Srimad Valmiki Ramayanam
Balakanda Sarga 73
Sita Rama kalyanam !!
||om tat sat ||
बालकांड
त्रिसप्ततितमस्सर्गः
यस्मिंस्तु दिवसे राजा चक्रे गोदान मुत्तमम्।
तस्मिंस्तु दिवसे शूरो युधाजित् समुपेयवान् ॥
स॥ यस्मिन् दिवसे राजा उत्तमम् गोदानं चक्रे तस्मिन् दिवसे शूरः युधाजित् समुपेयवान् ॥
The day the king made precious donation of cows, the same day the valiant Yudhajit came to that place.
पुत्त्रः केकेयराजस्य साक्षात् भरतमातुलः।
दृष्ट्वा पृष्ट्वा तु कुशलंराजानं इदमब्रवीत्॥
केकायाधिपती राजा स्नेहात् कुशलमब्रवीत् ।
येषां कुशलकामोs सि तेषां संप्रत्यनामयम् ॥
स्वस्रीयं मम राजेंद्र द्रष्टुकामो महीपतिः ।
तदर्थमुपयातो sहम् अयोध्यां रघुनंदन ॥
स॥ (सः) केकेयराजस्य पुत्त्रः । साक्षात् भरतस्य मातुलः । राजानं दृष्ट्वा कुशलं पृष्ट्वा तु इदं अब्रवीत् ॥ हे राजा ! केकायाधिपती स्नेहात् कुशलं अब्रवीत् ।येषां कुशलकामः असि तेषां संप्रत्य नामयम् ॥ हे रघुनंदन ! हे राजेंद्र ! मम स्वस्रीयं द्रष्टुकामः । अहं तदर्थं अयोध्यायां उपयातः ॥
He is the son of the king of Kekeya and the maternal uncle of Bharata. Having enquired about the welfare he spoke as follows."O King ! the king of Kekeya enquired about your welfare. All those whose welfare you are concerned, they are all fine. O King of kings! I wanted to see my nephew and hence I was sent to Ayodhya."
श्रुत्वा त्वह मयोध्यायां विवाहार्थं तवात्मजान् ।
मिथिलां उपयातांस्तु त्वया तव महीपते ।
त्वरयाs भ्युपायातोs हं द्रष्टुकामः स्वस्सुतम् ॥
अथ राजा दशरथः प्रियातिथिमुपस्थितम् ।
दृष्ट्वा परम सत्कारैः पूजार्हं समपूजयत् ॥
ततस्तामुषितो रात्रिं सहपुत्त्रैर्महात्मभिः ॥
स॥ महीपते त्वं अयोध्यायाम् तव आत्मजान् विवाहार्थं मिथिलां उपयातांस्तु (इति) श्रुत्वा हे महीपते स्वस्सुतम् द्रष्ठुकामः अहं त्वरया अभ्युपायातः ॥ अथ राजा दशरथः प्रिय अतिथिं उपस्थितं दृष्ट्वा पूजार्हं(तं) समपूजयत् ॥ ततः पुत्रैः महात्मभिः सः तां रात्रिं उषितः ॥
"Oh King ! Hearing that you have come to Mithila from Ayodhya for performing your sons wedding and with a desire to see my nephew I too came here quickly." Then Dasaratha seeing the guest who has thus arrived, welcomed him with due respect. Then he spent the night with his sons, and the great souls with delight.
प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् ।
ऋषीं स्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥
स॥ (सः) प्रभाते पुनः उत्थाय कर्माणि कर्मवित् कृत्वा तदा ऋषीं पुरस्कृत्य यज्ञवाटं उपागमत् ॥
In the morning having completed the rites that are to be completed ( the king) came to the sacrificial hall along with all Rishis.
युक्ते मुहूर्ते विजये सर्वाभरण भूषितैः ।
भातृभिः सहितो रामः कृतकौतुक मंगळः ॥
वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ।
पितुः समीप माश्रित्य तस्थौ भ्रातृभिरावृतः।
वसिष्ठो भगवानेत्य वैदेहीमिदमब्रवीत् ॥
स॥ युक्ते विजये मुहूर्ते सर्वाभरण भूषितैः भातृभिः सहितः रामः कृतकौतुक मंगळः वसिष्ठं अपरान् महर्षीन् अपि पुरतः कृत्वा भ्रातुभिः आवृत्तः पितुः समीपं आश्रित्य तस्थौ । भगवान् वसिष्ठः वैदेहीं एत्य इदं अब्रवीत् ॥
At a suitable time Rama fully decked with jewels performed all due rites along with his brothers . Then he came and stood next to his the father along with Vasishta and other Rishis. Then Bhagavan Vasishta spoke to the King Janaka.
राजा दशरथो राजन् कृत कौतुक मंगळैः ।
पुत्त्रैः नरवरश्रेष्ठ दातारम् अभिकांक्षते ॥
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवंति हि ।
स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥
स॥ हे राजन् ! राजादशरथः नरवरश्रेष्ठ पुत्रैः कृतकौतुक मंगळैः दातारं अभिकांक्षते ॥दातृप्रतिग्रहीतुभ्यां सर्व अर्थाः प्रभवंति हि । उत्तमं वैवाह्यम् कृत्वा स्वधर्मं प्रतिपद्यस्व ॥
"O Rajan! King Dasaratha along with his sons, the best of bridegrooms, having completed all due rites is waiting for you who is the giver! It well known that only when the giver and receiver are in place all events happen. Please conduct the best of marriages and perform your duty."
इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।
प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥
कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतिष्ठते ।
स्वगृहे क्व विचारोs स्ति यथाराज्यमिदं तव ॥
कृतकौतुक सर्वस्वा वेदिमूलमुपागतः ।
मम कन्या मुनिश्रेष्ठ दीप्ता वह्निरिवार्चिषः ॥
सज्जो हं त्वत्प्रतीक्षो स्मि वेद्यामस्यां प्रतिष्ठितः ।
अविघ्नं कुरुतां राजा किमर्थ मवलंबते ॥
स॥ इति परम उदारः महात्मना वसिष्ठेन उक्तः महातेजा ( जनकः) परमधर्मवित् वाक्यं प्रत्युवाच ॥मे प्रतिहारः कः स्थितः । कस्य आज्ञा संप्रतिष्ठते । स्वगृहे क्व विचारः यथा इदं राज्यं तव अस्ति ॥ हे मुनिश्रेष्ठ ! ममकन्या दीप्ता वह्निः इवअर्चिषः कृतकौतुकसर्वस्वां वेदिमूलं उपागतः ॥ अहं सज्जः अस्यां वेद्यां प्रतिष्ठितः त्वत् प्रतीक्षः अस्मि । राजा अविघ्नं कुरुतां किमर्थम् अवलंबते ॥
Having been thus told by the most charitable sage Vasishta, the supremely radiant and all knowing Janaka replied as follows."Please consider this as your Kingdom. Who is going to stop you ? Whose orders you are waiting for? Why have uncertainty in your own house? O Best of sages ! my daughters having completed all necessary rites are waiting at the pandal. O King! Let things proceed without obstructions. Let there be no delay".
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।
प्रवेशयामास सुतान् सर्वान् ऋषिगणानपि ॥
ततो राजा विदेहानां वसिष्ठमिदमब्रवीत् ।
कारयस्व ऋषेसर्वं ऋषिभिः सह धार्मिक ।
रामस्य लोकरामस्य क्रियां वैवाहिकीं विभो ॥
स॥ तदा दशरथः जनकेन उक्तं तत् वाक्यं श्रुत्वा सर्वान् सुतान् ऋषिगणान् अपि प्रवेशयामास ॥ततः विदेहानां राजा वसिष्ठं इदम् अब्रवीत् । हे धार्मिक ऋषिभिः सह लोकरामस्य सर्वं कारयस्व ! हे विभो रामस्य वैवाहिकीं क्रियां (कारयस्व!) ॥
The king Dasaratha having heard the words of Janaka then entered along with all his sons and the legions of Rishis. Then the King of Videha spoke to venerable sage Vasishta as follows. " Oh Vibho! Perform all rites for Rama the darling of the world. Oh Great one! perform the marriage rites of Rama".
तथेत्युक्त्वातु जनकं वसिष्ठो भगवान् ऋषिः ।
विश्वामित्रं पुरस्कृत्य शतानंदं च धार्मिकम् ॥
प्रपामध्येतु विधिवत् वेदिं कृत्वा महातपाः ।
अलं चकार तां वेदिम् गंधपुष्पैस्समंततः ॥
स॥ जनकं तथास्तु इति उक्त्वाऋषिः भगवान् वसिष्ठः धार्मिकं विश्वामित्रं शतानंदं पुरस्कृत्य प्रपामध्ये विधिवत् वेदिं कृत्वा तां वेदिं गंधपुष्पैः समंततः अलं चकार ॥
Saying "so be it ", venerable Vasishta along with Viswamitra and Satananda made a marriage pandal in the center and decorated the pandal with flowers and sandal wood.
सुवर्णपालिकाभिश्च छिद्रकुंभैश्च सांकुरैः ।
अंकुराड्यैश्शरावै श्च धूपपात्रै स्सधूपकैः ॥
शंखपात्रैः स्रुवैः स्रुग्भिः पात्रैरर्घ्याभिपूरितैः ।
लाजपूर्णैश्च पात्रीभिः अक्षतैरभिसंस्कृतैः ॥
स॥ सुवर्णपालिकाभिः स अंकुरैः चिद्रकुंभैः अंकुराढ्यैः शरावैः च स धूपक धूपपात्रैः च ॥ शंखपात्रैः स्रुवैः स्रुग्भिः अर्घ्याभिपूरितैः पात्रैः लाज पूर्णैश्च पात्रैः अक्षतैः अभिसंस्कृतैः ॥
The pandal was having with Golden vessels , perforated pots with sprouts, earthen bowls with sprouts, vessels for burning lamps along with lamps , bowls in the shape of shells, the implements called Srukku and Sruva used for fire rituals, decorated pots filled with waters , vessels full of puffed grains, and filled with cleansed and sanctified yellow rice.
दर्भैस्समैस्समास्तीर्य विधिवन्मंत्रपूर्वकम् ॥
अग्निमादाय वेद्यां तु विधिमंत्र पुरस्कृतम् ।
जुहावाग्नौ महातेजा वसिष्ठो भगवान् ऋषिः ॥
स॥ मंत्रपूर्वकं समैः धर्भैः विधिवत् समास्तीर्य वेद्यां तु विधिमंत्र पुरस्कृतं अग्निं आदाय महातेजः भगवान् वसिष्ठः ऋषिः अग्नौ जुहाव ॥
The venerable sage laid out sanctified Darbha grass strands, cut to equal size on the pandal , and brought the sanctified fire. The highly radiant seer then kindled the fire in the pandal.
श्री सीताकल्याण महोत्सव घट्टः
ततस्सीतां समानीय सर्वा भरण भूषितां ।
समक्षेमग्ने संस्थाप्य राघवाभिमुखे तदा ।
अब्रवीज्जनको राजा कौसल्या नंदवर्धनम् ॥
स॥ ततः सर्व आभरण भूषितां सीताम् समानीय अग्ने समक्षे राघव अभिमुखे संस्थाप्य तदा राजा जनकः कौसल्या नंद वर्थनं अब्रवीत् ॥
Then having made Sita who is fully decked with jewels, sit in front of the fire and in front of Rama , the king Janaka spoke to Rama , the darling of Kausalya.
इयं सीता ममसुता सहधर्मचरी तव ।
प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणीना ॥
स॥ इयं ममसुता सीता तव सहधर्मचारी च एनां प्रतीच्छ । भद्रं ते । पाणिं पाणिना गृह्णीष्व ॥
"This is my daughter Sita . Accept her as your life long partner. May all be good to you. Take her hand in your hand".
पतिव्रता महाभागा छायेवानुगता सदा ।
इत्युक्त्वा प्राक्षिपद्राजा मंत्रपूतं जलं तदा ॥
स॥ महाभागा पतिव्रता सदा छाया इव अनुगता । इति उक्त्वा राजा मंत्रपूतं जलं तदा प्राक्षिपत् ||
"This blessed one is a faithful, devoted and loyal wife. She will always follow you like a shadow". Having said so he sprinkled sanctified water on them.
साधु साध्विति देवानां ऋषीणां वदतां तदा ।
देवदुंदुभि निर्घोषः पुष्पवर्षो महानभूत् ॥
स॥ देवानां ऋषीणां तदा साधु साधु इति वदतां । तदा देवदुंधुभि निर्घोषः महान् पुष्पवर्षः अभूत् ।
Then the Devas and Rishis said "Well done" ,"Well done". Then the celestial kettle drums were sounded and a great rain of flowers were showered from the skies.
एवं दत्वा तदा सीतां मंत्रोदकपुरस्कृताम् ।
अब्रवीज्जनको राजा हर्षेणाभि परिप्लुतः ॥
लक्ष्मणागच्छ भद्रंते ऊर्मिळां उद्यतां मया ।
प्रतीच्छ पाणिं गृह्णीष्व माभूत् कालस्य पर्ययः ॥
स॥ तदा मंत्रोदक पुरस्कृतां सीतां दत्वा राजा जनकः हर्षेण अभिपरिप्लुतः अब्रवीत् ॥ लक्ष्मणा आगच्छ । भद्रंते । मया ऊर्मिळाम् उद्यतां प्रतीच्च । पाणीं गृह्णीष्व । कालस्य पर्ययः माभूत् ।
Then having given away Sita with sanctified water, the highly elated king Janaka spoke as follows. " Lakshmana please come. May you be blessed. I will give Urmila. Hold her her hand. Let the moment not pass."
तमेव मुक्त्वा जनको भरतं चाभ्यभाषत ।
गृहाण पाणिं मांडव्याः पाणीन रघुनंदन ॥
शतृघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ।
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥
स॥ तं एवं उक्त्वा जनकः भरतं च अभ्यभाषत ।हे रघुनंदन मांडव्याः पाणिं पाणीना गृहाण ॥धर्मात्मा जनकेश्वरः शतृघ्नं च अपि अब्रवीत् । हे महाबाहो श्रुतकीर्त्या पाणिं पाणिना गृह्णीष्व ॥
Having said so Janaka then spoke to Bharata. "O Raghunandana Please hold the hand of Mandavi". Then Janaka spoke to Satrughna. " Oh Great one ! Hold the hand of Srutakirti "
सर्वे भवंतः सौम्याश्च सर्वे सुचरितव्रताः ।
पत्नीभिस्संतु काकुत् स्थ माभूत् कालस्य पर्ययः ॥
जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन् ।
चतारस्ते चतसॄणाम् वसिष्ठस्य मते स्थिताः ॥
स॥ हे काकुत्स्थ ! भवंतः सर्वे सौम्याः च सर्वे सुचरितव्रताः पत्नीभिः संतु। कालय पर्ययं माभूत् ॥जनकस्य वचः श्रुत्वा ते वसिष्ठस्य मते चतारः पाणीन् चतसॄणां पाणिभिः अस्पृसन् स्थिताः ॥
" O Kakutsthas ! All of you are gentle with excellent character. May you live happily with your wives. Let there be no delay". Having heard the words of Janaka which was also as per the wishes of sage Vasishta the four princes took the hands of the four princesses.
अग्निं प्रदक्षिणीकृत्या वेदिं राजानमेव च ।
ऋषींश्चैव महात्मानः स भार्या रघुसत्तमाः ॥
यथोक्तेन तदा चक्रुर्विवाहम् विधिपूर्वकम् ।
स॥ रघुसत्तमाः स भार्या अग्निं वेदिं राजानं ऋषीं च एव प्रदक्षिणी कृत्या तदा विधिपूर्वकम् यथोक्तेन विवाहं चक्रुः ॥
Then the best of Raghu's lineage along with their wives went around the celestial fire, the pandal, the king and all the Rishis. Then the marriage was performed as sanctified in Vedas.
पुष्पवृष्टिर्महत्यासीत् अंतरिक्षात् सुभास्वरा ।
दिव्य दुंदुभि निर्घोषैः गीतवादित्रनिस्वनैः ॥
ननृतु श्चाप्सरस्संघा गंधर्वाश्च जगुः कलम् ।
विवाहे रघुमुख्यानां तदद्भुत मदृश्यत ॥
स॥ अंतरिक्षात् दिव्यदुंदुभि निर्घोषैः गीतवादित्र निस्वनैः सुभास्वरा महत् पुष्पवृष्ठिः आसीत् । अप्सर संघाः च ननृतु गंधर्वाः च कलम् जगुः । रघुमुख्यानां विवाहे तत् अद्भुतं अदृश्यत ॥
From the skies the celestial drums were sounded, while the instruments were playing a great bright showers of flowers rained from the skies. The celestials danced . Gandharvas sang. The wedding of the prominent sons of Raghu dynasty was wonderful.
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ।
त्रिरग्निं परिक्रम्य ऊहूर्भार्या महौजसः ॥
स॥ ईदृशे तूर्योद्घुष्टनिनादिते वर्तमाने तु महौजसः ऊहुः भार्या त्रिरग्निं परिक्रम्य ।
Then as the instruments of music were playing the highly radiant couples went around the celestial fire three times.
अथोपकार्यां जग्मुस्ते स भार्या रघुनंदनाः ।
राजाप्यनुययौ पश्यन् सर्षिसंघस्सबांधवः ॥
स॥ अथ उपकार्यं स भार्या ते रघुनंदनाः जग्मुः । स ऋषिसंघः स बांधवः राजा अपि पश्यन् अनुययौ ।
Then the scions of Raghu dynasty along with their wives went (to their residence). The delighted King along with all Rishis followed with all his eyes on them.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये त्रिसप्ततितमस्सर्गः ॥
समाप्तं ॥
Thus ends the seventy third chapter of Balakanda.
॥ओम् तत् सत् ॥
||om tat sat ||