Srimad Valmiki Ramayanam
Balakanda Sarga 66
Janaka talks about Shivadhanush!!
|| om tat sat ||
बालकांड
षट्षष्ठितमस्सर्गः
ततः प्रभाते विमले कृत कर्मा नराधिपः ।
विश्वामित्रं महात्मानं अजुहाव स राघवम्॥
स॥ ततः विमले प्रभाते नराधिपः कृतकर्मा महात्मानं विश्वामित्रं स राघवम् अजुहाव ॥
Then the king having completed his morning ablutions then invited great Viswamitra as well as Rama and Lakshmana.
तं अर्चयित्वा धरात्मा शास्त्र दृष्टेन कर्मणा ।
राघवौ च महात्मानौ तदा वाक्य मुवाच ह॥
स॥ (सः) धर्मात्मा शास्त्र दृष्ठेन कर्मणा तं अर्चयित्वा तदा राघवौ च महात्मानौ वाक्यं उवाच ह ॥
That follower of right path worshipped them and then spoke to sage Viswamitra and Raghava.
भगवन् स्वागतं ते अस्तु किं करोमि तवानघ ।
भवानाज्ञापयितुमां आज्ञाप्यो भवता ह्यहम् ॥
स॥ भगवन् ! ते स्वागतं अस्तु. हे अनघ ! तव किंकरोमि । मां भवान् आज्ञापयितुम् अहं आज्ञाप्यो भवता हि ।
"Oh Bhagavan ! welcome to you. O Great one ! What can I do for you. You may please order me. I will follow your orders".
एवमुक्तस्स धर्मात्मा जनकेन महात्मना ।
प्रत्युवाच मुनिर्वीरं वाक्यं वाक्य विशारदः ॥
स॥ महात्मना जनकेन एवं उक्तः स धर्मात्मा मुनिः वाक्यं वाक्य विशारदः वीरं प्रत्युवाच ॥
When the great janaka spoke like that then the learned Viswamitra spoke to valiant king as follows.
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।
द्रष्टुकामौ धनुश्रेष्ठं यदेतत् त्वयि तिष्ठति ॥
एतद्दर्शय भद्रंते कृतकामौ नृपात्मजौ ।
दर्शनादस्य धनुषो यथेष्ठं प्रतियास्यतः ॥
स॥ इमौ दशरथस्य पुत्रौ क्षत्रियौ लोकविश्रुतौ यत् धनुश्रेष्ठं त्वयि तिष्ठति एतत् द्रष्ठु कामौ ॥भद्रं ते । एतत् नृपात्मजौ धनुषो दर्शय । अस्य दर्शनात् यधेष्ठं प्रतियास्यतः ॥
"May everything be good . These two kshatriya princes , sons of Dasartha desire to see the bow which is widely known as the best. After seeing they would go as they please".
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्।
श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥
स॥ जनकः एवमुक्तस्तु महामुनिम् प्रत्युवाच । धनुषः यदर्थं इह तिष्ठति श्रूयतां॥
Having been told thus , Janka replied to the venerable sage as follows. " I will tell you why this bow is here".
देवरात इति ख्यातो निमेष्षष्ठो महीपतिः ।
न्यासो अयं तस्य भगवन् हस्ते दत्तो महात्मना ॥
स॥ देवरात इति ख्यातो निमेषस्य षष्टो मही पतिः ( आसीत्) तस्य महात्मना हस्ते भगवन् दत्तो अयं न्यासः ॥".
"The sixth king in the line of Nimis is very well known by name Devarata. Bhagavan gave this in his hands for safe keeping".
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।
रुद्रस्तु त्रिदशान् रोषात् सलील मिदमब्रवीत् ॥
स॥ पूर्वं दक्ष यज्ञवधे रुद्रस्तु धनुरायम्य त्रिदशान् वीर्यवान् रोषात् सलील मिदं अब्रवीत् ॥
"Once upon a time during the destruction of Daksha's Yagnya Rudra took this bow and spoke to all Devas".
यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः ।
वरांगाणि महार्हाणि धनुषा शातयामि वः ॥
ततो विमनस्सर्वे देवा वै सलीलमिदमब्रवीत् ।
प्रसादयंति देवेशं तेषां प्रीतोsभवद्भवः ॥
स॥ भागार्थिनो भागान् न कल्पयते यस्मात् वः महार्हाणि वरांगाणि धनुषा शातयामि ॥हे मुनिपुंगव ! ततः सर्वे देवाः विमनः देवेशं प्रसादयंति । तेषां प्रीतो अभवत् भवः॥
'You have not given the rightful share being asked by me and I am going to cut your best and most valuable limbs'. O Best of sages ! Then the terrified Devas prayed to Siva. Then Siva was pleased" .
प्रीतियुक्त स्स सर्वेषां ददौ तेषां महात्मनाम् ।
तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।
न्यासभूतं तदा न्यस्तम् अस्माकं पूर्वके विभो ॥
स॥स सर्वेषां प्रीतियुक्तः तेषां महात्मनां तदेतत् देव देवस्य धनूरत्नं विभो ददौ । तदा पूर्वके अस्माकं न्यासभूतं न्यस्तम्॥
"Pleased with all of them gave them this bow which is like a gem . Then this bow was given in old times to our ancestors for safe keeping ".
अथ मे कृषतः क्षेत्रं लांगलादुत्थिता मया ।
क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता ॥
स॥ अथ मे क्षेत्रं कृषतः मया लांगलात् उत्थिता । क्षेत्रं शोधयिता लब्धा इति सीता नाम्ना विश्रुता ॥
"Then once when I was tilling the soil a girl came up by the plough. Because she came up by the plough she is known as Sita".
भूतलादुत्थिता सातु व्यवर्थत ममात्मजा ।
वीर्य शुल्केति मे कन्या स्थापितेयं अयोनिजा ॥
स॥ सा भूतलात् उत्थिता (अपि) तु मम आत्मजा व्यवर्थत । मे कन्या अयोनिजा अयं वीर्य शुल्केति स्थापितः॥
"Emerging from the earth she grew up like my daughter. This Ayonija is to be claimed by valor only".
भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।
वरयामासुरागम्य राजानो मुनिपुंगव ॥
स॥ हे मुनिपुंगव !भूतलात् उत्थितां वर्थमानां मम आत्मजां तां वरयामासुः राजानो आगम्य ॥
"Oh Best of sages ! For this daughter who emerged out of earth many kings came as suitors".
तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।
वीर्यशुल्केति भगवन् न ददामि सुतामहम् ॥
स॥ हे भगवन् ! सर्वेषां पृथिवीक्षितां तेषां वरयतां कन्यां वीर्यशुल्केति सुतां अहं न ददामि ॥
"Oh Bhagavan ! Since she is to be given the most valiant among all , I could not give her to any one".
ततस्सर्वे नृपयः समेत्य मुनिपुंगव ।
मिथिलामभ्युपागम्य वीर्य जिज्ञासवस्तदा ॥
स॥ ततः सर्वे नृपयः समेत्य वीर्य जिज्ञासवः तदा मिथिलां अभ्युपागम्य ॥
"Then all the kings came to Mithila interested in knowing their valor."
तेषां जिज्ञासमानानं वीर्यं धनुरुपाहृतम् ।
न शेकुर्ग्रहणे तस्य धनुषस्तोलनेsपि वा ॥
स॥ तेषां वीर्यं जिज्ञासमानानां धनुः उपाहृतम् । (ते) तस्य ग्रहणे स्तोलनेपि वा न शेकुः ॥
"They wanted to test their skill by taking aim with the Bow. But they could not even lift the bow let alone taking aim".
तेषां वीर्यवतां वीर्यं अल्पं ज्ञात्वा महामुने ।
प्रत्याख्याता नृपतयः तन्निबोध तपोधना ॥
स॥ हे तपोधना! नृपतयः वीर्यवतां वीर्यं अल्पं इति ज्ञात्वा तेषां प्रत्याख्याता तन्निबोध ॥
"Oh Venerable sage ! Realizing that their valor is too little I did not give my daughter. Then I will tell you what happenned further".
ततः परम कोपेन राजानो मुनिपुंगव ।
न्यरुंधन् मिथिलां सर्वे वीर्य संदेहमागताः ॥
स॥ हे मुनिपुंगव ! सर्वे राजानोसंदेह मागतः ततः परम कोपेन मिथिलां न्यरुंधन् ॥
"Oh Sage ! The kings had a suspicion . Then they attacked Mithila with great anger".
आत्मानमवधूतं ते विज्ञाय नृपपुंगवाः ।
रोषेण महताss विष्टाः पीडयन् मिथिलां पुरीं ॥
स॥ ते नृपपुंगवाः आत्मानं अवधूतं (इति) विज्ञाय महता रोषेण मिथिलां पुरीं पीडयन् अविष्टाः॥
"The kings felt insulted and then they started to attack Mithila and causing many troubles".
ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।
साधनानि मुनिश्रेष्ठ ततोss हं भृशदुःखितः ॥
स॥ हे मुनिश्रेष्ठ ततः संवत्सर पूर्णे सर्वशः साधनानि क्षयं यातानि ! ततः अहं भृश दुःखितः ॥
"Oh Best of sages ! After a full year the instruments to defend became weak. Then I was extremely sad".
ततो देवगणान् सर्वान् तपसा अहं प्रसादयम् ।
ददुश्च परमप्रीताः चतुरंग बलं सुराः ॥
स॥ ततः अहम् तपसा सर्वान् देवगणान् प्रसादयम् । परमप्रीताः सुराः चतुरंग बलं तददुः च ॥
"Then I pleased the Devas with penance. The pleased Devas gave me fourfold forces".
ततो भग्नानृपतयो हन्यमाना दिशोययुः ।
अवीर्या वीर्यसंदिग्धाः सामात्याः पापकर्मणः ॥
स॥ ततः नृपतयोः भग्ना हन्यमाना अवीर्याः वीर्य संदिग्धाः सामात्यां पापकर्मिणः दिशो ययुः ॥
"Then all those kings were humbled losing their valor and commiting heinous acts ran away in all directions".
तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।
रामलक्ष्मणयोश्छापि दर्शयिष्यामि सुव्रत ॥
स॥ हे मुनिशार्दूल ! सुव्रत ! तत् एतत् परमभास्वरं धनुः राम लक्ष्मणयोः च अपि दर्शयिष्यामि ॥
"O Best of sages ! You have done many good deeds ! I will show that great bow to Rama and Lakshmana".
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।
सुतां अयोनिजां सीतां दद्यां दाशरथेरहम् ॥
स॥ हे मुनेः ! यदि अस्य धनुः रामः आरोपणं कुर्याद् अयोनिजां सुतां दाशरथेः दद्यां ॥
"Oh Great sage ! if Rama can take aim with the bow then I give my daughter Ayonija to the son of Dasartha !"
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे षट्षष्ठितमस्सर्गः ॥
Thus the sixty sixth sarga of Balakanda in Srimadvalmiki Ramayan comes to an end .
||ओम् तत् सत् ||
||om tat sat||