Srimad Valmiki Ramayanam
Balakanda Sarga 68
Janaka sends invitation to Dasaratha
||om tat sat||
बालकांड
अष्टषष्टितमस्सर्गः
जनकेन समादिष्टा दूतास्ते क्लांतवाहनाः ।
त्रिरात्रमुषिता मार्गे ते अयोध्यायां प्राविशन् पुरीम् ॥
स॥ ते दूताः जनकेन समादिष्टाः मार्गे त्रि रात्रं उषिता क्लांत वाहनाः ते अयोध्यायां पुरीम् प्राविशन्।
The messengers thus ordered by Janaka stopping on the way at nights for three days entered Ayodhya with tired vehicles.
राज्ञो भवन मासाद्य द्वारस्थान् इदमब्रुवन् ।
शीघ्रं निवेद्यतां राज्ञे दूतान् नो जनकस्य च ।
इत्युक्ता द्वारपालास्ते राघवाय न्यवेदयन् ॥
स॥ (ते) राज्ञः भवनं आसाद्य द्वारस्थान् इदं अब्रवीत् । राज्ञे शीघ्रं निवेद्यतां जनकस्य दूतान् नो च। इति उक्ता ते द्वारपालाः राघवाय न्यवेदयन् ॥
Reaching the kings palace they spoke as follows."Inform the king immediately that messengers from Janaka have come." The gate keepers having been told so went to inform the scion of Raghu.
ते राजवचनाद्दूता राजवेश्म प्रवेशिताः ।
ददृशुर्देव संकाशं वृद्धं दशरथं नृपम् ॥
स॥ राजवचनात् ते दूताः राजवेश्म प्रवेशिताः देवसंकाशं वृद्धं दशरथं नृपम् ददृशुः ॥
With the permission of the king , the messengers entered the kings palace and saw the old king Dasaratha who is equal to Devas.
बद्धांजलि पुटास्सर्वे दूता विगतसाध्वसाः ।
राजानं प्रयता वाक्यं अब्रुवन् मधुराक्षरम् ॥
स॥ दूताः विगतसाध्वसाः सर्वे बद्धांजलि पुटाः राजानं प्रयता मधुराक्षरं वाक्यं अब्रुवन् ॥
The messengers relieved of anxiety addressed all with sweet words with folded hands.
मैथिलो जनकोराजा साग्निहोत्र पुरस्कृतम् ।
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम् ॥
स॥ मैथिलः जनकः स अग्निहोत्र पुरस्कृतम् राजा स उपाध्याय पुरोहितं अव्ययं कुशलं च ( अब्रुवन्) ॥
"Janaka the king of Mithila is enquiring about the welfare of the king known for fire rituals along with his priests and Gurus"
मुहुर्मुहुर्मधुरया स्नेह संयुक्तया गिरा ।
जनकस्त्वां महाराज पृच्छते सपुरस्सरम् ॥
स॥ हे महराज मधुरया स्नेह संयुक्तया मुहुः मुहुः महाराज जनकः त्वां सपुरस्सरम् पृच्छते ॥
"Oh King ! With sweet words full of friendship Janaka is again and again enquiring about your welfare".
पृष्ट्वा कुशल मव्यग्रं वैदेहो मिथिलाधिपः ।
कौशिकानुमते वाक्यं भवंतं इदमब्रवीत् ॥
स॥ मिथिलाधिपः वैदेहः अव्यग्रं कुशलं पृष्ट्वा कौशिकस्य अनुमते इदं वाक्यं भवंतं अब्रवीत् ॥
"The King of Mithila having enquired your welfare , and with the permission of Kausika conveyed the following to you".
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा ।
राजानश्च कृतामर्षाः निर्वीर्या विमुखीकृताः ॥
स॥ पूर्वं ममात्मजा वीर्यशुल्का (इति) प्रतिज्ञा ( ते ) विदिता । राजानः कृतमर्षाः निर्वीर्या विमुखीकृताः (इति ते विदिता) ॥
'That earlier we had taken a vow to offer Sita only to the most valiant hero is known. Known too that many kings tried and returned unsuccessful'.
सेयं ममसुता राजन् विश्वामित्रपुरस्सरैः ।
यदृच्छया गतै र्वीरैः निर्जिता तव पुत्त्रकैः ॥
स॥ हे राजन् ! यदृच्छया विश्वामित्रपुरस्सरैः गतैः वीरैः तवपुत्रकैः स अयं ममसुता निर्जिता ॥
'Oh Rajan ! Fortunately the the two valiant sons of yours who followed Viswamitra won over my daughter'.
तच्छ राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना ।
रामेण हि महाराज महत्यां जनसंपदि ॥
स॥ हे राजन् ! महत्यां जनसंपदि तत् दिव्यं धनुः महात्मना रामेण मध्ये भग्नं च हि ॥
'Oh Rajan ! In front of many great people Rama has broken that celestial bow in the middle'.
अस्मै देया मया सीता वीर्य शुल्का महात्मने।
प्रतिज्ञां कर्तुमिच्छामि तदनुज्ञातु मर्हसि ॥
स॥ अस्मै महात्मने वीर्यशुल्का सीता देया प्रतिज्ञां कर्तुमिच्छामि । तत् अनुज्ञातु मर्हसि ॥
'I would like to keep my vow of giving Sita to the valorous man by giving her to him. I request your permission'.
सोपाध्यायो महाराज पुरोहितपुरस्सरः ।
शीघ्र माअगच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥
स॥ भद्रं ते । हे महाराज स उपाध्याय पुरोहित पुरस्सरः शीघ्रं आगच्छ । राघवौ द्रष्टुमर्हसि ॥
'Oh King! May everything be auspicious. Please come soon along with your priests and gurus. You can see Rama and Lakshmana'.
प्रीतिं च मम राजेंद्र निर्वर्तयितुमर्हसि ।
पुत्त्रयो रुभयो रेव प्रीतिं त्वमपि लप्स्यसे ॥
स॥ हे राजेंद्र ! मम प्रीतिंच निर्वतयितुमर्हसि । उभयोः पुत्रयोः प्रीतिं एव त्वं अपि लप्स्यसे ॥
'Oh Best of Kings ! Please accept our request. You can share in the happiness of you two children'.
एवं विदेहपतिः मधुरं वाक्यमब्रवीत् ।
विश्वामित्राभ्यनुज्ञातः शतानंद मते स्थितः
स॥ एवं विश्वामित्र अभ्यनुज्ञातः शतानन्द मते स्थितः विदेहपतिः मधुरं वाक्यं अब्रवीत् ॥
"Thus spoke Janaka with sweet words with the permission of Janaka and as per the direction of Satananda".
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः ।
वसिष्ठं वामदेवं च मंत्रिणो sन्यांश्च सोs ब्रवीत् ॥
स॥ तत् दूतवाक्यं श्रुत्वा राजा परम हर्षितः ( अभवत्) । सः वसिष्टं वामदेवं च मंत्रिणो अन्यां च अब्रवीत् ॥
Hearing that message from the messengers the king was very happy. He spoke to Vasishta , Vamadeva and other ministers.
गुप्तः कुशिकपुत्रेण कौशल्यानंदवर्धनः ।
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥
स॥ कौसल्यानन्दवर्धनः भ्राता लक्ष्मणेन सह कुशिकपुत्रेण गुप्तः । विदेहेषु वसत्यसौ ॥
"The son of Kausalya and brother Lakshmana are under the protection of Kausika. They are in the kingdom of Videha".
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना ।
संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥
स॥ महात्मना जनकेन काकुत्स्थौ दृष्ट वीर्यस्तु सुतायाः राघवे संप्रदानं कर्तुमिच्छति ॥
"The great Janaka , having seen the two kakutstha princes , decided to offer his daughter to Rama".
यदि वो रोचते वृत्तं जनकस्य महात्मनः ।
पुरीं गच्छामहे शीघ्रं माभूत् कालस्य पर्ययः ॥
स॥ यदि वो जनकस्य वृत्तं रोचते शीघ्रं महात्मनः पुरीं गच्छामहे । कालस्य पर्ययः माभूत् ॥
"If you like Janaka's offer we will go to his city. We may not lose time".
मंत्रिणो भाढमित्याहुः सह सर्वैर्महर्षिभिः ।
सुप्रीतश्चाब्रवी द्राजा श्वो यात्रेति स मंत्रिणः ॥
स॥ सर्वैः महर्षिभिः मंत्रिणः सह भाढं इति आहुः । सुप्रीतः श्वो समंत्रिणः यात्रेति राजा अब्रवीत् ॥
All the Rishis along with ministers said "very good". Delighted king said they will travel on the very next day.
मंत्रिणस्तां नरेंद्रस्य रात्रिं परम सत्कृताः ।
ऊषुस्ते मुदितास्सर्वे गुणैस्सर्वै स्समन्विताः ॥
स॥नरेंद्रस्य तां मंत्रिणः परम सत्कृताः सर्वै गुणैः समन्विताः मुदिताः रात्रिं ऊषुस्ते ॥
The ministers of the King who are well accomplished and who are adorned with many good qualities spent the night happily.
||om tat sat ||