Bhagavadgita !

Chapter 10 Slokas

Vibhuti Yoga !

ओम्

श्रीभगवद्गीत
दशमोध्याध्यायः
विभूति योगः

श्रीभगवानुवाच:

भूय एव महाबाहो श्रुणुमे परमं वचः।
यत्तेsहं प्रीयमाणाय वक्ष्यामि हितकाम्यया॥1||

स॥ हे महाबाहो ! प्रीयमाणाय ते हितकाम्यया भूयः एव यत् परमं वचः अहं वक्ष्यामि ( तत् वचः) शृणु॥

न मे विदुः सुरगणाः प्रभवं न महर्षयः।
अहमादिर्हि देवानां महर्षीणां च सर्वशः॥2||

स॥मे प्रभवम् ( प्रभावं अपि) सुरगणाः न विदुः। महर्षयः न। अहं देवानाम् महर्षीणां च सर्वशः आदिः हि ॥

यो मामजमनादिं च वेत्ति लोकमहेश्वरम्।
असम्मूढस्य मर्त्येषु सर्वपापैः प्रमुच्यते॥3||

स॥ यः मां अजं अनादिंच लोकमहेश्वरं ( च) वेत्ति सः मर्त्येषु असम्मूढः सर्वपापैः प्रमुच्यते॥

बुद्धिर्‍ज्ञानमसम्मोहः क्षमा सत्यं दमश्शमः।
सुखं दुःखं भवोsभावो भयं च अभयमेव च॥4||
अहिंसा समता तुष्टिः तपो दानं यशोsयशः।
भवन्ति भावा भूतानां मत्तएव पृथग्विधाः॥5||

बुद्धिः ज्ञानं असम्मोहः क्षमा सत्यं दमः शमः सुखं दुःखं भवः अभावः भयं च अभयं एव च अहिंसा समता तुष्टिः तपः दानं यशः अयशः भूतानां पृथक्विधाः ( नानाविथाः) भावाः मत्त एव भवन्ति ॥

महर्षयस्सप्त पूर्वे चत्वारो मनवस्तथा।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥6||

स॥ लोके इमाः प्रजाः येषां ( संततिः) । पूर्वे सप्त महर्षयः तथा चत्वारः( सनकादयः) मनवः (ते) मद्भावाः मानसा जाताः॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः।
सोsविकम्पेन योगेन युज्यते नात्र संशयः॥7||

स॥मम एतां विभूतिं योगं च यः वेत्ति सः अविकंपेन योगेन युज्यते । अत्र अंशयः नास्ति ॥

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः॥8||

स॥ अहं सर्वस्य प्रभवः । मत्तः सर्वं प्रवर्तते इति मत्वा बुधाः भाव समन्विताः माम् भजन्ते॥

मच्च्त्तित्ता मद्गताप्राणा बोधयन्तः परस्परम्।
कथयन्तश्च मां नित्यं तुष्यन्ति च् रमन्ति च॥9||

स॥ ते मच्चित्ता मद्गतप्राणाः माम् परस्परं बोधयन्तः कथयन्तः च नित्यं त्तुष्यंति रमन्ति च ॥

तेषां सततयुक्तानां भजतां प्रीति पूर्वकम्।
ददामि बुद्धि योगं तं येन मामुपायान्ति ते॥10||

स॥ सतयुक्तानां प्रीतिपूर्वकम् ( मां) भजतां तेषां येन ते माम् उपयान्ति तं बुद्धियोगम् ददामि॥

तेषामेवानुकंपार्थ महमज्ञानजं तमः।
नाशयाम्यात्मभावस्थो ज्ञान दीपेन भास्वता॥11||

स॥ तेषां अनुकंपार्थम् अहमेव आत्मभावस्थः भास्वता ज्ञानदीपेन अज्ञानजं तमः नासयामि॥

अर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शास्वतं दिव्यमादि देवमजं विभुम्॥12||
अहुस्त्वां ऋषयस्सर्वे देवर्षिर्नारदस्तथा।
असितो देवलो व्यासस्स्वयं चैव ब्रवीषि मे॥13||

स॥ भवान् परब्रह्म परंधाम परमं पवित्रं त्वाम् शाश्वतं दिव्यं पुरुषं आदिदेवं अजं विभुं सर्वे ऋषयः देवर्षिः नारदः असितः देवलः व्यासः आहुः। स्वयं च तथा ऎव मे ब्रवीषि॥

सर्वमेतदृतं मन्ये यन्मां वदसि केशव।
न हि ते भगवन् व्यक्तिं विदुर्देवा न दानवाः॥14||

स॥हे केशवा! यत् माम् वदसि एतत सर्वं ऋतम् ( सत्यं) मन्ये। भगवन् ते व्यक्तिं देवाः न विदुः । दानवाः च न हि ( विदुः)॥

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम।
भूत भावन भूतेश देवदेव जगत्पते॥15||

स॥ पुरुषोत्तमा ! भूतभावन भूतेश देव देव जगत्पते त्वं आत्मानं आत्मना स्वयं एव वेत्थ ॥

वक्तुमर्हस्यशेषेण दिव्याह्यात्म विभूतयः।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि॥16||

स॥ हि याभिः विभूतिः त्वं इमान् लोकान् व्याप्य तिष्टसि (तान्) दिव्याः विभूतयः अशेषेण वक्तुं अर्हसि ॥

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन्।
केशु केषु च भावेषु चिन्त्योsसि भगवन्मया॥17||

स॥ योगिन् ! अहं सदा कथं परिचिन्तयन् त्वां विद्यां ? भगवन् केषु केषु भावेषु च चिन्त्यः अपि॥

विस्तरेणात्मनो योगं विभूतिं च जनार्दन।
भूयं कथय तृप्तिर्हि श्रुण्वतो नास्ति मेsमृतम्॥18||

स॥ हे जनार्दन ! आत्मनः योगं विभूतिं च विस्तरेण भूयः कथय । ही अमृतं शृण्वतः मे तृप्तिः नास्ति॥

श्री भगवानुवाच॥

हन्त ते कथयिष्यामि दिव्याः आत्म विभूतयः।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे॥19||

स॥कुरुश्रेष्ठ! हन्त दिव्याः आत्म विभूतयः प्राधान्यतः कथयिष्यामि ! हि मे (विभूति)विस्तरस्य अन्तः नास्ति॥

अहमात्मा गुडाकेश सर्वभूताशयस्थितः।
अहमादिश्च मध्यं च भूतानामन्त एव च॥20||

स॥ गुडाकेश! सर्वभूताशयस्थितः आत्मा अहं एव। भूतानां आदिः च मध्यं च अन्तः एव च हं अस्मि॥

अदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्।
मरीचिर्मरुतामस्मि नक्षत्राणांमहं शशी॥21||

स॥ अहम् अदित्यानां विष्णुः । ज्योतिषां अंशुमान् रविः। मरुताम् मरीचिः।अहं नक्षत्राणां शशी।

वेदानां सामवेदोस्मि देवानामस्मि वासवः।
इन्द्रियाणां मनश्चास्मि भूतानमपि चेतना॥22||

स॥ वेदानां सामवेदः अस्मि। देवानां वसवः अस्मि। इन्द्रियाणां मनः च। भूतानां चेतना अस्मि॥

रुद्राणां शंकरश्चास्मि मेरुश्शिखरिणामहम्।
वुसूनां पावकश्चास्मि मेरुश्शिखरिणामहम्॥ 23||

स॥ (अहं) रुद्राणां शंकरः अस्मि। यक्षरक्षसाम् वित्तेशः । वसूनांपावकः च। शिखरिणाम् मेरुः अस्मि॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्॥
सेनानीमहं स्कन्दः सरसामस्मि सागरः॥24||

स॥ हे अर्जुना! पुरोधसां मुख्यं बृहस्पतिं च माम् विद्थि। अहं सेनानीनां स्कन्धः । सरसां सागरः अस्मि॥

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम्।
यज्ञानां जपयज्ञोस्मि स्थावराणां हिमालयः॥25||

स॥ महर्षीणां अहं भृगुः अस्मि। गिरां एकं अक्षरम् अस्मि। यज्ञानां जप यज्ञः अस्मि । स्थावराणां हिमालयः अस्मि।

अश्वत्थः सर्व वृक्षणां देवर्षीणां च नारदः।
गंधर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥26||

स॥ अहं सर्ववृक्षाणां अश्वत्थः देवर्षीणां नारदः गंधर्वाणां चित्ररथः सिद्धानां कपिलः मुनिः ॥

उच्छैश्श्रवसमश्वानां विद्धि माममृतोद्भवम्।
इरावतं गजेंद्राणां नराणां च नराधिपम्॥27||

स॥ अश्वानां अमृतोद्भवम्‌उच्छैश्रवसम् । गजेंद्राणां इरावतम्।नराणां नराधिपम् मां विद्थि॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक्।
प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः॥28||

स॥ अहम् आयुधानां वज्रं धेनूनां कामधुक् अस्मि। प्रजनः कंदर्प च अस्मि । सर्पाणां वासुकिः अस्मि॥

अनन्ताश्चास्मि नागानां वरुनो यादसामहम्।
पितॄणामर्यमा चास्मि यमस्संयमतामहम्॥29||

स॥अहम् नागानां अनन्तः च अस्मि । यादसाम् वरुणः पित्रूणां आर्यमाच अस्मि। अहं संयमतां यमः॥

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम्।
मृगाणां च मृगेंद्रोsहम् वैनतेयश्च पक्षिणाम्॥30||

स॥ अहं दैत्यानां प्रह्लादश्चास्मि ।कलयतां कालः मृगाणांच मृगेंद्रः पक्षीणां वैनतेयः च अस्मि॥

पवनः पवतामस्मि रामश्शस्त्रभृतामहम्।
झुषाणां मकरश्चास्मि श्रोतसामस्मि जाह्नवी॥31||

स॥ अहं पवताम् पवनः अस्मि। शस्त्रभृतां रामः। झुषाणां मकरः च अस्मि । स्रोतसां जाह्नवी अस्मि॥

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन।
अध्यात्म विद्या विद्यानां वादः प्रवदतामहम्॥32||

स॥ हे अर्जुना ! सर्गाणां आदिः मध्यं च अन्तः च अहमेव ।विद्यानां अध्यात्मविद्या प्रवदतां वादः अहं अस्मि॥

अक्षराणामकारोsस्मि द्वन्द्वः सामासिकस्य च।
अहमेवाक्षयः कालो धताहं विश्वतो मुखः॥33||

स॥ अक्षराणां अकारः अस्मि। सामसिकस्य च द्वंद्वः च । अक्षयः कालः अहं एव च । विश्वतोमुखः धाता अस्मि।

मृत्युस्सर्वहरश्चां उद्भवश्च भविष्यताम्।
कीर्तिश्श्रीर्वाक्य नारीणां स्मृतिर्मेधा धृतिः क्षमा॥34||

स॥ सर्व हरः मृत्युः च भविष्यतां उद्भवः च हं अस्मि। नारीणां कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमाच अहमेव।

बृहत्साम तथा साम्नां गायत्री छंदसामहम्।
मासानां मार्गसीर्षोsहं ऋतूनां कुशुमाकरः॥35||

स॥ तथा अहं साम्नां बृहत्साम चंदासां गायत्रि मासानां मार्गसशीर्षः ऋतूनां कुसुमाकरः अस्मि ॥

द्यूतं छलयतामस्मि तेजतेजस्विनामहम् ।
जयोsस्मि व्यवसायोsस्मि सत्त्वं सत्त्ववतामहम्॥36||

स॥ अहं छलयतां द्यूतं अस्मि। तेजस्विनां तेजः अस्मि। जयः अस्मि। व्यवसायः अस्मि। अहं सत्त्ववतां सत्त्वम् अस्मि॥

वृष्णीनां वासुदेवोsस्मि पाण्डवानां धनंजयः।
मुनीनामप्यहं व्यासः कवीनामुशना कविः॥37||

स॥अहं वृष्णीनां वासुदेवः। पाण्डवानां धनंजयः मुनीनां अपि व्यासः।कवीनाम् उसनाकविः अस्मि ॥

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम्।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥38||

स॥ अहं दमयतां दण्डः अस्मि।जिगीषतां नीतिः अस्मि।गुह्यानां मौनं अस्मि। ज्ञानवतां ज्ञानं अस्मि।

यच्चापि सर्वभूतानां बीजं तदहमर्जुन।
न तदस्ति विना यत्स्यान्मया भूतं चराचरम्॥39||

स॥ अर्जुना!सर्वभूतानां यत् बीजं तत् अपि च अहं अस्मि । चराचरं भूतं यत् स्यात् तत् मया विना नास्ति॥

नान्तोsस्ति मम दिव्यानां विभूतिनां परन्तप।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया॥40||

स॥ हे परन्तप! मम दिव्यानाम् विभूतीनां अन्तः न अस्ति । तु एषः विभूतेः विस्तरः उद्देशतः मया प्रोक्तः॥

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।
तत्तदेवावगच्च त्वं ममतेजोsंश संभवम्॥41||

स॥विभूतिमत् श्रीमत् ऊर्जितं एव वा सत्त्वं यत् यत् तत् तत् मम तेजोंश संभवम् एव । (इदं) त्वं अवगच्छ ।

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन।
विष्टभ्याहमिदं कृत्स्न मेकांशेन स्थितो जगत्॥42||

स॥ अर्जुना ! अथवा बहुना एतेन ज्ञातेन तव किम्? अहं इदं कृत्स्नम् जगत् एकांशेन विष्टभ्य स्थितः॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विभूतियोगोनाम
दशमोsध्यायः
ओं तत् सत्


|| om tat sat ||