Srimad Valmiki Ramayanam

Balakanda Sarga 62

Story of Sunahsepha- 2 !!

|| om tat sat ||

बाल कांड
द्विषष्टितस्सर्गः.

शुनश्शेफं नरश्रेष्ठ गृहीत्वा तु महायशाः ।
व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनंदन ॥

स॥ हे नरश्रेष्ठ ! रघुनंदन ! महायशाः राजा शुनश्शेफम् गृहीत्वा मध्याह्ने पुष्करे व्यश्राम्यत् ॥

'Oh Raghunandana ! Oh the best men ! That king with great fame taking Sunassepha with him halted at Pushkara around noon time'.

तस्य विश्रममाणस्य शुनश्शेफो महायशाः ।
पुष्करक्षेत्र मागम्य विश्वामित्रं ददर्श ह ॥
तप्यंतम् ऋषिभिस्सार्थं मातुलं परमातुरः ॥

स॥ तस्य विश्रममाणस्य शुनश्शेफो पुष्कर क्षेत्रं आगम्य ऋषिभिस्सार्थं तप्यंतं मातुलं परमातुरः महायशाः विश्वामित्रं ददर्श ह ॥

'While that king was resting, Sunassepha saw his uncle Viswamitra of great fame doing penance along with other Rishis in Pushkar'.

विवर्णवदनो दीनः तृष्णया च श्रमेण च॥
पपातांके मुनेआशु वाक्यं चेद मुवाच ह ॥

स॥ विवर्णवदनो दीनः तृष्णया च श्रमेण च मुने अंके पपात । इदं आशु वाक्यं च उवाच ॥

'Tired, restless and thirsty he fell into the lap of that sage and spoke to him as follows'.

न मे अस्ति माता न पिता ज्ञातयो बांधवाः कुतः॥
त्रातु मर्हसि मां सौम्य धर्मेण मुनि पुंगव।
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ॥

स॥ मे माता न अस्ति न पिता ज्ञातयो बांधवाः कुतः ॥ हे सौम्य ! मुनिपुंगव धर्मेण त्रातु मर्हसि । हे मुनिश्रेष्ठ ! सर्वेषां त्राता त्वं हि । त्वं हि भावनः ॥

"I have no mother or father and even relatives or known people anywhere. Oh Kind one ! Best of Seers ! Rightfully you can save me. Oh best of Seers ! You are the saviour for all. You protect all".

राजा च कृतकार्यः स्यात् अहं दीर्घायुरव्ययः।
स्वर्गलोक मुपाश्नीयां तपस्तप्त्वाह्यनुत्तमम् ॥

स॥ राजा च कृत कार्यः स्यात् । अहं अव्ययः दीर्घायुः । उत्तमम् तपः तप्त्वा सवर्ग लोक् मुपाश्नीयां ।

"Let the kings work be done. I want long life. I should perform best of penance and attain heaven".

त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।
पितेव पुत्त्रं धर्मात्मन् त्रातुमर्हसि किल्बिषात् ॥

स॥ भव्येन चेतसा अनाधस्य मे त्वं हि नाथो भव । धर्मात्मन् किल्बिषात् पितेव पुत्त्रं त्रातु मर्हसि ॥

"With great heart , only you can save me who has no protection. Oh ! Great one ! you can save me from this calamity like a father saves his children."

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।
सांत्वयित्वा बहुविथं पुत्त्रान् इदं उवाच ह ॥

स॥ विश्वामित्रः महातपाः तस्य तत् वचनं श्रुत्वा बहुविथं सांत्वयित्वा पुत्त्रान् इदं वचनम् उवाच ह ॥

The great Tapasvi, Viswamitra having heard his plea and consoling him spoke to his children.

यत्कृते पितरः पुत्त्रान् जनयंति शुभार्थिनः ।
परलोक हितार्थाय तस्य कालो अयं आगतः ॥

स॥ पितरः यत्कृते शुभार्थिनः परलोकहितार्थाय पुत्त्रान् जनयंति । तस्य कालः अयं आगतः ॥

"The parents bear children so that they are blessed with all good things in this world and in the other world too ! Now that time has come".

अयं मुनिसुतो बालो मत्तः शरणमिच्छति ।
अस्य जीवित मात्रेण प्रियं कुरुत पुत्त्रकाः ॥

स॥ अयं मुनिसुतो बालो मत्तः शरणं इच्छति । हे पुत्त्रकाः अस्य जीवित मात्रेण प्रिअयं कुरुत ।

"This ascetic boy is asking for my protection. Oh dear sons ! To protect his life I hope you can do the needful".

सर्वे सुकृत कर्माणः सर्वे धर्म परायणाः ।
पशुभूता नरेंद्रस्य तृप्ति मग्नेः प्रयछ्छत ॥

स॥ (ते) सर्वे सुकृत कर्माणः सर्वे धर्म परायणः । नरेंद्रस्य पशु भूता अग्नेः तृप्ति प्रयच्छत ।

"All of you have have done good deeds and followed the righteous path. Becoem the sacrificial animal of the King and satisfy the Lord of Fire".

नाथनांश्च शुनश्शेफो यज्ञश्चाविघ्नितो भवेत् ।
देवता स्तर्पिताश्च स्य्ः ममचापि कृतं वचः ॥

स॥ शुनश्शेफः नाथनां च देवताः तर्पिताः च यज्ञश्च अविघ्नितो भवेत् । ममापि स्युः कृतं वचः ॥

"Then Sunassepha will be saved. The Devas will be satisfied. The sacrfice will be completed without obstacles. You would have kept my word".

मुनेस्तु वचनं श्रुत्वा मधुष्यंदादयस्सुताः।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥

स॥ हे नरश्रेष्ठ ! मधुष्यंदादयः सुताः मुनेस्तु वचनं श्रुत्वा स अभिमानं स लीलं इदं अब्रुवन् ॥

'Oh Best of men ! Madhushyanda and other sons having heard the sages words were offended and spoke as follows rediculing the sage'.

कथमात्मसुतान् हित्वा त्रायसे अस्य सुतं विभो।
अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥

स॥ हे विभो कथं आत्म सुतान् हित्वा अस्य सुतं त्रायसे । भोजने श्वमांसं इव अकार्यम् इव पश्यामः ॥

"Oh Dear Lord ! sacrificing your own son to save somebody else's son is unworkable like having dogs meat in the meal !"

तेषां तद्वचनं श्रुत्वा पुत्त्राणां मुनिपुंगवः ।
क्रोध संरक्त नयनो व्याहर्तुमुपचक्रमे ॥

स॥ मुनिपुंगवः तेषाम् पुत्त्राणां तद्वचनं श्रुत्वा क्रोथ संरक्त नयनः व्याहर्तुं उपचक्रमे ॥

'Hearing those words of his sons the sage with eyes turned red with anger spoke as follows'.

निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥

स॥ मत् वाक्यं अतिक्रम्य इदं निस्साध्वसं प्रोक्तं दारुणम् रोमहर्षणम् धर्मात् अपि विगर्हितम् ।

"Disregarding my words and speaking with disrespect is horrible and hair raising. It is against the righteous path".

श्वमांसभोजिनस्सर्वे वाशिष्ठा इव जातिषु ।
पूर्णम् वर्ष सहस्रं तु पृथिव्यामनुवत्स्यथ ॥

स॥ (ते) सर्वे वाशिष्ठा इव जातिषु श्वमांस भोजिनः वर्ष सहस्रं पूर्णम् पृथिव्यां अनुवत्स्यथ ॥

"Like the sons of Vasistha, all of you will live thousand years eating the dogs meat living on the earth".

कृत्वा शाप समायुक्तान् पुत्त्रान् मुनिवरस्तथा ।
शुनश्शेफं उवाचार्तं कृत्वा रक्षां निरामयम् ॥

स॥ मुनिवरः पुत्त्रान् शाप समायुक्तान् कृत्वा आर्तं निरामयं शुनश्शेफं रक्षां कृत्वा उवाच ॥

'That best among sages having thus cursed his sons provided protection for the sorrowful Sunssepha. Then he spoke as follows'.

पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः ।
वैष्णवं यूप मासाद्य वाग्भिरग्निमुदाहर ॥

स॥ पवित्र पाशैः आशक्तो रक्तमाल्यानु लेपनः वैष्णवं यूपम् आसाद्य वाग्भिः अग्निं उदाहर ॥

"Being tied to the Yupa stambha with auspicious ropes and decorated with garlands of red flowers , you will praise the Lord of Fire with your words".

इमे तु गाधे द्वे दिव्ये गायेथ मुनिपुत्त्रक ।
अंबरीषस्य यज्ञे अस्मिन् ततस्सिद्धिमवाप्स्यसि ॥

स॥ हे मुनिपुत्त्रक ! अंबरीषस्य यज्ञे अस्मिन् द्वे दिव्ये गाथे गायेथ । ततः इमे सिद्धिं अवाप्स्यसि ॥

"Oh Son of a sage ! In the sacrifice of Ambarisha, you must sing these two divine songs. Then you will achive your goal".

शुनश्शेफो गृहीत्वा ते द्वे गाधे सुसमाहितः ।
त्वरया राजसिंहं तम् अंबरीषमुवाचह॥

स॥ शुनश्शेफः ते द्वे गाधे गृहीत्वा त्वरया राजसिंहं अंबरीषं तं उवाच ह ||

'Then Sunassepha learnt those two mantras quickly and approched Ambarisha,the lion among Kings. Then he spoke as follows'.

राजसिंह महासत्व शीघ्रं गच्छावहे सदः ।
निर्वर्तयस्व राजेंद्र दीक्षां च समुपाविश ॥

स॥ हे राजसिंह ! महासत्व ! सदः शीघ्रं गच्छावहे । हे राजेंद्र ! समुपाविशः दीक्षां च निर्वर्तयस्व ॥

"Oh Rajasimha ! Great powerful man ! Let us go to the council quickly and get set for performing the sacrifice".

तद्वाक्यं ऋषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।
जगाम नृपतिश्शीघ्रं यज्ञवाटं अतंद्रितः ॥

स॥ ऋषिपुत्रस्य तत् वाक्यं श्रुत्वा नृपतिः हर्षसमुत्सकः अत्ंद्रितः शीघ्रं यज्ञवाटम् जगाम ॥

'Hearing those words of the sage's son, the delighted King went immediately to the sacrificial hall'.

सदस्यानुमते राजा पवित्र कृतलक्षणम्।
पशुं रक्तांबरं कृत्वा यूपे तं समबंधयत् ॥

स॥ राजा सदस्य अनुमते पवित्र कृत लक्षणं पशुं रक्तांबरं कृत्वा यूपे तं समबंधयत् ॥

'The king with the approval of the council members then had him decortaed as the Sacrificial animal with garlands of red flowers and tied him to the Sacificial pillar'.

स बद्धोवाग्निरग्र्याभिः अभितुष्टाव तौ सुरौ ।
इंद्रं इंद्रानुजं चैव यथावन्मुनिपुत्त्रकः ॥

स॥ स बद्धः अग्निरग्र्याभिः मुनिपुत्त्रकः तौ सुरौ इंद्रं इंद्रानुजं चैव यथावत् अभितुष्टाव ।

'Thus tied the sages son sang in praise of Indra and his brother Agni'.

ततः प्रीतिसहस्राक्षो रहस्य स्तुति तर्पितः ।
दीर्घमायुः तदा प्रादात् शुनश्शेफाय राघव ॥

स॥ हे राघव ! ततः सहस्राक्षः रहस्य स्तुति तर्पितः तदा शुनश्शेफाय दीर्घम् आयुः प्रादात् ॥

'Oh Raghava ! Pleased with the secret prayer Indra granted long life to Sunassepha'.

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।
फलं बहुगुणं राम सहस्राक्ष प्रसादजम् ॥

स॥ हे नरश्रेष्ठ ! राम ! स राजा यज्ञस्य समाप्तवान् बहुगुणं फलं सहस्राक्ष प्रसादजं ॥

"Oh Rama ! The best of men ! Then the king was rewarded with fruits of the sacrifice by Indra in many ways'.

विश्वामित्रोsपि धर्मात्मा भूयस्तेपे महातपाः ।
पुष्करेषु नरश्रेष्ठ दस वर्ष शतानि च ॥

स॥ हे नरश्रेष्ठ ! धर्मात्मा विश्वामित्रः भूयं पुष्करेषु दश वर्ष शतानि च तेपे महातपाः ॥

'Oh Best of men ! the righteous Viswamitra then performed penance for another ten thousand years'.

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे द्विषष्टितस्सर्गः ॥

||Thus ends the Sixty second chapter of Balakanda nd Valmiki Ramayana||

|| ओम् तत् सत् ||
||Om tat sat ||


|| Om tat sat ||