Srimad Valmiki Ramayanam
Balakanda Sarga 65
Brahmarshi Viswamitra !!
|| om tat sat ||
बालकांड
पंच षष्टितमस्सर्गः
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।
पूर्वां दिशं अनुप्राप्य तपस्तेपे सुदारुणम् ॥
स॥ हे राम! अथ महामुनिः हैमवतीं दिशं त्यक्त्वा पूर्वां दिशं अनुप्राप्य सुदारुणं तपः तेपे ॥
'Oh Rama ! Then the venerable sage left the direction of the Himalayas and moved east and performed severe penance'.
मौनं वर्ष सहस्रस्य कृत्वा व्रतं अनुत्तमम् ।
चकार प्रतिमं राम तपः परम दुष्करम् ॥
स॥ हे राम ! वर्ष सहस्रस्य अनुत्तमम् मौनं व्रतं कृत्वा परमदुष्करं तपः प्रतिमं चकार
||
'Oh Rama ! He performed severe penance for one thousand years maintaining total silence'.
पूर्णे वर्षसहस्रेतु काष्ठभूतं महामुनिम् ।
विघ्नैर्बहुभिराधूतम् क्रोधो नांतरमाविसत् ॥
स॥ पूर्णे वर्ष सहस्रे तु महामुनिं भूतं काष्ठं अभूत् । बहुभिः विघ्नैः अधूतम् (परंतु) क्रोधः न अंतरमाविशत् ॥
'After thousand years , the body of the sage became a skeleton. Many impediment came in the way, but the sage did not become angry'.
सकृत्वा निश्चयं राम तप आदिष्ठदव्ययम् ।
तस्य वर्ष सहस्रस्य व्रते पूर्णे महाव्रतः ॥
भोक्तुमारब्दवनन्नं तस्मिन् काले रघूत्तम।
इंद्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥
स॥ हे राम ! स अव्ययम् निश्चयं कृत्वा तप अतिष्ठत् ।हे रघूत्तम ! महाव्रतः तस्य वर्ष सहस्रस्य व्रते पूर्णे अन्नं भोक्तुम् आरब्धवत् । तस्मिन् काले इंद्रः द्विजातिः भुत्वा सिद्धमन्नं अयाचत ॥
'Oh Rama he continued his penance with determination. Oh Raghottama ! The determined sage having completed thousand years got ready to eat the food. At that time Indra appearing in the garb of Brahman asked for food'.
तस्मै दत्वा तदा सिद्धं सर्वंविप्राय निश्चितः ।
निश्शेषिते अन्ने भगवान् अभुक्त्वैव महातपाः॥
न किंचिदवद्विप्रं मौनव्रत मुपस्थितः ।
अथ वर्ष सहस्रं वै नोच्छ्वसन्मुनिपुंगव॥
स॥ निश्चितः सर्वं सिद्धं विप्राय दत्वा निश्शेषिते अन्ने अभुक्त्वैव महातपाः तस्मै न किंचिद् अवदत् । अथ वर्ष सहस्रं न उच्छ्वसन् मुनिपुंगव मौन व्रत मुपस्थितः ।
'Giving all the food to that Brahman , with no food left the sage remained silent even without eating. Then without breathing he did penance for thousand years maintaining the vow of silence'.
तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ।
त्रैलोक्यं येन संभ्रांतं अदीपितमिवाभवत् ॥
स॥ अनुच्छ्वसमानस्य तस्य मूर्थ्नि धूमो व्यजायत । येन त्रैलोक्यं संभ्रांतं अदीपितं अभवत् ॥
'As he held his breath, smoke was coming out of his head and it seemed like as though all the three worlds are being burnt'.
ततो देवस्सगंधर्वाः पन्नगासुर राक्षसाः ।
मोहितास्तेजसा तस्य तपसा मंदरश्मयः ॥
स॥ ततः देवः गंधर्वाः पन्नग असुर राक्षसाः सः तस्य तपसा तेजसा मंदरस्मयः मोहिताः ॥
Then the Devas , Pannagas, Asuras and Rakshasas were stunned by the brilliance of his Tejas
कश्म लोपहतास्सर्वे पितामहमथाब्रुवन् ।
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ॥
लोभितः क्रोधितश्चैव तपसा चाभिवर्तते ।
न ह्यस्य वृजिनं किंचित् दृश्यते सूक्ष्म मप्यथ॥
स॥ सर्वे कश्मलोपहताः पितामहं अथ अब्रुवन् । हे देव ! महामुनिः विश्वामित्रः बहुभिः कारणैः लोभितः क्रोधितः च ।अथ न किंचित् सूक्ष्मं वृजिनं अपि दृश्यते ॥
They were all very much agitated and spoke to the the father of all ." O Deva ! For various reasons the great sage is able to advance his penance in spite of several attempts to disturb and make him angry. There is not even an iota of weakness or fault in him"
न दीयते यदि त्वस्य मनसा यदीप्सितम्।
विनाशयति त्रैलोक्यं संप्र क्षुभितमानसम् ॥
स॥ यदि त्वस्य मनसा यदीप्सितं (तत्) न् दीयते संप्र क्षुभित मानसं त्रैलोक्यं विनाशयति ॥
If the wish in his heart is not fulfilled he may destroy the three terrified worlds .
व्याकुलाश्च दिशस्सर्वा न च किंचित् प्रकाशते ।
सागराः क्षुभितास्सर्वे विशीर्यंते च पर्वताः ॥
स॥ दिशः सर्वाः व्याकुलाः । न किंचि प्रकाशते । सर्वे सागराः क्षुभिताः । पर्वताः च विशीर्यन्ते ॥
'There is disquiet in all directions. Nothing is glowing. The oceans are getting agitated and the mountains are getting shattered'.
प्रकंपते च पृथिवी वायुर्वाति भृशाकुलः।
ब्रह्मन् न प्रतिजानीमे नास्तिको जायते जनः ॥
स॥ पृथिवी च प्रकंपते । वायुः भृशाकुलः वाति । नास्तिको जायते जनः ।हे ब्रह्मन् न प्रतिजानीमे ( किंकरवामः इति)
"The earth is shaking . The wind is blowing fiercely. The people are losing faith in God. O Brahman ! We are not knowing what is to be done"
सम्मूढमिव त्रैलोक्यं संप्र क्षुभित मानसम् ।
भास्करो निष्प्रभश्चैव महर्षेः तस्य तेजसा ॥
स॥ भास्करः तस्य तेजसा निष्प्रभश्च एव । संप्रक्षुभित मानसं त्रैलोक्यं सम्मूढमिव ।
"Sun's brilliance is diminished by his (sage's) brilliance. The three worlds are petrified by the disorientation"
बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।
तावत् प्रसाद्यो भगवान् अग्निरूपो महाद्युतिः ।
स॥ हे देव! महामुनिः अग्निरूपः महाद्युतिः ! यावत् नाशे बुद्धिं न कुरुते तावत् भगवन् प्रसाद्यो ॥
"Oh Lord ! The great sage is a form of Agni. Before he thinks of destroying the whole world, the Lord should please him".
कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यते अखिलम् ।
देवराज्यं चिकीर्षेत दीयतामस्य यन्मतम् ॥
स॥ यथा पूर्वं कालाग्निना त्रैलोक्यं दह्यते अखिलम् । देवराज्यं चिकीर्षेत अस्य दीयताम्
|
"Like the timeless fire he can burn down everything, it is better to give even the kingdom of Devas if he so desires".
तत स्सुरगणाः सर्वे पितामहपुरोगमाः ।
विश्वामित्रं महात्मानं मधुरं वाक्यमब्रुवन् ॥
स॥ ततः पितामहपुरोगमाः सुरगणाः सर्वे विश्वामित्रम् माहात्मानं मधुरं वाक्यमब्रुवन् ।
'Then with the father of the worlds leading them in the front the legions of Devas spoke to Viswamitra with sweet words'.
ब्रह्मर्षे स्वागतं ते अस्तु तपासा स्म सुतोषिताः ।
ब्राह्मण्यं तपसोग्रेण प्राप्तवानपि कौशिक ॥
स॥ ब्रह्मर्षे ! ते स्वागतं अस्तु । स्म तपसा सुतोषिताः ।हे कौशिक ब्रह्मण्यं उग्रेण तपसा प्राप्तवान् अपि ॥
"Oh Brahmarshi! Welcome to you. We are happy with your penance. Oh Kausika you achieved Brahmatva with rigorous penance".
दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ।
स्वस्ति प्राप्नुहि भद्रं ते गछ्छ सौम्य यथा सुखं ॥
स॥ हे ब्रह्मन् ! स मरुद्गणः ते ददामि दीर्घमायुः । स्वस्ति प्राप्नुहि । भद्रं ते। हे सौम्य यथा सुखं गच्छ ॥
"Oh Brahman ! Along with all the legions of Suras we are offering you long life. May everything be auspicious with you. O Saumya ! Please go back happily".
पितामहवचश्रुत्वा सर्वेषां च दिवौकसाम्।
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥
स॥ मुदितो महामुनिः पितामह वचः श्रुत्वा सर्वेषां दिवौकसां प्रणामं कृत्वा व्याजहार ॥
'Hearing those words of the father of all worlds, delighted , Viswamitra bowed to all and spoke as follows'.
ब्राह्मणं यदि मे प्राप्तं दीर्घमायुः तथैव च ।
ओंकारश्च वषट्कारो वेदाश्च वरयंतु माम् ॥
स॥ यदि मे ब्राह्मणं प्राप्तं तथैव दीर्घमायुः वषट्कारः ओंकारश्च वेदाश्च मां वरयंतु ॥
" If I have earned Brahmatva as well as long life , you may also present me with knowledge of Vashatkara, Omkara as well as all Vedas".
क्षत्र वेद विदां श्रेष्ठो ब्रह्म वेद विदामपि।
ब्रह्मपुत्रो वसिष्ठो मां एवं वदतु देवताः ॥
स॥ हे देवताः ! क्षत्रवेद विदां ब्रह्मवेदविदामपि श्रेष्ठः ब्रह्मपुत्त्रः वसिष्ठः माम् एवं वदतु ॥
"Oh Devas ! Vasishta , the son of Brahma and knower of Kshatra Veda and Brahma Veda may also address me accordingly ( Brahmarshi!)".
यद्ययं परमः कामः कृतो यांतु सुरर्षभाः ।
ततः प्रसादितो देवैः वसिष्ठो जपतां वरः ॥
सख्यं चकार ब्रह्मर्षिः एवमस्त्विति चाब्रवीत् ।
ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव ॥
इत्युक्त्वा देवताश्चापि सर्वा जग्मुः यथागतम् ॥
स॥ हे सुरर्षभाः यदि अयं परमं कामः कृतो यांतु । ततः देवैः वसिष्ठो जपतां वरः प्रसादितः सख्यं चकार ॥ ब्रह्मर्षिः एवं अस्तु इति च अब्रवीत्॥ तव ब्रह्मर्षित्वं न संदेहः. सर्वं संपत्स्यते इति उक्त्वा देवताः सर्वे यथागतं जग्मुः अपि ॥
"Oh Devas ! You may fulfill my wish and go !" Then the Devas pleased Vasishta the best among those who do penance to make friendship . He too said "so be it". Then Devas told Viswamitra ," There is no doubt about your Brahmarshitva. Everything will be as desired." So saying they left for their places'.
विश्वामित्रोsपि धर्मात्मा लब्ध्वा ब्राह्मण्य मुत्तमम् ।
पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्।
कृतकामो महीं सर्वां चचार तपसि स्थितः ॥
स॥ धर्मात्मा विश्वामित्रः उत्तमम् ब्राह्मण्यम् लब्ध्वा वसिष्ठं जपतां वरं ब्रह्मर्षिं पूजयामास । कृतकामः तपसि स्थितः सर्वां महीम् चचार ॥
'Viswamitra too having obtained Brahmarshitva then worshiped Vasishta. Having attained his wish he moved around the earth doing penance'.
एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ।
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ॥
स॥ हे राम ॥ त्वनेन एवं ब्रह्मण्यं प्राप्तम्। हे राम एषः मुनिश्रेष्ठः। एषः तपस्य विग्रहवान् ॥
"Oh Rama ! he obtained Brahmarshitva in this way. Oh Rama he is best among all sages. He is an embodiment of penance."
एष धर्मपरो नित्यं वीर्यस्यैष परायणम् ।
एव मुक्त्वा महातेज विरराम द्विजोत्तमः ॥
स॥ एषः नित्यम् धर्मपरः एषः वीर्यस्य परायणम् । महातेजा द्विजोत्तमः ( शतानंदः ) विरराम ॥
" He is ever committed to the righteousness. He is the most powerful one". Having said this the illustrious Brahmin Satananda became silent.
शतानंद वचः श्रुत्वा रामलक्ष्मण सन्निधौ ।
जनकः प्रांजलिं र्वाक्य मुवाच कुशिकातजम्॥
स॥ राम लक्ष्मण सन्निधौ शतानंदः वचः श्रुत्वा जनकः प्रांजलिः कुशिकात्मजं उवाच ॥
Janaka who heard the words of Satananda in the presence of Rama and Lakshmana, bowed to Viswamitra and spoke as follows.
धन्योस्मि अनुग्रहीतोश्मि यस्य मे मुनिपुंगव ।
यज्ञं काकुत्स्थसहितः प्राप्तवानपि धार्मिक ॥
स॥ हे मुनिपुंगव ! यस्य काकुत्स्थ सहितः यज्ञं प्राप्तवान् अपि अनुग्रहीतः अस्मि। हे धार्मिक धन्यः अस्मि ।
"Oh Best of Sages ! Coming to this sacrifice along with the scions of Kakuthstha you have honored me. O Dharmika I am truly blessed".
पावितोsहं त्वया ब्रह्मन् दर्शनेन महामुने।
गुणा बहुविधाप्राप्ताः तव संदर्शनान् मया॥
स॥ "हे ब्रह्मन् ! महामुने । त्वया दर्शनेन अहं पावितः । तव संदर्शनान् मया बहुविधा गुणा प्राप्ताः" ॥
"Oh Brahmarshi ! with your presence I am rid of my sins. Because of your presence I am blessed with many things".
विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः ॥
श्रुतं मया महातेजो रामेण च महात्मना ।
सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥
स॥ हे ब्रह्मन् विस्तरेण कीर्त्यमानं ते महत्तपः मया महात्मना रामेण च श्रुतं ॥सदः सदस्यैः ते बहवो गुणाः प्राप्य श्रुताः ॥
"Oh Brahman! The widely elaborated penance of yours has been heard by me and Rama, the best of men too. The assembly and all the members of the assembly heard your great qualities".
अप्रमेयं तपस्तुभ्यं अप्रमेयं च ते बलम्।
अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥
स॥ हे कुशिकात्मज ! तुभ्यं तपः अप्रमेयं । ते बलं च अप्रमेयम् । ते गुणाश्चैव अप्रमेयम् ।
"Oh Son of Kusika ! Your penance is unparalleled. Your power is unparalleled. Your strength is unparalleled. Your qualities are unparalleled".
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो।
कर्मकालो मुनिश्रेष्ठ लंबते रवि मंडलम् ॥
स॥ हे विभो आश्चर्यभूतानां कथानां तृप्तिः नास्ति । हे मुनिश्रेष्ठ रवि मंडलं लंबते । कर्मकालः अपि ॥
"Oh Lord ! We cannot hear enough of this wonderful story of yours . Oh Best of Sages ! Sun is setting in his region" .
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः।
स्वागतं तपतां श्रेष्ठ मामनुज्ञातु मर्हसि ॥
स॥ महातेजः श्वः प्रभाते मां पुनः द्रष्ठुमर्हसि । स्वागतं तपतां श्रेष्ठ मां अनुज्ञातु मर्हसि ॥
" Oh Great one ! Please give is permission to see you again tomorrow morning. Our welcome to you. Please give us permission".
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्।
विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥
स॥ मुनिवरः एवं उक्तः प्रीतं प्रीतमनाः तदा जनकं प्रसस्य विससर्जाशु॥
The best of sages having been thus requested was pleased and with pleasure praising the King Janaka , he gave them the permission.
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः।
प्रदक्षिणं चकाराशु सोपाध्यायस्सबांधवः ॥
स॥ वैदेहो मिथिलाधिपः मुनि श्रेष्ठं एवं उक्त्वा स उपाध्याय बांधवाः प्रदक्षिणम् चकाराशु ॥
Having told the best of sage thus , the king of Mithila circumambulated the sage along with his entourage and left.
विश्वमित्रोsपि धर्मात्मा सहरामस्सलक्ष्मणः।
स्ववास मभिचक्राम पूज्यमानो महर्षिभिः ॥
स॥ महर्षिभिः पूज्यमानः धर्मात्मा विश्वामित्रः अपि राम लक्ष्मण सह स्ववासं अभिचक्राम ॥
The righteous Viswamitra too having been worshipped by all other Maharshis reached his abode along with Rama and Lakshmana.
इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये बालकांडे पंच षष्टितमस्सर्गः ॥
Thus ends the sixty fifth Sarga of Balakanda in Valmiki Ramayana.
|| Om tat sat ||
||om tat sat||