Srimad Valmiki Ramayanam

Balakanda Sarga 55

Viswamitra obtains boons from Mahadeva !!

|| om tat sat ||

बालकांड
पंचपंचाशस्सर्गः

ततस्तान् अकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥

स॥ ततः विश्वामित्रास्त्र मोहितान् अकुलान् दृष्ट्वा वसिष्ठः "कामधुक् सृज योगतः" इति चोदयामास ॥

Seeing those confused and stunned by the astras of Viswamitra , Vasishta implored " Oh Kamadenu produce capable ones".

तस्या हूंभारवाज्जाताः कांभोजा रविसन्निभाः ।
ऊधसस्त्वथ संजाताः पप्लवाः शस्त्र पाणयः ॥
योनिदेशाच्च यवना शकृद्देशात् शकस्तथा ।
रोमकूपेषु च म्लेच्चा हारीतास्सकिरातकाः ॥

स॥ तस्य हूंभारावात् जाताः रविसन्निभाः कांभोजाः । ऊधसस्त्वथ शस्त्र पाणयः पप्लवाः संजाताः ॥यवना योनिदेशात् च । तथैव शकः शकृदेशात् । म्लेच्चा हरीत किरातकाः रोमकूपेषु ( संजाताः) ॥

Then from the"humkara" came out Kambhojas with the brilliance of Sun, from her udder came Paplavas carrying arms. Yavanas came out of her vagina , Sakas came out of her rectum, Mlecchas, Haritas and Kiratas came out of the pores of her skin.

तै स्तैः निषूदितं सर्वं विश्वामित्रस्य तत् क्षणात् ।
सपदातिगजं साश्वं स रथं रघुनंदन ॥

स्स॥हे रघुनंदन ! तैः स्तैः तत् क्षणात् विश्वामित्रस्य सर्वं सपदातिगजं साश्वं , स रथं निषूदितं ॥

Oh Raghunandana ! They instantly demolished Viswamitra's foot soldiers, elephants, horses and the chariots.

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
विश्वामित्रसुतानां च शतं नानाविधायुधम्।
अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम् ॥

स॥ महात्मना वसिष्ठेन निषूदितं सैन्यं दृष्ट्वा सुसंकृद्धं शतं विश्वामित्रसुतानां नानाविधायुथम् वसिष्ठं जपतां वरं अभ्यधावत् ॥

Seeing all the forces destroyed by the venerable Vasishta, the hundred sons of Viswamitra with variety of arms angrily rushed towards the venerable sage Vasishta.

हूंकारेण तान् सर्वान् ददाह भगवान् ऋषिः ।
ते साश्वरथपादाता वसिष्ठेन महात्मना ।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा ॥

स॥ भगवान् ऋषिः हुंकारेण तान् सर्वान् ददाह । तदा ते विश्वमित्रसुता स अश्व रथ पादाता मुहूर्तेन वसिष्ठेन भस्मीकृता ॥

Venerable sage destroyed them with his "humkara". The sons of Viswamitra along with horses chariots and foot soldiers got decimated in a moment by sage Vasishta.

दृष्ट्वा विनाशितान् पुत्त्रान् बलं च सुमहायशाः ।
सव्रीडश्चिंतयाविष्टो विश्वामित्रो अभवत् तदा ॥
समुद्र इव निर्वेगो भग्न दंष्ट्र इवोरगः ।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥
हतपुत्र बलो दीनो लूनपक्ष इव द्विजः।
हतदर्पो हतोत्साहो निर्वेदं समुपद्यत ॥

स॥ विनाशितान् पुत्त्रान् बलं च दृष्ट्वा तदा सु महायशः विश्वामित्रः स व्रीडः चिंतयाविष्ठो अभवत् । सः समुद्र इव निर्वेगो (अभवत्) । भग्न दंष्ट्र उरगः इव ( अभवत्) । उपरक्त आदित्यः इव निष्प्तभतां गतः सद्य (इव) अभवत् । हतपुत्र बलः लूनपक्ष इव दीनः । हत दर्पः। हत उत्साहः। निर्वेदं समुपद्यत॥

Seeing his forces and sons destroyed, famed Viswamitra felt ashamed and sad. He was like a ocean with spent fury, like a snake with its venomos teeth removed. He was like the pale and dull Sun under eclipse. With both forces and sons killed he was like a bird with clipped wings. With ego destroyed, the spirits subdued he was overcome by extreme pity.

स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
पृथिवीं क्षत्र धर्मेण वनमेवान्वपद्यत ॥
स गत्वा हिमत्पार्श्वं किन्नरोरगसेवितम् ।
महादेव प्रसादार्थं तपस्तेपे महतपाः ॥

स॥ सः एकं पुत्रं पृथिवीं क्षत्र धर्मेण राज्याय पालयेति नियुज्य वनमेव अन्वपद्यत् ।सः किन्नरोरुग सेवितं हिमवत् पार्श्वं गत्वा महदेव प्रसादार्थं तपः तेपे ॥

He made one of his sons rule over the kingdom as is expected of a Kshatriya and then went forests. He went to that part of Himalayas inhabited by Kinnaras and Nagas and prayed for the favor of Mahadeva.

केनचित्वथ कालेन देवेशो वृषभध्वजः ।
दर्शयामास वरदो विश्वामित्रं महाबलम्॥
किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्।
वरदोSस्मि वरो यस्ते कांक्षितस्सोS भिदीयताम् ॥

स॥ अथ केनचित् कालेन वरदः वृषभध्वजः विश्वामित्रं महाबलं दर्शयामास॥ हे राजन् ! वरदो अस्मि । ब्रूहि किमर्थम् तप्स्यसे ! यः सः कांक्षितः स अभिदीयतां ।ते यः वरः ।

After some time Mahadeva who is also called Varada with a bull on his pennant appeared. He said " O Rajan ! I am pleased. Tell me why are you doing the penance. Tell me what you want. I will give what you want."

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
प्रणिपत्य महादेवं इदं वचन मब्रवीत् ॥
यदि तुष्टो महादेव धनुर्वेदो ममानघ ।
सांगोपांगोपनिषदः स रहस्यः प्रदीयताम् ॥

स॥ देवेन एवं उक्तस्तु महातपाः विश्वामित्रः महादेवं प्रणिपत्य इदं वचनम् अब्रवीत् ॥हे महदेव सांगोपांगो धनुर्वेदः स रहस्यः उपनिषदः हे अनघ मम प्रदीयतां ।

Having been told thus by Mahadeva, he paid obeisance to him and spoke as follows."Oh Mahadeva if you are pleased ! please grant me the Dhanurveda in full as well as the secrets of Upanishads"

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
गंधर्व यक्ष रक्षस्सु प्रतिभांतु ममानsघ॥
तवप्रसादाद्भवतु देवदेव ममेप्सितम्।
एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा॥

स॥ देवेषु दानवेषु महर्षिसु गंधर्व यानि शस्त्रानि प्रतिभांतु हे अनघ मम ( प्रदीयताम् )॥हे देव देव तव प्रसादात् ममेप्सितं भवतु . तदा एवं अस्तु इति देवेशो वाक्यमुक्त्वा गतः ॥

" Oh Great one ! All the powerful weapons of Devas, Danavas , Maharshis,and Gandharvas be provided to me. Oh Gods of Gods with this all my wishes will be fulfilled". Then Mahadeva said " It will be so" and went away.

प्राप्यचास्त्राणि राजर्षिः विश्वामित्रो महाबलः।
दर्पेण महता युक्तो दर्पपूर्णो अभवत् तदा॥
विवर्धमाणो वीर्येण समुद्र इव पर्वणि ।
हतमेव तदा मेने वसिष्ठं ऋषिसत्तमम्॥

स॥ राजर्षिः महाबलः विश्वामित्रः दर्पेण महता युक्तो ( तत्) अस्त्राणि प्राप्य तदा दर्पपूर्णं अभवत् ॥विवर्थमाणो वीर्येण समुद्र इव पर्वणि तदा वसिष्ठं ऋषिसत्तमं हतमेव (इति) मेने ॥

The mighty and strong King who is always proud became even more full of arrogance having obtained all astras. Then like the ocean in full tide with his increased prowess he thought that the venerable sage Vasishta as good as dead.

ततो गत्वा आश्रमपदं मुमोचास्त्राणि पार्थिवः।
यैस्तत् तपोवनं सर्वं निर्दग्धं चास्त्र तेजसा ॥
उदीर्यमाणमस्त्रं तत् विश्वामित्रस्य धीमतः।
दृष्ट्वा विप्रद्रुतास्सर्वे मुनय श्शतशोदिशः ॥
वसिष्ठस्य च ये शिष्याः तथैव मृग पक्षिणः।
विद्रवंती भयाद्भीता नानादिग्भ्यः सहस्रशः ॥

स॥ ततः स पार्थिवः आश्रमपदं गत्वा अस्त्राणि मुमोच । तत् अस्त्र तेजसा यैः तत् तपोवनम् सर्वं निर्दग्दं ।तत् धीमतः विश्वामित्रस्य उदीर्यमानं अस्त्रम् दृष्ट्वा सर्वे विप्रद्रुता शतशोदिशः ।वशिष्ठस्य शिष्याः तथैव सहस्रशः मृग पक्षिणः भयाद्भीता नानादिग्भ्यः विद्रवन्ती ॥

Then the king went to that hermitage and released all his weapons. The fire of the fierce weapons burnt that hermitage . Seeing those fierce weapons of Viswamitra creating a havoc hundreds of hermits ran in all directions. The disciples of Vasishta as well as the thousands of scared birds and animals of the hermitage moved in all directions.

वसीष्ठाश्रमपदं शून्यमासीन्महात्मनः ।
मुहूर्तमिव निश्शब्दं आशीदिरिण सन्निभम्॥

स॥ महात्मनः वसिष्ठाश्रमपदं शून्यं आसीत्. मुहूर्तमिव अशीदिरिण सन्निभं निश्शब्दं आसीत्॥

The hermitage of venerable Vasishta became empty and bore the silence of a cremation ground for a moment.

वदतो वै वसिष्ठस्य माभैरिति मुहुर्मुहुः।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥

स॥ माभैरिति मुहुर्मुहुः वसिष्ठस्य वदतो अद्य गाधेयं भास्करः नीवारमिव अद्य नाशयामि ॥

Saying " donot be afraid " " donot be afraid" venerable Vasishta spoke as follows."This day I will destroy the son of Gadhi like the sun destoys the fog!

एवमुक्त्वा महातेजा वसिष्ठो जपताम् वरः ।
विश्वामित्रं तदा वाक्यं सरोषं इदमब्रवीत् ॥
आश्रमं चिर संवृद्धं यद्विनाशितवानपि ।
दुराचारोsसि तन्मूढ तस्मात् त्वं न भविष्यसि ॥

स॥ एवं उक्त्वा महातेजा जपताम् वरः वसिष्ठः तदा विश्वामित्रं सरोषं इदं वाक्यं अब्रवीत् ।चिर संवृद्धं आश्रमम् यद्विनासितवानपि दुराचारोसि ! तस्मात् तन् मूढ त्वं न भविष्यसि ॥

Having said this that repository of penence Vasishta spoke with anger to Viswamitra. "O Fool ! destroying this hermitage which was nurtured over a long time you have committed a crime. So foolish one you will no longer be there !"

इत्युक्त्वा परमकृद्धो दंडमुद्यम्य सत्वरः ।
विधूममिव कालाग्निं यमदंड मिवापरम्॥

स॥ इत्युक्त्वा परमकृद्धः विधूमं कालाग्नीं इव अपरं यमदंड मिव दंडं सत्वरः उद्यम्य ॥

Having said this he was like the fire of time without smoke. Then he took his staff which was like the staff of Yama.

|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे पंचपंचाशस्सर्गः ||

|| Thus ends the fifty fifth Sarga of Balakanda in Valmiki Ramayana ||

|| om tat sat||

 

|| om tat sat ||