Srimad Valmiki Ramayanam

Balakanda Sarga 53

Vasistha's refuses to yield Sabala !!

|| om tat sat ||

बालकांड
त्रिपंचाशस्सर्गः

एवमुक्ता वसिष्ठेन शबला शत्रुसूदन ।
विदधे कामधुक् कामान् यस्य यस्य यथेप्सितम्॥

स॥ हे शत्रुसूदन ! वसिष्ठेन एवम् उक्ता शबला कामधुक् यस्य यस्य यथेप्सितम् कामान् विदधे॥

'Oh Rama ! Having been told by Sage Vasishta , Sabala then prepared food according to the wishes and preferences of each person'.

इक्षून् मधूं स्तथा लाजान् मैरेयांश्च वरासनान् ।
पानानि च महर्हाणि भक्ष्यां श्चोच्चावचांस्तथा ॥
उष्णाढ्यस्यौदनस्यात्र राशयः पर्वतोपमाः ।
मृष्टान्नानि च सूपांश्च दधिकुल्यां स्तथैव च ॥
नानास्वादु रसानां च षाडबानां तथैव च ।
भाजनानि सुपूर्णानि गौडानि च सहस्रशः ॥
सर्व मासीत् सुसंतुष्टं हृष्टपुष्ट जनायुतम् ।
विश्वामित्र बलं राम वसिष्ठेनाभि तर्पितम् ॥

स॥ इक्षून् मधूं लाजान् मैरेयांश्च पानानि महार्हाणि श्चोच्चावचां भक्ष्यां तथा । अत्र उष्णाड्य स्यौदनस्य मृष्टान्नानि सूपांश्च तथैव दधिकुल्यां राशयः पर्वतोपमाः । नानास्वादु रसानां च तथैव षाडबानां च सुपूर्णानि गौडानि सहस्रशः भाजनानि च । हे राम विश्वामित्र बलम् सर्वं वसिष्ठेनाभि तर्पितम् हृष्ट पुष्ट सुसंतुष्ठं जनायुतं आसीत् । ।

'The food included sugar cane preparations, honey, and other drinks. There were a variety of food preparations with mountains of hot steaming food and great variety of grain preparations. There were variety of drinks and streams of curd . There were vessels filled with variety of food items. O Rama the army of Viswamitra became full of people who were thoroughly satisfied by the hospitality of sage Vasistha'.

विश्वामित्रोs पि राजर्षिः हृष्टः पुष्टस्तदा भवत् ।
सांतः पुरवरो राजा स ब्राह्मण पुरोहितः ॥
सामात्यो मंत्रिसहितः स भृत्यः पूजितस्तदा ।
युक्तः परमहर्षेण वसिष्ठं इदं अब्रवीत् ॥

स॥ तदा राजर्षिः विश्वामित्रः अपि हृष्टः पुष्टः अभवत् । स अंतः पुरवरः स ब्राह्मण स पुरोहितः सामात्यो मंत्रिसहितः स भृत्यः पूजितः राजा तदा परमहर्षेण इदं अब्रवीत् ।

'Then the King Viswamitra too was very happy . The king who was honored along with the best people of his palace, the entourage of Brahmins along with priests, the ministers and the servants, then spoke with delight as follows'.

पूजितोs हं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः ।
श्रूयतामभिदास्यामि वाक्यं वाक्य विशारद ॥

स॥ हे ब्रह्मन् ! पूजार्हेन त्वया अहं सुसत्कृतः पूजितं । हे वाक्य विशारद अभिदास्यामि वाक्यं श्रूयतां ।

"Oh Brahman! I have been honored by one who is is himself eminently honorable. Oh learned man I have one request".

गवां शतसहस्रेण दीयतां शबलामम ।
रत्नं हि भगवन्नेतत् रत्नहारीच पार्थिवः ॥
तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज ।

स॥ हे भगवन् गवां शतसहस्रेण शबला ममदीयतां ।एतत् रत्नं हि । पार्थिवः रत्नहारी च । हे द्विज तस्मात् धर्मतो एषा मम । तस्मात् शबलां देहि ।

"Oh Bhagavan ! Take hunderd thousand cows and give me Sabala. It s a gem. The king is the owner of all gems. O Brahman ! Hence by right it belongs to the King. Hence give Sabala to me".

एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः ॥
विश्वामित्रेण धर्मात्माप्रत्युवाच महीपतीम् ।
नाहं शतसहस्रेण नापि कोटिशतैर्गवाम् ॥
राजन् दास्यामि शबलां राशिभि रजतस्य वा ।
न परित्यागमर्हेयं मत्सका शादरिंदम ॥

स॥ विश्वामित्रेण एवं उक्तः मुनिसत्तमः धर्मात्मा भगवान् वशिष्ठः विश्वामित्रेण एवं उक्तः महीपतिं प्रत्युवाच । हे राजन् ! न शतसहस्रेण वा न कोटि शतैः गवां वा रजत्स्य राशिभि शबलां दास्यामि । हे अरिंदम ! मत्सकासात् अयं परित्यागं न अर्हः ।

'Having been told by Viswamitra thus, the best of sages and the righteous Vasishta spoke as follows. "Oh King even with hundred thousand or hundred lakh cows or even mountains of silver I will not part with Sabala. O King! it can not be separated from me."

शाश्वती शबला मह्यं कीर्तिरात्मनतो यथा ।
अस्यां हव्यंच कव्यंच प्राणयात्र तथैव च ॥

स॥ यथा आत्मनतो कीर्तिः मह्यं शबला शाश्वती । अस्यां हव्यं च कव्यं च तथैव प्राण यात्रा च॥

"Like the honor for honourable men, Sabala cannot be separated from me . That is the offering for gods, offering for the ancestors, it is also the life line".

आयत्त मग्निहोत्रं च बलिर्होम स्तथैव च ।
स्वाहाकारा वषट्कारौ विद्याश्च विविथास्तदा ॥

स॥ अयं अग्निहोत्रं च बलिः होमः च तथैव स्वाहाकारा वषट्कारा तद विविधाः विद्याश्च ॥

"It is support for Homa as well as the the sacrificial fire . It is support for the entire body of rituals from Svahakara , Vashatkara and varirty of other teachings".

आयत्त मत्र राजर्षे सर्वमेतन्नसंशयः ।
सर्वस्व मेतत् सत्येन ममतुष्टिकरी सदा ॥
कारणैर्बहुभी राजन् न दास्ये शबलां तव ।

स॥ राजर्षे अत्र न संशयः ऎतत् सर्वं । सत्येन एतत् मम सर्वस्वं सदा तुष्टिकरी ॥हे राजन् ! बहुभिः कारणैः तव शबलां न दास्ये ॥

"Oh Rajarshi! There is no doubt. It is everything. Truth is it is everything and the cause of bliss. O Rajan! There are many reasons. I will not give Sabala to you".

वसिष्ठेनैव मुक्तस्तु विश्वामित्रो अब्रवीत् ततः॥
संरब्दतरमत्यर्थं वाक्यं वाक्य विशारदः॥

स॥ एवं वसिष्ठेन उक्तस्तु ततः वाक्य विशारदः विश्वामित्रः संरब्दतरं अत्यर्थं वाक्यं अब्रवीत् ।

'Having been told thus by Vasishta , the expert in using language Viswamitra visibly agitated spoke the following words'.

हैरण्यकक्ष्या ग्रैवेयान् सुवर्णांकुश भूषितान् ।
ददामि कुंजरां स्तेs हं सहस्राणि चतुर्दश ॥
हैरण्यानाम् रथानां ते श्वेताश्वानां चतुर्युजाम्।
ददामि ते शतान्यष्टौ किंकिणीक विभूषितान् ॥
हयानां देशजातानां कुलजानां महौजसाम् ।
सहस्रमेकं दश च ददामि तव सुव्रत ॥
नानावर्णविभक्तानां वयः स्थानां स्तथैव च ।
दादाम्येकां गवां कोटीं शबला दीयता मम ॥

स॥ चतुर्दश सहस्राणि हैरण्यकक्ष्या ग्रैवेयान् सुवर्णांकुश भूषितान् कुंजरान् ते अहं दास्यामि |ते हैरण्यानां रथानां किंकिणीक विभूषितान् श्वेताश्वानां चतुर्युजाम् शतान्यष्टौ ददामि | हे सुव्रत! देशजातानां कुलजानां महौजसां हयानां दश सहस्रमेकम् तव ददामि ॥तथैव वयः नानावर्ण विभक्तानां स्थानां एकां कोटीं गवां ददामि !मम शबला दीयता ॥

"Oh Sage ! I will give you fourteen thousand elephants decorated with golden chains, jewelry and golden goads. I will give you eight hundred golden chariots decorated with jingle bells and drawn by four white horse. Oh best of sages ! I will give you eleven thousand powerful horses of best breed and from the best country. Like wise I will give you one crore cows of right age and of different varieties. Give me Sabala !"

यावदिच्छसि रत्नं वा हिरण्यं वा द्विजोत्तम ।
तवद्ददामि तत्सर्वं शबला दीयतां मम॥

स॥ हे द्विजोत्तमा ! रत्नं वा हिरण्यं वा यावत् इच्छसि तत् सर्वं तव ददामि । मम शबला दीयतां ॥

"Oh Best of brahmins ! I will give gems or gold to the extent you desire. Give me Sabala".

एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता ।
न दास्यामीति शबलां प्राह राजन् कथंचन ॥

स॥ धीमता विश्वामित्रेण एवं उक्तस्तु , "राजन् कथंचन शबलां न दास्यामि" इति प्राह ॥

'When that highly intelligent Viswamitra spoke thus , the reply was " Oh King under any circumstances I will not give Sabala".

एतदेवहि मे रत्नं एतदेवहि मे धनम् ।
एतदेवहि सर्वस्वम् एतदेवहि जीवितम् ॥।
दर्शश्च पूर्णमासश्च यज्ञैवाप्त दक्षिणाः ।
एतदेवहि मे राजन् विविधाश्च क्रियास्तथा ॥

स॥ हे राजन् ! एतत् एवहि मे रत्नं । एतत् एवहि मे धनम् । एतत् एवहि मे सर्वस्वं । एतत् एवहि मे जीवितम् । एतत् एव हि दर्शश्च पूर्णमासश्च यज्ञैवाप्त दक्षिणाः । तथा एतत् एवहि विविथा क्रियाश्च ॥

"Oh King this is my jewel. This is my wealth. This is my everything. This is my life. This is the source for my Darsa and Purnamaasa Yagas, and all the yagas that have an offering. This is my source for all my activities".

अदोमूलाः क्रियास्सर्वा ममराजन् न संशयः ।
बहूना किं प्रलापेन न दास्ये कामदोहिनीम् ॥

स॥ हे राजन् ! मम क्रियास्सर्वा अदो मूलाः न संशयः । किं प्रलापेन बहुना कामदोहिनीं न दास्ये ॥

"Oh Rajan ! Without any doubt this is the source for all my activities. No need for more words. I cannot give this desire fulfilling cow".

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे त्रिपंचाशस्सर्गः ॥

Thus ends Sarga fiftythree of Balakanda in Srimad Valmiki Ramayan.

॥ ओम् तत् सत्॥

|| om tat sat ||