Srimad Valmiki Ramayanam

Balakanda Sarga 77

Rama and Sita happily married !!

||om tat sat ||

बालकांड
अंतिम सर्ग

गते रामे प्रशांतात्मा रामो दाशरथिर्धनुः ।
वरुणाय अप्रमेयाय ददौ हस्ते स सायकम् ॥
अभिवाद्य ततो रामो वसिष्ठप्रमुखान् ऋषीन् ।
पितरं विह्वलम् दृष्ट्वा प्रोवाच रघुनंदनः ॥

स॥ रामे गते प्रशांतात्मा दाशरथि रामः अप्रमेयाय वरुणाय धनुः स सायकम् हस्ते ददौ ॥ ततः रामः वसिष्ठ प्रमुखान् ऋषीन् अभिवाद्य पितरं विह्वलं दृष्ट्वा रघुनंदनः प्रोवाच ॥

After Parasurama left , Rama the son of Dasaratha handed over the bow and arrows to Varuna the powerful with a calm and composed mind. He paid obeisance to Vasishta and other Rishis and then spoke to his father who was still agitated.

जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी ।
अयोध्याभिमुखीसेना त्वयानाथेन पालिता ॥
संदिशस्व महाराज सेनां त्वच्छासने स्थिताम् ।
शासनं कांक्षते सेना चातकाळिर्जलम् यथा ॥

स॥ जामदग्न्यः रामः गतः त्वया नाथेन पालिता अयोध्याभिमुखी चतुरंगिणी सेना प्रयातु ॥हे महाराज त्वच्छासने स्थितां सेनां संदिशस्व। यथा चातकाळिः जलम् (तथा) सेना शासनं कांक्षते ॥

"O King ! Parasurama the son of Jamadagni left. The armies can move towards Ayodhya ruled by you. Please give the orders to the army. O King ! The army under your command is waiting for your orders like the chataka birds wait for water."

रामस्य वचनं श्रुत्वा राजा दशरथस्सुतम् ।
बाहुभ्यां संपरिष्वज्य मूर्थ्निचाघ्राय राघवम् ॥
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः ।
पुनर्जातं तदा मेने पुत्त्रमात्मानमेवच ॥
चोदयामास तां सेनां जगामाशु ततः पुरीम् ।

स॥ रामस्य वचनं श्रुत्वा दशरथः सुतं बाहुभ्यां संपरिष्वज्य राघवं मूर्ध्नि च आघ्राय ॥राम गतो इति श्रुत्वा प्रमुदितः हृष्टः नृपः पुत्त्रं आत्मानं एव च पुनः जातं मेने ॥ततः तां सेनां पुरीम् जगामाशु चोदयामास ॥

Hearing those words of Rama , Dasaratha embraced his son with both hands and kissed his forehead. Hearing the words that "Parasuram left", Dasaratha felt like he and his son got another life. Then he ordered the armies to move towards Ayodhya.

पताकध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम् ॥
सिक्त राजपथां रम्यां प्रकीर्णकुसुमोत्कराम् ।
राजप्रवेश सुमुखैः पौरैर्मंगळवादिभिः ॥
संपूर्णाम् प्राविशद्राजा जनौघैः समलंकृताम् ।
पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः ॥

स॥ पताक ध्वजिनीं रम्यां तूर्योद्घुष्ट निनादिताम् प्रकीर्णकुसुमोत्कराम् रम्यां सिक्त राजपथां राजप्रवेश सुमुखैः पौरैः मंगळवादिभिः जनौघैः समलंकृताम् संपूर्णाम् राजा प्राविशत् । पौरैः पुरवासिभिः द्विजैः च दूरं प्रत्युद्गतः ॥

The king entered the streets decorated with flags and banners, resounding with flourishing trumpets, strewn with flowers and filled with happy citizens and auspicious drums. Brahmins and citizen received them coming forward quite a distance.

पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः ।
प्रविवेश गृहं राजा हिमवत्सदृशं पुनः ॥
ननंद सजनो राजा गृहे कामै स्सुपूजितः ॥

स॥ राजा श्रीमान् महायशाः श्रीमद्भिः पुत्रैः अनुगतः च हिमवत्सदृशं गृहं पुनः प्रविवेश । जनः कामे ननंद स राजा गृहे सुपूजितः ॥

The king entered the palace which is as tall as Himalayan mountains along with his sons who are endowed with great fame and all riches. The king was worshipped by people who were happy and desired his happiness.

कौशल्याच सुमित्रा च कैकेयी च सुमध्यमा ।
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः ॥
ततस्सीतां महाभागां ऊर्मिळाचयशस्विनीं ।
कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः ॥

स॥ सुमध्यमा कौसल्याच सुमित्रा कैकेयी च अन्या राजयोषिताः च वधू प्रतिग्रहे युक्ता ॥ ततः महाभागाम् यशस्विनीम् सीता ऊर्मिळा च उभे कुशध्वजसुते नृपत्नयः जगृहुः॥

Beautiful Kausalya Sumitra Kaikeyi and other ladies of the palace engaged themselves in taking care of the new brides. The queens took Sita Urmila and the two daughters of Kusadhwaja inside the palace.

मंगळालापनैश्चैव शोभिताः क्षौमवासनः ।
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन् ॥
अभिवाद्यभिवाद्यांश्च सर्वा राजसुतास्तदा ।
स्वं स्वंगृहमथासाद्य कुबेरभवनोपमं ॥
गोभिर्धनैश्च धान्यैश्च तर्पयित्वा द्विजोत्तमान् ।
रेमिरे मुदिताः सर्वा भर्तृभिस्सहिता रहः ॥

स॥ (सा नृपत्नयः) मंगळालापनैश्चैव क्षौमवासनः देवतायतन अन्याशु सर्वास्ताः प्रत्यपूजयन् ॥अथ अभिवाद्यांश्च अभिवाद्य सर्वा राजसुता कुबेरभवन उपमं स्वं स्वं गृहं आसाद्य ॥ द्विजो त्तमान् गोभिः धान्यैः च तर्पयित्वा मुदिताः सर्वा भर्तृभिः सहिता रहः रेमिरे ॥

The new brides wearing silk garments worshipped all Gods in their abodes with auspicious materials. Then having paid obeisance to all those who need to be paid respects, the princesses entered their own palaces which equal the palace of Kubera. Having satisfied Brahmins with gifts of cows and wealth they enjoyed happy married life.

कुमाराश्च महात्मानो वीर्येणाप्रतिमा भुवि ।
कृतदाराः कृतास्त्राश्च सधनास्ससुहृज्जनाः ॥
शुश्रूषमाणाः पितरं वर्तयंति नरर्षभाः ।
काले कालेतु नीतिज्ञाः तोषयंतो गुरुं गुणैः ॥

स॥ महात्मानः कुमाराः च भुवि वीर्येण प्रतिमा कृतास्त्राः च स धना स सुहृज्जनः कृतदाराः॥ नरर्षभाः पितरं शुष्रूषमाणाः वर्तयंति काले कालेतु नीतिज्ञाः गुरुं गुणैः तोषयंतः ॥

The noble princes who have no equals having learnt the art of weapons , having all riches with friends relatives have become married men. Those princes who are best of men were always serving their parents. The princes who are well aware of the right conduct were always making the gurus happy with their conduct.

कस्यचित्वथ कालस्य राजा दशरथस्सुतम् ।
भरतं कैकयीपुत्त्रं अब्रवीद्रघुनंदनः ॥
अयं केकयराजस्य पुत्त्रोवसति पुत्त्रकः ।
त्वां नेतुमागतो वीर युथाजिन्मातुलस्तव ॥
प्रार्थितस्तेन धर्मज्ञ मिथिलायामहं तथा ।
ऋषिमध्येतु तस्य त्वं प्रीतिं कर्तुमिहार्हसि ॥

स॥ अथ कस्यच्त् कालस्य राजा दशरथ सुतं कैकयापुत्रं भरतं रघुनंदनः अब्रवीत् ॥ हे वीर अयं केकयराजस्य पुत्त्रः तव मातुलः युथाजित् त्वाम् नेतुं आगतः ॥ मिथिलायाम् अहं ऋषिमध्ये धर्मज्ञः तेन प्रार्थितः तस्य त्वं इह प्रीतिं कर्तुम् अर्हसि ॥

After some time has passed Dasaratha spoke to Bharata the son of Kaikeyi. He told him the following." Oh Valiant one ! The Kekeya prince Yudhajit, who is your maternal uncle came here to take you. At Mithila in the middle of the congregation of Rishis I have been requested by him who is knowledgeable of Dharma. You are the best one to make him feel happy".

श्रुत्वादशरथस्यैतत् भरतः कैकयासुतः |
अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम्।
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा ॥
अपृच्छ्य पितरं शूरो रामं च क्लिष्टकारिणम् ।
मातॄश्चापि नरश्रेष्ठः शतृघ्नसहितौ ययौ ॥

स॥ एतत् श्रुत्वा भरतः दशरथस्य कैकयासुतः गुरुं अभिवाद्य रामं लक्ष्मणं परिष्वज्य शत्रुघ्नसहितः तदा गमनाय अभिचक्राम॥ नरश्रेष्ठः पितरं क्लिष्ठकारिणम् रामं मातॄश्चापि अपृच्छ शतृघ्नसहितौ ययौ ।

Having heard this , Bharata the son of Kaikeya having paid obeisance to Gurus embracing Rama and Lakshmana got ready to go. That best of men having taken permission from his father as well as his mothers and Rama who can accomplish most difficult things got ready to go along with ( his brother) Satrughna.

गतेतु भरते रामो लक्ष्मणश्च महाबलः ।
पितरं देवसंकाशं पूजमासतुस्तदा ॥
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः ।
चकार रामो धर्मात्मा प्रियाणि च हितानि च ॥
मातृभ्यो मातृकार्याणि कृत्वा परमयंत्रितः।
गुरूणां गुरुकार्याणि काले कालेsन्ववैक्षत॥

स॥ भरते गतेतु रामः महाबलः लक्ष्मणश्च देवसंकाशं पितरं तदा पूजयामास ॥पितुः आज्ञां पुरस्कृत्य रामः धर्मात्मा सर्वशः प्रियाणि च हितानि च पौरकार्याणि चकार ॥मातृभ्यो मातृकार्याणि गुरूणां गुरुकार्याणि परम यंत्रितः कृत्वा काले काले अन्ववैक्षत ॥

After Bharata left ( along with his uncle) , Rama who is most powerful along with Lakshmana continued to serve their parents who are like Gods. As ordered by his father Rama who always follows the path of righteousness was attending to the needs of citizen doing the right and pleasing things. They were also performing those things that are needed by mothers as well as Gurus.

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तदा ।
रामस्य शीलवृत्तेन सर्वे विषयवासिनः ॥
तेषामतियशा लोके रामस्सत्यपराक्रमः ।
स्वयंभूरिव भूतानां बभूव गुणवत्तरः ॥

स॥ रामस्य शीलवृत्तेन दशरथः प्रीतः । एवं ब्राह्मणाः नैगमाः तदा सर्वे विषयवासिनः ॥ रामः सत्यपराक्रमः अतिशया लोके भूतानां स्वयंभूः इव गुणवत्तरः बभूव ॥

Dasaratha was delighted with the actions of Rama. Similarly Brahmins and others too were delighted. Rama with all his desirable qualities became the one loved by all very much like Brahma himself.

रामस्तु सीतया सार्थं विजहार बहून् ऋतून् ।
मनस्वी तद्गतस्तस्य नित्यं हृदि समर्पितः ॥
प्रियातु सीता रामस्य दाराः पितृकृता इति।
गुणाद्रूपगुणच्छापि प्रीतिर्भूयोsभ्यवर्धत ॥

स॥ रामः तु सीताया मनस्वी तद्गतः तस्य हृदि नित्यं समर्पितः सार्थं बहून् ऋतून् विजहार ॥रामस्य पितृकृता दाराः प्रियातु इति । गुणात् रूपगुणाश्चापि सीता प्रीतिर्भूयो अभ्यवर्तत ॥

Rama became embedded on the mind of Sita, and her heart was fully immersed in Rama. Thus they spent several seasons together. Having been made a partner by her father she became the object of love for Rama. She ( Sita) with her many qualities and her beauty became the object of Rama's love.

तस्याश्च भर्ता द्विगुणम् हृदये परिवर्तते ।
अंतर्जातमपि व्यक्तं अख्याति हृदयं हृदा ॥
तस्यभूयो विशेषेण मैथिली जनकात्मजा ।
देवताभिस्समा रूपे सीता श्रीरिव रूपिणः ॥

स॥ तस्याश्च अंतर्जातमपि अख्याति हृदयं हृदा भर्तात् द्विगुणं हृदये परिवर्तते ॥विशेषेण मैथिली जनकात्मजा सीता रूपे देवताभिः समा रूपिणः श्रीः इव तस्य भूयो ॥

Her love for Rama doubled . Knowing each other's heart they were acting to please the other . The princess of Mithila who is like a goddess , specifically like Lakshmi in the form of Janaka's daughter, became Rama's (consort) in all respects.

तया स राजर्षिसुतोs भिरामया
समेयिवानुत्तमराजकन्यया ।
अतीव रामः शुशुभेति कामया
विभुश्श्रिया विष्णुरिवामरेश्वरः ॥

स॥ राजर्षि सुतः रामः उत्तमराजकन्यया श्रिया अमरेश्वरः विभुः विष्णुः इव शुशुभेति अतीव कामया समेयिवा ॥

Like the union of Lakshmi with Vishnu the lord of Gods , Rama the son of a Rajarshi in his union with Sita the best of princesses, was happy and shining with all wealth

इत्यार्षे श्रीमद्रामायणेवाल्मीकीये आदिकाव्ये बालकांडे सप्तसप्ततिमस्सर्गः॥

Thus ends the seventy seventh Sarga of Balakanda in Valmiki Ramayan.
Thus also ends Balakanda in Valmiki Ramayan.

|| om tat sat॥