षौहिणीपरिवृत्तः परिचक्राम मेदिनीम् ॥
नगराणि स राष्ट्राणि सरितश्च तथा गिरीन् ।
आश्रमान् क्रमशो राम विचरन्नाजगाम ह ॥
वशिष्ठस्याश्रमपदं नाना वृक्षसमाकुलम् ।
नानामृगगणाकीर्णं सिद्धचारण सेवितम् ॥
स॥ कदाचित् महातेजः अक्षौहिणी परिवृत्तः वरूधिनी योजयित्वा मेदिनीं परिचक्राम ।हे राम ! सः नगराणि राष्ट्राणि सरितश्च तथा गिरीन् क्रमशो विचरन् आश्रमान् जगाम ह ।नाना वृक्ष समाकुलं नानामृगगणाकीर्णम् सिद्धचारण सेवितं वशिष्ठस्य आश्रमपदं ( जगाम)।
Then once the highly radiant one having become victorious went around the earth with an army of one division ( Akshahauni). Oh Rama ! Going around cities, states, rivers and mountains he reached a hermitage. That hermitage of Vashista is full of variety of trees, and animals. It is worshipped by Siddhas and Charanas too.
देवदानव गंधर्वैः किन्नरैरुपशोभितम् ।
प्रशांतहरिणाकीर्णं द्विजसंघनिषेवितम् ॥
ब्रह्मर्षिगण संकीर्णं देवर्षिगण सेवितम् ।
तपश्चरण संसिद्धैः अग्निकल्पैर्महात्मभिः ॥
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।
फलमूलाशनैर्दांतैः जितरोषैर्जितेंद्रियैः ॥
ऋषिभिर्वालखिल्यैश्च जपहोम परायणैः ।
अन्यैर्वैखानसैश्चैव समंता दुपशोभितम् ॥
स॥( तत् आश्रमपदं) देव दानव गंधर्वैः किन्नरैः उपशोभितं प्रशांत हरिणा कीर्णं द्विजसंघ निषेवितं। ( तत् आश्रमपदं) ब्रह्मर्षि गण संकीर्णं देवर्षि गण सेवितं तपश्चरण संसिद्धैः अग्नि कल्पैः महात्मभिः.(तत आश्रमपदं) अभक्षैः वायुभक्षैश्च तथा शीर्ण पर्णा शनैः फलमूलाशनैः दांतैः जितरोषैः जितेंद्रियैः ( सेवितं) ।ऋषिभिः वालखिल्यैश्च अन्यैः वैखानसैश्च जप होम परायणैः समंतात् उपशोभितम् ।
That hermitage was brightened by the presence of Devas Danavas Gandharvas and Kinneras. It was quiet with herds of deer roaming freely. That hermitage was worshipped by legions of Brahmarshis and Devarshis. The sages there were rich with power of penance and were highly radiant like fire. There were some who are on fast. Some were having only air as the food. Some were having only ripened leaves. Some were on fruits and roots. Some were on vegetables grown underground. Some have conquered anger and some have conquered all sensory organs. That hermitage was radiant with the presence of sages, Valkhilyas, Vaikhanasas, and experts in penance and firer related rites.
वशिष्ठाश्रमपदं ब्रह्मलोकमिवापरं ।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महबलः ॥
स॥ वशिष्टाश्रमपदं अपरं ब्रह्मलोक मिव ( अस्ति) (तं) जयतां श्रेष्ठः महाबलः विश्वामित्रः ददर्श
That Vashista's hermitage was like another world of Brahma. Viswamitra, the best among Victors saw that hermitage.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे एकपंचाश स्सर्गः ॥
समाप्तं॥
Thus ends the fifty first chapter of Balakanda in Valmiki Ramayana.
|| ओम् तत् सत् ||
|| om tat sat ||