Srimad Valmiki Ramayanam

Balakanda Sarga 61

Story of Sunahsepha- 1 !!

|| om tat sat ||

बालकांड
एकोनषष्ठितस्सर्गः

विश्वामित्रोमहात्माsथ प्रस्थितान् प्रेक्ष्य तान् ऋषीन् ।
अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः ॥

स॥ हे नरशार्दूल ! अथ महात्मा विश्वामित्रः तान् प्रस्ठितान् ऋषीन् प्रेक्ष्य तां सर्वान् वनवासिनः अब्रवीत् ।

'Oh Rama ! Then the great soul Viswamitra addressed the Rishis about to leave and all the forest dwellers'.

महान् विघ्नः प्रवृत्तोsयं दक्षिणामास्थितो दिशम् ।
दिशमन्यांप्रपत्स्यामः तत्र तप्स्यामहे तपः ॥

स॥ अयं दक्षिण दिशम् मास्थितः महान् विघ्नः प्रवृत्तः । अन्यां दिशम् प्रपत्स्यामः । तत्र तपः तप्स्यामहे ( वयं)॥

"Being in this Southern direction there have been great impediments. Let us move in another direction. We will do our penance there".

पश्चिमायां विशालायां पुष्करेषु महात्मनः।
सुखम् तपश्चरिष्यामः वरं तद्धि तपोवनम् ॥

स॥ विशालायां पश्चिमायां पुष्करेषु महात्मनः ( सन्ति) । तत्र सुखं तपः चरिष्यामः। तद्धि तपोवनम् वरं (अस्ति)।

"Great souls are in the spacious Pushkaras in the westerly direction. We will do our penance there in peace. The penance groves there are the best".

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥

स॥ महातेजाः महामुनिः एवं उक्त्वा पुष्करेषु मूल फलाशनः उग्रं दुरादर्षं तपः तेपे ॥

’'Having said so the supremely radiant venerable sage living only on fruits and roots, went on doing intense penance which is not possible for any others in those Pushkaras'.

एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः ।
अंबरीष इति ख्यातो यष्ठुं समुपचक्रमे ॥

स॥ एतस्मिन्नेव काले अयोध्याधिपति अंबरीष इति ख्यातो नृपः यष्टुं समुपचक्रमे ॥

At the same time there was a king of Ayodhya by name Ambarisha who started a sacrifice.

तस्यवै यजमानस्य पशुमिंद्रो जहार ह ।
प्रणष्टे तु पशौ विप्रो राजानम् इदमब्रवीत् ॥

स॥ यजमानस्य तस्य पशुं इंद्रो जहार ह । पशौ प्रणष्टे तु विप्राः राजानम् इदं अब्रवीत् ॥

'The sacrificial animal of the sacrifice was stolen by Indra . When the animal was thus stolen the priests told the following to the king'.

पशुरद्य हृतो राजन् प्रणष्टस्तव दुर्नयात् ।
अरक्षितारं राजानं घ्नंति दोषा नरेश्वर ॥

स॥ हे राजन् ! तव दुर्नयात् अद्य पशुः हृतो प्रणष्टः । हे नरेश्वरा ! अरक्षितारं राजानं दोषा घ्नंति ॥

"Oh Rajan ! Because of your poor leadership the animal was trapped and lost today. O King the lapse of being unable to protect can be fatal to the king".

प्रायश्चित्तं महद्ध्येतत् नरं वा पुरुषर्षभ ।
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥

स॥ हे पुरुषर्षभ ! एतत् महत् प्रायश्चित्तं शीघ्रं अनयश्व पशुं वा नर यावत् कर्म प्रवर्तते ॥

"O King ! For the expiation of the great sin quickly get the animal or a man while the sacrifice is going on. "
उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ ।
अन्वियेष महाबुद्धिः पशुं गोभिः सहश्रसः ॥
देशान् जनपदां स्तां स्तान् नगराणि वनानि च ।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥

स॥ उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ पशुं गोभिः सहस्रशः महाबुद्धिः अन्वियेष ॥ मार्गमाणो महीपतिः देशान् जनपदां नगराणि वनानि पुण्यानि आश्रमानिच ॥

'Having heard the Purohits words that king, a bull among men, went in search of a right animal in exchange for thousands of cows. The king went to various lands , cities, forest groves,auspicious Ashramas in his search'.

स पुत्त्र सहितं तात सभार्यं रघुनंदन ।
भृगुतुंगे समासीनम् ऋचीकं संददर्शह ॥

स॥ हे तात !हे रघुनंदन ! भृगुतुंगे स भार्यं स पुत्त्र सहितं समासीनं ऋचीकं सं ददर्श ह ॥

'O Dear one ! O Raghunandana ! on the mountain side of Brigutunga, the king saw Sage Ruchika seated along with his wife and children'.

तमुवाच महातेजाः प्रणम्याभि प्रसाद्यच ।
ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमित प्रभः ॥

स॥ प्रणम्य अभि प्रसाद्य च ब्रह्मर्षिं तपसा दीप्तं महातेजाः अमित प्रभः राजर्षिः तं उवाच ॥

'Having paid obeisance and obtaining his grace, the king spoke to the venerable sage who is a Brahmarshi glowing with the power of penance'.

पृष्ट्वासर्वत्र कुशलं ऋचीकं तं इदं वचः ।
गवां शतसहस्रेण विक्रीनीषे सुतं यदि ॥
पशोरर्थे महाभाग कृतकृत्योsस्मि भार्गव ।

स॥ सर्वत्र कुशलं पृष्ट्वा तं ऋचीकं इदं वचः (वदति) हे भार्गव पशोः अर्थे यदि सुतं विक्रीषे कृत कृत्योस्मि ।

'Having enquired about welfare all-around he spoke to sage Ruchika as follows. "Oh Bhargava ! If you can sell your son in exchange for the sacrificial animal I will deem myself to be successful".

सर्वे परिसृता देशा याज्ञीयं न लभे पशुम्॥
दातुमर्हसि मूल्येन सुतमेकमितो मम ॥

स॥ याज्ञीयं सर्वे देशा परिसृता । न लभे पशुं। मूल्येन सुतं एकं दातुं अर्हसि |

" I was searching for the sacrificial animal in all lands. But I cannot find the animal. Give me your son for the right amount"

एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः ।
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन ॥

स॥ महातेजा एवं उक्तो ऋचीकः इदं वचः अब्रवीत् । नरश्रेष्ठ अहं ज्येष्ठं कथंचन न विक्रिणीयां ।

'When the highly radiant one spoke as above , venerable sage Ruchika replied as follows. "I cannot give my eldest son under any circumstances".

ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ।
उवाच नरशार्दूलम् अंबरीषं तपस्विनी ॥

स॥ ऋचीकस्य वचः श्रुत्वा तेषां महात्मनाम् तपश्विनी माता नरशार्दूलं अंबरीषं उवाच ।

'Hearing the words of the great soul , the mother of those sons spoke to Ambarisha, the tiger among men'.
अविक्रेयं सुतं ज्येष्ठम् भगवानाह भार्गव ।
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप ।
तस्मात् कनीयसं पुत्त्रं न दास्ये तव पार्थिव ॥

स॥ भगवान् भार्गव ज्येष्ष्ठं सुतं न विक्रेयं (इति) आह ।हे पार्थिव ! ममापि कनिष्ठं शुनकं दयितं विद्धि ।तस्मात् कनीयसं पुत्त्रं तव न दास्ये ।

" Bhagavan Bhargava said he cannot sell the eldest son. Oh King! For me my youngest son Sunaka is dear . So I cannot part with him".

प्रायेण हि नरश्रेष्ठ ज्येष्टाः पितृषु वल्लभाः ।
मातॄणांतु कनीयांसः तस्माद्रक्षे कनीयसम् ||

स॥ हे नरस्रेष्ठ ! प्रायेण ज्येष्ठाः पितृषु वल्लभाः । मातॄणां कनीयांसः । तस्मात् रक्षे कनीयसम् ।

"Oh King ! In general the eldest is dear to a father and the youngest is dear to the mother . Hence I will protect the youngest".

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च ।
शुनश्शेफः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥

स॥ हे राम ! मुनौ तथैव च मुनिपत्न्यां उक्त वाक्ये मध्यमः शुनश्शेफः वाक्यं अब्रवीत् ॥

'Oh Rama hearing those words of the sage as well as the sages wife, Sunahsepha the middle one spoke as follows'.

पिता ज्येष्ठं अविक्रेयं माता चाह कनीयसम् ।
विक्रीतं मध्यमं मन्ये राजन् पुत्त्रं नयस्वमाम् ॥

स॥ हे राजन् ! पिता ज्येष्टं अविक्रेयं माता च कनीयसं आह । मध्यमं पुत्त्रं विक्रीतं मन्ये ॥ राजन् नयस्व माम्

"Oh King! Father will not part with the eldest. The mother said she will not part with the youngest. I conclude that the middle one is sold. O King ! So you may take me."

गवाम् शतशस्रेण श्शुनशेफं नरेश्वरः ।
गृहीत्वा परमप्रीतो जगाम रघुनंदन ।

स॥ हे रघुनंदन ! गवां शतसहस्रेण शुनशेफम् गृहीत्वा परम प्रीतो नरेश्वरः जगाम ।

'Oh Raghunandana ! Giving hundred thousand cows the king took Sunahsepha and went happily'.

अंबरीषस्तु राजर्षी रथमारोप्य सत्वरः ।
शुनश्शेफं महातेजा जगामाशु महायशाः ॥

स॥ राजर्षी महातेजा महायशाः अंबरीषस्तु शुनश्शेफं रथम् आरोप्य अशु जगाम ॥
.
'Ambarisha who is highly radiant and also a Rajarshi took Sunahsepha on his chariot and went to his city'.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये बालाकांडे एकषष्ठितमस्सर्गः ॥

Thus the sixty first chapter of Balakanda in Ramayana comes to an end.

|| ओम् तत् सत् ||


|| Om tat sat ||