Bhagavadgita !

Chapter 11 Slokas - in Devenagari

Vswarupa Samdarsana Yoga !

ओम्
श्रीमद्भगवद्गीत
विश्वरूपसंदर्शनयोगः
एकादशोध्यायः

अर्जुन उवाच:
मदनुग्रहाय परमं गुह्यमध्यात्म संज्ञितम्।
यत्वयोक्तं वचस्तेन मोहोsयं विगतो मम॥1||

स॥ मदनुग्रहाय परमं गुह्यं अध्यात्म संज्ञितम् यत् वचः त्वया उक्तं तेन अयं मोहः विगतः॥

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशोमया।
तत्त्वः कमलपत्राक्ष महात्म्यमपि चाव्ययम्॥2||

स॥ हि कमलपत्राक्ष ! त्वत्तः भूतानां भव अप्ययौ विस्तरशः मया श्रुतौ । अव्ययं ( नाश रहित ते ) महात्म्यं अपि च ( मया) श्रुतं॥

एवमेतद्यथाssत्थ त्वमात्मानं परमेश्वर।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम॥3||

स॥हे परमेश्वर! त्वं आत्मानं यथा अत्थ (अकथितम्) ऎवं एतत् ( इति मम विश्वासं)। हे पुरुषोत्तम ! ते इश्वरं रूपम् द्रष्टुं इच्चामि॥

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो।
योगेश्वर ततो मे त्वं दर्शयात्मान मव्ययम्॥4||

स॥हे प्रभो! तत् ( ते इश्वरं रूपम् ) मया द्रष्टुं शक्यं इति मन्यसे ततः हे योगेश्वर ! त्वं अव्ययम् ( नाशरहित) आत्मानम् मे दर्शय॥

श्रीभगवानुवाच

पश्यमे पार्थ रूपाणि शतशोsथ सहस्रशः।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च॥ 5||

स॥हे पार्थ ! नानाविधानि दिव्यानि नानावर्णाकृतीनि च शतशः अथ सहश्रसः मे रूपाणि पश्य॥

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा।
बहन्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत॥6||

स॥हे भारत! अदित्यान् वसून्, रुद्रान् ,अश्विनौ मरुतः पश्य । तथा अदृष्टपूर्वाणि बहूनि आश्चर्याणि पश्य।

इहैकस्थं जगत्कृत्स्नं पश्याद्य स चराचरं।
ममदेहे गुडाकेश यच्चान्यद्रष्टुमिच्चसि॥7||

स॥ हे गुडाकेश! सचराचरम् कृत्स्नं जगत् मम इह देहे एकस्थं अद्य पश्य । अन्यत् यत् द्रष्टुम् इच्छसि (तत् ) च (मम इह देहे एकस्थमद्य पश्य) ।

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुसा।
दिव्यं ददामि ते चक्षुः पश्यमे योगमैश्वरम्॥8||

स॥ अनेन स्वचक्षुसा एवतु मां द्रष्टुम् न शक्यसे। ते दिव्यं चक्षुः ददामि । इश्वरम् मे योगम् पश्य॥

संजय उवाच:

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः।
दर्शयामास पार्थाय परमं रूपमैश्वरम्॥9||

स॥ हे राजन् ! महायोगेश्वरः हरिः एवम् उक्त्वा पार्थाय परमम् इश्वरम् रूपम् दर्शयामास॥

अनेकवक्त्रनयनं अनेकाद्भुतदर्शनम्।
अनेक दिव्याभरणं दिव्यानेकोद्यतायुथम्॥10||
दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनम्।
सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम्॥11||

स॥ (भगवान् हरिः) अनेक वक्त्र नयनं अनेकाद्भुत दर्शनं अनेक दिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमालांबधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवम् अनन्तम् विश्वतोमुखम् (दर्शयामास)॥

दिविसूर्य सहस्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥12||

स॥ दिवि सूर्य सहस्रस्य भाः युगपत् यदि उत्थिता भवेत् सा तस्यमहात्मनः भासः सादृशी स्यात्॥

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा।
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा॥13||

स॥ तदा पाण्डवः ( अर्जुनः) अनेकथा प्रविभक्तम् कृत्स्नं जगत् देव देवस्य शरीरे एकस्थम् अपश्यत्॥

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः।
प्रणम्य शिरसा देवं कृतांजलिरभाषत॥14||

स॥ ततः सः धनंजयः विस्मयाविष्ठः हृष्टरोमा देवम् शिरसा प्रणम्य कृतांजलिः अभाषत।

अर्जुन उवाच:

पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसंज्ञान्।
ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वानुरगांश्च दिव्यान्॥15||

स॥ देवा तव देहे सर्वान् देवान् तथा भूतविशेष संघान् ( पश्यामि) कमलासनस्थं ईशं ब्रह्मणम् ( पश्यामि) सर्वान् ऋषीन् च दिव्यानुरगान् च पश्यामि॥

अनेक बाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोsनन्तरूपम्।
नान्तं न मध्यं नपुनस्तवादिम्
पश्यामि विश्वेश्वर विश्वरूप॥16||

स॥ हे विश्वेश्वर! विश्वरूप! अनेकबाहूदरवक्त्रनेत्रम् अनन्त रूपम् त्वाम् सर्वतः पश्यामि । पुनः तव आदिम् नपश्यामि । मध्यं न ( पश्यामि) । अन्तम् तु न (पश्यामि)॥

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमंतम्।
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता
दीप्तानलार्कद्युति मप्रमेयम्॥17||

स॥ त्वाम् समन्तात् ( सर्वतः) किरीटिनम् गदिनम् चक्रिणम् च तेजोराशिम् सर्वतः दीप्तिमंतम् दीप्तानलार्कद्युतिम् अप्रमेयं पश्यामि॥

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम्।
त्वा व्ययश्शाश्वत धर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे॥18||

स॥ त्वम् वेदितव्यं परमं अक्षरम् ( परब्रह्मं) । त्वं अस्य विश्वस्य परं निधानम् ( अधारभूतः) । त्वं अव्ययः ( नाशरहितः) । (त्वं) शाश्वत धर्मगोप्ता। त्वं सनातनः पुरुषः इति मे मतिः॥

अनादि मध्यान्तमनन्तवीर्य
मनन्तबाहुं शशिसूर्यनेत्रम्।
पश्यामित्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम्॥19||

स॥ अनादि मध्यान्तं (त्वां पश्यामि) अनन्त वीर्यं (त्वां पश्यामि) अनन्तबाहुं (त्वां पश्यामि) शशि सूर्य नेत्रम् (त्वां पश्यामि) दीप्तहुताशवक्त्रम् ( त्वां पश्यामि ) स्वतेजसा इदं विश्वम् तपन्तम् त्वाम् पश्यामि॥

द्यावापृथिव्योरिदमन्तरम् हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः।
दृष्ट्वाद्भुतं रूपमुग्रं तवेदम्
लोकत्रयं प्रव्यथितं महात्मन्॥20||

स॥हे महात्मन् ! द्यावापृथिव्योः इदं अन्तरम् सर्वाः दिशाः च त्वया एकेन व्याप्तं हि। उग्रं अद्भुतं इदं रूपम् दृष्ट्वा लोकत्रयम् प्रव्यधितम् ॥

अमीहि त्वां सुरसंघा विशन्ति
केचित्भीताः प्रांजलयो गृणन्ति।
स्वस्तीत्युक्त्वा महर्षि सिद्धिसंघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः॥21||

स॥ अमी सुरसंघाः त्वाम् विशन्ति ह ( प्रविशन्ति ह) । केचित् भीताः प्रांजलयः ( कृतांजलिः) गृणन्ति । महर्षि सिद्धसंघाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वां स्तुवन्ति ॥

रुद्रातित्य वसवो ये च साध्या
विश्वेsश्विनौ मरुतश्चोष्मपाश्च।
गन्धर्वयक्षासुरसिद्धसंघा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे॥22||

स॥ रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ गंधर्वयक्षासुरसिद्धसंघाः (ये) च सर्वे एव विस्मिताः त्वां वीक्ष्यन्ते॥

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम्।
बहूदरं बहुदंष्ट्राकरालम्
दृष्ट्वा लोकाः प्रव्यधिता स्तथाsहम्॥23||

स॥ हे महाबाहो! बहुवक्त्रनेत्रम् बहुबाहूरुपादम् बहूदरम् बहुदंष्ट्राकरालम् ते महत् रूपम् दृष्ट्वा लोकाः प्रव्यधिताः । तथा अहं च प्रव्यधितः॥

नभः स्पृशम् दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम्।
दृष्ट्वा हि त्वां प्रव्यधितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो॥24||

स॥ हे विष्णो! नभः स्पृसं दीप्तं अनेकवर्णम् व्यात्ताननम् दीप्तवीशालनेत्रम् त्वां दृष्ट्वा प्रव्यधितान्तरात्मा अहं धृतिं शमं च न विन्दामि॥

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानल सन्निभानि।
दिशो न जाने न लभे च शर्म
प्रशीद देवेश जगन्निवास॥25||

स॥दंष्ट्राकरालानि कालानलसन्निभानिच ते मुखानि दृष्ट्वा दिशः न जाने । शर्म च न एव लभे ।देवेश प्रसीद॥

अमीच त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनि पालसंघैः।
भीष्मद्रोणस्सूत पुत्र स्तथाsसौ
सहस्मदीयैरपि योधमुख्यैः॥26||
वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानिकानि।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्नितैरुत्तमांगैः॥27||

स॥ अमी धृतराष्ट्रस्य पुत्राः सर्वे भीष्मः द्रोणः असौ सूतपुत्रः अवनिपालसंघैः सह एव तथा अस्मदीयैः योधमुख्यैः अपि त्वां त्वरमानाः दंष्ट्राकरालानि भयानकानि मुखानि प्रविशन्ति। केचित् दशनान्तरेषु विलग्नाः चूर्णितैः उत्तमांगैः संदृश्यन्ते॥

यथानदीनां बहवोsम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति।
तथा त्वामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति॥28||

स॥यथा नदीनां बहवः अंबु वेगाः समुद्रं एव अभिमुखाः द्रवन्ति तथा अमी नरलोक वीराः तव ( मुखे) वक्त्राणि विशन्ति (प्रविशंति) ॥

यथा प्रदीप्तं ज्वलनंपतंगा
विशन्ति नाशाय समृद्धवेगाः।
तथैव नाशाय विशन्ति लोका
स्तवापि वक्त्राणि समृद्दवेगाः॥29||

स॥यथा पतंगाः नाशाय समृद्धवेगाः प्रदीप्तम् ज्वलनम् विशन्ति तथा एव लोकाः अपि समृद्धवेगाः नाशाय तव वक्त्राणि विशन्ति ( प्रविशन्ति)॥

लेलिह्यसे ग्रसमानस्समन्ता
ल्लोकान् समग्रान् वदनैर्ज्वलद्भिः।
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो॥30||

स॥ हे विष्णो ! वदनैः समग्रान् लोकान् समन्तात् ग्रसमानः लेलिह्यसे । तव उग्राः भासः तेजोभिः समग्रं जगत् आपूर्य प्रतपन्ति ।

अख्याहि मे को भवानुग्र रूपो
नमोsस्तु ते देववर प्रसीद।
विज्ञातु मिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम्॥31||

स॥ देव वर! प्रशीद । उग्ररूपः भवान् कः । मे अख्याहि । हि तवप्रवृत्तिम् न जानामि। आद्यं भवन्तम् विज्ञातुम् इच्छामि । ते नमः ॥

श्री भगवानुवाच।

कालोsस्मि लोकक्षयकृत्प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः।
ऋतेsपि त्वा न भवष्यन्ति सर्वे
येsवस्थिताः प्रत्यनीकेषु योधाः॥32||

स॥ ( अहम्) लोक क्षयकृत् प्रवृद्धः कालोस्मि। लोकान् समाहर्तुं इह प्रवृत्तः । प्रत्यनीकेषु ये योधाः अवस्थिताः (ते) सर्वे त्वा ऋतेपि न भविष्यन्ति ॥

तस्मात्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुंक्ष्व राज्यं समृद्धम्।
मयैवेते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन्॥33||

स॥ तस्मात् त्वं उत्तिष्ठ । शत्रून् जित्वा यशः लभस्व ।समृद्धं राज्यं भुज्ञ्ख्व। एते मया ऎव पूर्वं एव निहताः । हे सव्यसाचिन् (त्वं) निमित्तमात्रं भव।

द्रोणं च भीष्मं च जयद्रथं च
कर्णम् तथाsनान्यपि योधवीरान्।
मयाहतां स्त्वं जहि माव्यधिष्ठा
युध्यस्व जेतासि रणे सपत्नान्॥34||

स॥मया हतान् द्रोणं च भीष्मं च जयद्रथं च कर्णम् तथा अन्यान् योधवीरान् अपि त्वं जहि । माव्यधिष्टाः । युध्यस्व । रणे सपत्नान् जेतासि॥

संजय उवाच

एतच्छ्रुत्वावचनं केशवस्य
कृतांजलिर्वेपमानः किरीटी।
नमस्कृत्वा भूययेवाह कृष्णं
सगद्गदं भीत भीतः प्रणम्य॥35||

स॥ किरीटी केशवस्य एतत् वचनं श्रुत्वा वेपमानः कृतांजलिः कृष्णं नमस्कृत्वा भीत भीतः प्रणम्य सगद्गदम् भूय एव (इदं) आह ॥

अर्जुन उवाच:

स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः॥36||

स॥ हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति । अनुरज्यते च। रक्षांसि भीतानि दिशः द्रवन्ति । सर्वे सिद्धसंघाः नमस्यन्ति च । (एतानि) स्थाने ॥

कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोsप्यादिकर्त्रे।
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसतत्परं यत्॥37||

स॥ महात्मन् ! अनन्त ( रूपा) देवेश जगन्निवास सत् असत् च यत् ( अस्ति) तत्परम् अक्षरम् ( ब्रह्मम्) त्वं असि । ब्रह्मणः अपि आदि कर्त्रे ( तथैव) गरीयसे । ते कस्मात् न नमेरन्॥

त्वामादि देवः पुरुषः पुराण
स्त्वमस्य विश्वस्य परं निधानम्।
वेत्ताsसि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्त रूप॥38||

स॥ हे अनन्त रूप त्वं आदि देवः । त्वं पुराणपुरुषः । अस्य विश्वस्य परं निधानम् । वेत्ता च । वेद्यं च ।परंधाम च असि । त्वया एतत् विश्वम् ततम्॥

वायुर्यमोग्निर्वरुणः शशांकः
प्रजापतिस्त्वं प्रपितामहश्च।
नमो नमस्तेsस्तु सहस्रकृत्यः
पुनश्च भूयो sपि नमो नमस्ते॥39||

स॥ वायुः यमः अग्निः वरुणः शशांकः प्रजापतिः प्रपितामहः त्वं असि । ते सहसकृत्यः नमोनमः अस्तु। ते पुनः च नमः। । भूयः अपि नमः॥

नमो पुरस्तादथ पृष्टतस्ते
नमोsस्तु ते सर्वत एव सर्व।
अनन्तवीर्या मितमिक्रमस्त्वम्
सर्वं समाप्नोषि ततोsसि सर्वः॥40||

स॥ सर्व पुरस्तात् पृष्ठतः नमः अस्तु । (त्वं) अनन्तवीर्यामितविक्रमः। त्वं सर्वं समप्नोषि । ततः सर्वः असि॥

सखेति मत्वा प्रसभं यदुक्तम्
हे कृष्ण हे यदव हे सखेति।
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि॥41|

यच्चापहासार्थमसत्कृतोsसि
विहारशय्यासनभोजनेषु।
एकोsथवाप्यच्युत तत्समक्षं
तत्‍क्षामये त्वामहमप्रमेयम्॥42||

स॥ हे अच्युत ! तव इदं महिमानम् अजानता मया प्रमादात् प्रणयेन वा अपि सखा इति मत्वा हे कृष्ण हे यादव हे सखा इति प्रसभम् यत् उक्तं विहारशय्यासनभोजनेषु एकः अथवा तत समक्षं अपि अपहासार्थम् असत्कृतः असि । यत् च तत् अप्रमेयम् त्वां अहं क्षामये॥

पिताsसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोsस्त्यभ्यद्धिकः कुतोsन्यो
लोकत्रयेsप्यप्रतिमप्रभाव॥43||

स॥ अप्रतिमप्रभाव त्वं चराचरस्य अस्य लोकस्य पिता असि। पूज्यः च । गरीयान् गुरुः असि।लोकत्रये अपि त्वत् समः न अस्ति। अभ्यधिकः अन्यः कुतः।

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीश मीड्यम्।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्॥44||

स॥ तस्मात् कायं प्रणिधाय प्रणम्य त्वां ईशम् ईढ्यं प्रसादये। देव देवा पुत्रस्य ( अपराधाः) पिता इव सख्युः सखा इव प्रियायाः प्रियः इव ( मे अपराधं) सोढुं अर्हसि॥

अदृष्ट पूर्वं हृषितोsस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे।
तदेव मे दर्शय देव रूपं
प्रशीद देवेश जगन्निवास॥45||

स॥ अदृष्ट पूर्वं दृष्ट्वा हृषितः अस्मि। मे मनः च भयेन प्रव्यधितं। हे देव ! जगन्निवास प्रसीद॥

किरीटिनं गदिनं चक्रहस्त
मिच्छामित्वां द्रष्टुमहं तथैव ।
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते॥46||

स॥ अहं त्वां तथा ऎव किरीटिनम् गदिनं चक्रहस्तं द्रष्टुं इच्छामि । सहस्रबाहो विश्वमूर्ते चतुर्भुजेन तेन रूपेण एव भव॥

श्रीभगवानुवाच:

मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शित मात्मयोगात्।
तेजोमयं विश्वमनन्त माद्यं
यन्मे त्वदन्येन न दृष्ट पूर्वम्॥47||

स॥हे अर्जुन! तेजोमयम् विश्वम् अनन्तम् आद्यं त्वदन्येन न दृष्टपूर्वम् मे यत् इदं परं रूपम् ( अद्राक्षीः) तत् (रूपम्) प्रसन्नेन मया तव आत्मयोगात् दर्शितम्।

न वेदयज्ञाध्ययनैर्नदानै
र्न च क्रियाभिर्न तपोभिरुग्रैः
एवं रूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर॥48||

स॥हे क्रुरुप्रवीर । एवं रूपः अहम् नृलोके त्वदन्येन न दृष्ठः। वेदयज्ञाध्ययनैः दानैः क्रियाभिः उग्रैः तपोभिः द्रष्टुम् न शक्यः॥

माते व्यथा माच विमूढभावो
दृष्ट्वा रूपं घोरमीद्रुज्ञ्ममेदं।
व्यपेतभीः प्रीतिमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य॥49||

स॥ ई दृक् घोरं मम इदं रूपम् दृष्ट्वा ते व्यथा मा। विमूढभावः च न ।त्वं व्यपेतभीः प्रीतमनाः ( भव) । मे तत् इदं रूपं एव पुनः प्रपश्य॥

संजय उवाच

इत्यर्जुनं वासुदेवः तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥50||

स॥ इति वासुदेवः अर्जुनम् उक्त्वा तथा स्वकं रूपं भूयः दर्शयामास । महात्मा पुनः च सौम्यवपुः भूत्वा भीतं एनम्( अर्जुनम्) आश्वासयामास॥

अर्जुन उवाच:

दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः॥51||

स॥ हेजनार्दन ! तव सौम्यं इदं मानुषं रूपम् दृष्ट्वा इदानीम् स चेताः संवृत्तः । प्रकृतिं गतः अस्मि॥

श्रीभगवानुवाच

सुदुर्दर्शमिदं रूपं दृष्टवानपि यन्मम।
देवा अप्यस्य रूपस्य नित्यं दर्शन कांक्षिणः॥52||

स॥ मम यत् (रूपं) दृष्टवान् असि तत् इदं रूपं सुदुर्दर्शम् । देवाः अपि नित्यं अस्य रूपस्य दर्शन कांक्षिणः (भवन्ति)॥

नाहं वैदैर्न तपसा न दानेन न चेज्यया।
शक्यं एवं विधो द्रष्टुं दृष्टवानसि मां यथा॥53||

स॥ माम् यथा दृष्टवान् असि एवं विधः अहं वैदैः द्रष्टुम् न शक्यः। तपसा च न ( शक्यः)। दानेन च न ( शयः)। इज्यया ( यज्ञेन) च न ( शक्यामि)।

भक्त्या त्वनन्यया शक्य अहमेवं विधोsर्जुन।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप॥54||

स॥ परन्तप ! एवं विधः अहम् अनन्यया भक्त्यातु तत्त्वेन ज्ञातुम् द्रष्ठुम् च प्रवेष्टुंच शक्यः अस्मि॥

मत्कर्मकृन्मत्परमो मद्भक्तसंगवर्जितः।
निर्वैरः सर्वभूतेषु यस्स मामेति पाण्डव॥55||

स॥।हे पाण्दव ! मत्कर्मकृत् मत्परमः मद्भक्तः संगवर्जितः सर्वभूतेषु निर्वैरः यः - सः माम् एति ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विश्वरूप संदर्शन योगोनाम
एकादशोsध्यायः
ओं तत् सत्

 

 


|| om tat sat ||