Srimad Valmiki Ramayanam
Balakanda Sarga 67
Rama breaks the Siva's Bow !!
|| Om tat sat ||
बालाकांड
सप्तषष्टितम स्सर्गः
जनकस्य वचश्रुत्वा विश्वामित्रो महामुनिः ।
धनुर्दर्शय रामाय इतिहोवाच पार्थिवम् ॥
स॥ महामुनिः विश्वामित्रः जनकस्य वचः श्रुत्वा रामाय धनुः दर्शय इति पार्थिवं उवाच ह ॥
Having heard the words of Janaka , the venerable sage Viswamitra told the king to show the bow to Rama.
ततस्स राजा जनकः सामंतान् व्यादिदेशह ।
धनुरानीयतां दिव्यं गंधमाल्याविभूषितम् ।
स॥ ततः स राजा सामंतान् दिव्यं गंधमाल्याविभूषितं धनुः आनीयतां इति व्यादिदेश ह ॥
Then the king ordered his assistants to bring that celestial bow decorated with scented garlands.
जनकेन समादिष्टाः सचिवाः प्राविशन् पुरीं ।
तद्दनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया ॥
स॥ जनकेन समादिष्टाः सचिवाः पुरीं प्राविशन् । पार्थिवाज्ञया तत् धनुः पुरतः कृत्वा निर्जग्मुः ॥
Thus ordered by Janaka the ministers went to the city . As ordered by the king , keeping the bow in the front they started back.
नृणां शतानि पंचाशत् व्यायतानां महात्मनां।
मंजूषां अष्टचक्रां तां समूहुस्ते कथंचन ॥
स॥व्यायतानां महात्मनां नृणां पंचाशत् मंजूषां अष्ठचक्रां तां कथंच समूहस्ते ॥
Five thousand persons who are very strong with great difficulty brought the container holding the bow.
तामादायतु मंजूषां अयसीं यत्र तद्दनुः ।
सुरोपमं ते जनकं ऊचु र्नृपतिमंत्रिणः ॥
स॥ नृपति मंत्रिणः यत्र तत् धनुः तां मंजूषां आदाय सुरोफमं जनकं ते ऊचुः ॥
The ministers of the king having brought that container holding the bow , spoke to Janaka who is comparable to Devas.
इदं धनुर्वरं राजन् पूजितं सर्व राजभिः ।
मिथिलाधिप राजेंद्र दर्शनीयं यदिच्छसि ॥
स॥ हे राजेंद्र ! हे राजन् ! मिथिलाधिप !इदं सर्व राजभिः पूजितं वरं धनुः दर्शनीयं यदिच्छसि ॥
"Oh Best of kings ! Oh Rajan ! Oh King of Mithila , this bow revered by all kings can be shown as you please".
तेषां नृपो वचः श्रुत्वा कृतांजलिरभाषत ।
विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ ॥
स॥ तेषां वचः श्रुत्वा नृपः कृतांजलिः महात्मानं विश्वामित्रं तौ उभौ रामलक्ष्मणौ च अभाषत ॥
Having heard their words , the king with folded hands spoke to venerable Viswamitra as well as Rama and Lakshmana.
इदं धनुर्वरं ब्रह्मन् जनकैरभिपूजितम् ।
राजभिश्च महावीर्यैः अशक्तैः पूरितुं पुरा ॥
स॥ हे ब्रह्मन् ! इदं धनुः जनकैः अभिपूजितम् ।पुरा महावीर्यैः राजभिश्च पूरितुं अशक्तैः ॥
"O Brahman ! This bow has been worshipped by all our ancestors. Earlier even powerful kings were unable to take aim with this bow".
नैतत् सुरगणास्सर्वे ना सुरा न च राक्षसाः ।
गंधर्व यक्ष प्रवराः सकिन्नरमहोरगाः ॥
क्वगतिर्मानुषाणां तु धनुषोs स्य प्रपूरणे ।
आरोपणे समायोगे वेपने तोलनेs पि वा ॥
स॥ न एतत् सर्वे सुरगणाः न असुराः न च राक्षसाः गंधर्व यक्ष प्रवराः किनर महोरगाः अस्य प्रपूरणे आरोपणे समायोगे वेपने तोलनेपि वा ( अशक्तैः) ! मनुषाणां क्व गतिः ॥
"In the ranks of Suras, Asuras Rakshasas, Gandharvas, Yakshas, Kinnaras or the great Serpents, there were none who were able to take aim or string the bow or pull the strings or even lift the bow . What to talk of mere mortals".
तदेतद्दनुषां श्रेष्ठं आनीतं मुनिपुंगव ।
दर्शयैतन्महाभाग अनयो राजपुत्रयोः ॥
स॥ हे महाभाग ! हे मुनिपुंगव ! तत् एतत् श्रेष्ठं धनुषां अनयो राजपुत्रयोः दर्शयै आनीतं ॥
"Oh Great one ! O Best of Sages! that best of bows has been brought here to show to these princes "
विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् ।
वत्स राम धनुः पश्य इति राघव मब्रवीत् ॥
स॥ जनक भाषितं ( तत् वाक्यं) श्रुत्वा धर्मात्मा विश्वामित्रः तु राघवं ,- "वत्स राम धनुः पश्य" इति अब्रवीत् ॥
Hearing those words of Janaka, the righteous Viswamitra spoke to Rama as follows . " Dear Rama see the bow ".
ब्रह्मर्षेर्वचनाद्रामो यत्र तिष्ठति तद्दनुः।
मंजूषां तां अपावृत्य दृष्ट्वा धनुरथाब्रवीत् ॥
स॥ ब्रह्मर्षे वचनात् रामः यत्र धनुः तिष्ठति तत् मंजूषां अपावृत्य धनुः दृष्ट्वा अथ अब्रवीत् ॥
Following the words of that Brahmarshi , Rama went near the container holding the bow . Then after looking at the bow he spoke.
इदं धनुर्वरं ब्रह्मन् संस्पृशामीहा पाणिना ।
यत्नवांश्च भविष्यामि तोलने पूरणे पिs वा ॥
स॥ हे ब्रह्मन् ! इदं वरं धनुः इह पाणीना संस्पृशामि तोलने पूरणेपि वा यत्नवां च भविष्यामि?
" O Brahman ! I am touching the bow with my hand . I will try to take aim with the same"
भाढमित्येव तं राजा मुनिश्च समभाषत ।
स॥ तं राजा मुनिः च भाढं इति समभाषत ॥
Then the king and the sage said " go ahead ".
लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः ।
पश्यतां नृसहस्राणां बहूनां रघुनंदनः ॥
अरोपयित्वा धर्मात्मा पूरयामास तद्धनुः।
तद्भभंज धनुर्मध्ये नरश्रेष्ठो महायशाः ॥
स॥ मुनेः वचनात् बहूनां नृपसहस्राणां पश्यतां रघनंदनः स धनुः लीलया मध्ये जग्राह । नरश्रेष्ठः महायशाः सः धर्मात्मा तत् धनुः आरोपयित्वा पूरयामास । तत् धनुः मध्ये भभंज ॥
Following the words of the sage, even as thousands of kings etc were looking on the best of men held the bow in the middle with ease and as he took aim the bow broke at the middle.
तस्य शब्दो महानासीत् निर्घातसमनिस्वनः ।
भूमिकंपश्च सुमहान् पर्वतस्येव दीर्यतः ॥
स॥ तस्य शब्धः निर्घात सम निश्वनः महान् आसीत् । भूमिः कंपः च । सुमहान् पर्वत एव दीर्यतः ॥
The sound made ( by the breaking of the bow) was like the stunning sound of thunder. The earth shook. The mountains seemed to break apart.
निपेतुश्च नरास्सर्वे तेन शब्दा मोहितः ।
वर्जयित्वा मुनिवरं राजानं तौ च राघवौ ॥।
स॥ मुनिवरं राजानं राघवौ च वर्जयित्वा नराः सर्वे तेन शब्देन मोहिताः निपेतुः च ॥
Apart from the venerable sage, the king , Rama and Lakshmana everybody else was stunned by the sound and fell down.
प्रत्याश्वस्ते जने तस्मिन् राजा विगत साध्वसः ।
उवाच प्रांजलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्॥
स॥ जने तस्मिन् प्रत्याश्वस्ते । राजा अपि विगत साध्वसः प्रांजलिः व्याक्यज्ञो मुनिपुंगम् वाक्यं उवाच ॥
The people recovered from the stunning effect. The king too with his apprehensions allayed spoke to the venerable and learned sage with folded hands.
भगवन् दृष्टवीर्यो मे रामो दशरथात्मज ।
अत्यद्भुतमचिंत्यं च न तर्किकमिदं मया ॥
स॥ हे भगवन् ! अत्यद्भुतं अचिन्त्यं न तर्किकं दशरथात्मजः रामो इदं वीर्यः मे दृष्टः ।
"Oh Bhagavan ! I have seen the valor of Rama the son of Dasaratha , which is wonderful, beyond imagination and beyond expectations".
जनकानां कुले कीर्तिम् आहरिष्यति मे सुता ।
सीता भर्तारमासाद्य रामं दशरथात्मजम् ॥
स॥ सीता रामं दशरथात्मजं भर्तारं आसाद्य मे सुता जनकानां कुले कीर्तिम् अहरिष्यति ।
"Sita having obtained Rama as her husband , will enhance the prestige of Janaka's lineage".
मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक ।
सीता प्राणैर्बहुमता देया रामाय मे सुता ॥
स॥ हे कौशिक ! वीर्यशुल्कः इति मम प्रतिज्ञा सत्या मे सुता प्राणैः बहुमता सीता रामाय देया ॥
"Oh Kausika ! My vow to give her to the best among men has now been redeemed. Sita who is dear to my heart is certainly be given to Rama".
भवतोs नुमते ब्रह्मन् शीघ्रं गच्छंतु मंत्रिणः ।
ममकौशिक भद्रं ते अयोध्यायां त्वरिता रथैः ॥
राजानं प्रश्रितैर्वाक्यैः आनयंतु पुरं मम ।
प्रदानं वीर्यशुल्कयाः कथयंतु च सर्वशः ॥
मुनिगुप्तौ च काकुत् स्थौ कथयंतु नृपायवै ।
प्रीयमानं तु राजानम् आनयंतु सु शीघ्रगाः॥
स॥ हे ब्रह्मन् ! भद्रं ते । हे कौशिक ! भवतो अनुमते मम मंत्रिणः त्वरिता रथैः शीघ्रं अयोध्यायां गच्छंतु ।सर्वशः वीर्य शुल्कयाः प्रदानं कथयंतु राजानं प्रश्रितैः वाक्यैः मम पुरं आनयंतु ॥नृपाय काकुत्स्थौ मुनिगुप्तौ च कथयंतु । सुशीघ्रगाः प्रीयमानं राजानम् आनयंतु तु ॥
"Oh Brahman! May all be auspicious with you. O Kausika with your permission my ministers will go on fast chariots quickly to Ayodhya. With respectful words they will tell about winning the bride. They will bring the king to our city. They will tell the king about the two princes who are under the protection of the sage. The delighted king will be brought here".
कौशिकश्च तधेत्याह राजा चा भाष्य मंत्रिणः ।
Then Kausika said "let it be so". Then the king spoke to the ministers.
अयोध्यायां प्रेषयामास धर्मात्मा कृतशासनान् ।
यथावृत्तं समख्यातुं आनेतुं च नृपं तथा ॥
स॥ (सः) धर्मात्मा यथावृत्तं समाख्यातुं तथा नृपं आनेतुं च कृतशासनान् अयोध्यायां प्रेषयामास ॥
Then the righteous king sent his experienced ministers to the city of Ayodhya to tell the about all the happenings to the king (of Ayodhya)
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकांडे सप्तषष्टितम स्सर्गः ॥
समाप्तं ॥
Thus ends the Sarga sixty seven of Balakanda in Valmiki Ramayana.
|| om tat sat ||