Srimad Valmiki Ramayanam
Balakanda Sarga 58
Story of Trisanku !!
|| om tat sat ||
बालकांड
अष्टपंचाशस्सर्गः
त्रिशंकुनि कथ
ततः त्रिशंकोर्वचनं श्रुत्वा क्रोथ समन्वितम् ।
ऋषिपुत्र शतं राम राजानं इदं अब्रवीत् ॥
स॥ हे राम ! ततः शतं ऋषिपुत्त्रः त्रिशंकोः वचनं श्रुत्वा क्रोथ समन्वितं राजानं इदं अब्रवीत् ।
'Oh Rama then the hundred sons of the venerable sage who were angry upon hearing the words of Trisanku spoke as follows.
प्रत्याख्यातोहि दुर्बुद्धे गुरुणा सत्यवादिना ।
कथं समतिक्रम्य शाखांतरमुपेयवान् ॥
इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमो गुरुः ।
न च अतिक्रमितुं शक्यं वचनं सत्य वादिनः ॥
स॥ हे दुर्बुद्धे !सत्यवादिना गुरुणा प्रत्याख्यातो हि कथं तं समतिक्रम्य शाखांतरम् उपेयवान् ।सर्वेषां इक्ष्वाकूणां सत्यवादिनः पुरोधाः परमो गुरुः । तं सत्यवादिनः अतिक्रमितुं न शक्यं च ॥
"Oh Foolish man! rejected by the master who always speaks truth, how did you expect us to ignore his line and help you. The high priest is the ultimate teacher of all Ikshwakus. It is impossible to disregard the words of one who always speaks truth ."
अशक्यमिति च उवाच वसिष्ठः भगवान् ऋषिः ।
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव ॥
स॥ भगवान् ऋषिः वसिष्ठः तं अशक्यमिति उवाच । तव क्रतुं समाहर्तुं कथं वै वयं शक्ताः ॥
"The venerable Sage Vasishta has told that your wish cannot be secured. How will we have the ability to perform that sacrifice".
बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः ।
याजने भगवान् शक्तः त्रैलोक्यस्यापि पार्थिव ।
अवमानं च तत्कर्तुं तस्य शक्ष्यामहे कथम्॥
स॥ हे नरश्रेष्ठ ! त्वं बालिशः । स्वपुरः पुनः गम्यताम् । हे पार्थिव भगवान् याजने त्रैलोकस्यापि शक्तः । तत्कर्तुं तस्य अवमानंच शक्ष्यामहे कथम् ।
"Oh Best of men! You are a fool. Go back to your city. That sage is capable of having sacrifice performed by anybody in the three worlds. Performing that sacrifice is after he declined is like insulting him. How can we do such a thing !"
तेषां तद्वचनं श्रुत्वा क्रोथ पर्याकुलाक्षरम्।
स राजा पुनरेवैतान् इदं वचनमब्रवीत् ॥
प्रत्याख्यातोस्मि गुरुणा गुरुपुत्रैः तथैव च ।
अन्यां गतिं गमिष्यामि स्वस्ति वो अस्तु तपोधनाः ||
ऋषिपुत्त्रास्तु तत् श्रुत्वा वाक्यं घोराभिसंहितम् ।
शेपुः परमसंक्रुद्धाः चंडालत्वं गमिष्यसि ।
एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम् ॥
स॥ क्रोथ पर्याकुलाक्षरं तेषाम् तद्वचनं श्रुत्वा स राजा पुनः एतान् वचनं अब्रवीत् ॥ हे तपोधनाः ! प्रत्याख्यातोस्मि गुरुणा तथैव गुरुपुत्रैः च । अन्यां गतिं गमिष्यामि । स्वस्ति वो अस्तु॥तत्र घोराभि संहितं तत् वाक्यं श्रुत्वा ऋषिपुत्त्राः तु परम संक्रुद्धाः चंडालत्वं गमिष्यसि इति शेपुः । महात्मानो एवं उक्त्वा स्वं आश्रमं विविशिस्ते ।
'Hearing those angry words from them the king again spoke as follows. "Oh Sages with wealth of penance ! I have been rejected by the master and his sons too. Then I will go in search of others. May you be blessed". Hearing those words of disregard and defiance the sons of the sage Vasishta were enraged and cursed him saying that he will become a chandala. Saying so they went back to their hermitage'.
अथ रात्र्यां व्यतीतायां राजा चंडालतां गतः ।
नीलवस्त्र धरो नीलः परुषो ध्वस्तमूर्थजः ॥
चित्यमाल्यानु लेपश्च आयसाभरणो अभवत् ॥
तं दृष्ट्वा मंत्रिणस्सर्वे त्यज चंडालरूपिणम् ।
प्राद्रवन् सहिता राम पौरा येsस्यानुगामिनः॥
स॥ अथ रात्र्यां व्यतीतायां राजा हंडालतां गतः । नीलवस्त्रधरं नीलः अभवत् । परुषो ध्वस्त मूर्थजः चित्यमाल्यानु लेपश्च अयसाभरनो अभवत् ||हे राम ! तं चंडालरूपिणम् दृष्ट्वा मंत्रिणः सर्वे प्रा द्रवन् " पौराः अस्य अनुगामिनः ।
'Then as the night passed the king became a chandala. He became black wearing black clothes. His skin became rough. He had small hair. He was wearing a necklace made of bones with ash spread over his body. His jewels became one made out of iron. Oh Rama ! Seeing him in that form of a chandala , all his ministers ran away followed by citizens behind.
एकोहि राजा काकुत्स्थ जगाम परमात्मवान् ।
दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम् ॥
स॥ हे काकुत्स्थ ! राजा एको हि दह्यमानः दिवारात्रं जगाम परमात्मवान् विश्वामित्रं तपोधनम् ॥
Oh Kakutstha! The lonely self indulgent king though seething with sorrow day and night approached sage Viswamitra who has a wealth of penance.
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम् ।
चंडालरूपिणं राम मुनिः कारुण्यमागतः ॥
कारुण्यात् स महातेजा वाक्यं परमधार्मिकः ।
इदं जगाद भद्रं ते राजानं घोर रूपिणम् ॥
स॥ विश्वामित्रः तु तं विफलीकृतं चंडालरूपिणं राजानं दृष्ट्वा मुनिः कारुण्यमागतः ॥कारुण्यात् सः परमधार्मिकः महातेजा घोररूपिणं राजानं इदं जगाद भद्रं ते ।|
Seeing that failed king in a chandala form the sage Viswamitra had surge of compassion. With compassion the highly radiant Viswamitra ,the follower of right path addressed the king of terrible form.
किमागमन कार्यं ते राजपुत्त्र महाबल ।
अयोध्याधिपते वीर शापात् चंडालतां गतः ॥
अथ तद्वाक्य माज्ञाय राजा चंडालतां गतः ।
अब्रवीत् प्रांजलिर्वाक्यं वाक्यज्ञो वाक्य कोविदम् ॥
स॥ हे महाबल ! आगमन कार्यं किं । हे राजपुत्त्र !हे अयोध्याधिपते हे वीर शापात् ते चंडालतां गतः ॥ अथ तत् वाक्यं आज्ञाय चंडालतां गतः (स) राजा प्रांजलिः वाक्यज्ञो वाक्य कोविदम् (इदं) अब्रवीत् ।
" Oh Strong one ! What for you have come ? Oh king of Ayodhya ! Oh Great warrior ! you have become a chandala because of a curse !"Hearing those words of the one who knows the use of words, folding his hands the eloquent King then told the reasons for his becoming a chandala to the sage.
प्रत्याख्यातोस्मि गुरुणा गुरुपुत्त्रैः तथैव च।
अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः ॥
सशरीरो दिवं याया म् इति मे सौम्य दर्शनम् ।
मया चेष्ठं क्रतुशतं तत् च न अवाप्यते फलम्॥
स॥ गुरुणा तथैव गुरुपुत्त्रैः पत्याख्यातः अस्मि । तं वाक्यं अनवाप्यएव मया विपर्ययः प्राप्तः ॥ हे सौम्य सशरीरो दिवं यायाम् इति मया चेष्ठं शतं क्रतुं तत् च फलं न अवाप्यते ॥
" I have been rejected by the teacher as well as his children. I did not obtain my wish instead the opposite happened. Oh Kind one ! I performed hundreds of sacrifices to go to heaven along with my body. But I could not get the result".
अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदाचन ।
कृछ्छेष्वपि गत स्सौम्य क्षत्र धर्मेण ते शपे ॥
यज्ञैः बहुविधैरिष्टं प्रजा धर्मेण पालिताः ।
गुरवश्च महात्मानः शीलवृत्तेन तोषिताः ॥
स॥ हे सौम्य ! क्षत्र धर्मेण ते शपे । मे पूर्वं अनृतं कृच्चेष्वपि न उक्तं । न वक्ष्ये कदाचन । बहुविधैः यज्ञैः इष्टं । धर्मेण प्रजा पालिताः । माहात्मना गुरवः च शीलवृत्तेन तोशिताः ॥
"Oh Kind one ! Swearing on my warrior code I say this. I have never told a lie in the most difficult condition. I will never tell in future also. I have performed many sacrifices. I ruled the kingdom following the rightful path. My Gurus were happy with my conduct".
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः ।
परितोषं न गच्चंति गुरवो मुनिपुंगवः ॥
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्।
दैवेनाक्रम्यते सर्वं दैवं हि परमागतिः ॥
स॥ धर्मे प्रयतमानस्य ( अहं) यज्ञं आहर्तुं इछ्छतः च। मुनिपुंगवः गुरवः परितोषं न गच्चंति । दैवं एव परं मन्ये । पौरुषं निरर्थकम् तु । दैवेनाक्रम्यते सर्वं। दैवं हि परमागतिः ॥
"I want to perform the sacrifice following the path of dharma. That best of sages and my teacher did not agree with my wish. Now there is no way other than god. The power of a man is useless. Destiny is supreme. Destiny is the final dispenser of justice."
.
तस्यमे परमार्तस्य प्रसादं अभिकांक्षितः ।
कर्तुमर्हसि भद्रं ते दैवोपहत कर्मणः ॥
स॥ मे परमआर्तस्य दैवोपहत कर्मणः अभिकांक्षितः तस्य कर्तुं अर्हसि । भद्रं ते ।
"I am very much pained. You can perform the rites to make destiny favorable. May you be blessed."
नान्यां गतिं गमिष्यामि नान्यश्शरणमस्ति मे।
दैवं पुरुषकारेण निवर्तयितुमर्हसि ॥
स॥ न अन्यं गतिं गमिष्यामि । न अन्यः शरणम् अस्ति । पुरुषकारेण दैवं निवर्तयितुमर्हसि ॥
"I have no other go. I am also not asking protection from anybody else. Only you can make the destiny favorable" .
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे अष्टपंचाशस्सर्गः ॥
Thus ends the fifty eight Sarga of Balakanda in Valmiki Ramayan
॥ओम् तत् सत् ||
|| om tat sat ||