Bhagavadgita !

Chapter 12

Bhakti Yoga !

श्रीमद्भगवद्गीत
भक्ति योगः
द्वादशाध्यायः

अर्जुन उवाच:
एवं सतयुक्ता ये भक्तास्त्वां पर्युपासते।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः॥1||

स॥एवं सततयुक्तां येभक्ताः त्वां पर्युपासते ये च अपि अव्यक्तं अक्षरं पर्युपासते तेषां के योगवित्तमाः॥

श्रीभगवानुवाच

मय्यावेश्य मनो येमां नित्ययुक्ता उपासते।
श्रद्धयापरयोपेता स्तेमे युक्ततमा मताः॥2||

स॥ मयि मनः आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः ये मां उपासते ते युक्ततमाः ( इति) मे मताः॥

ये त्वक्षरमनिर्देश्य मव्यक्तं पर्युपासते।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम्॥3||
संनियमेन्द्रियग्रामं सर्वत्र समबुद्धयः।
तेप्राप्नुवन्ति मामेव सर्वभूतहिते रताः॥4||

स॥ ये तु इन्द्रियग्रामम् संनियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः अनिर्देश्यं अव्यक्तं अचिन्त्यं कूटस्थं अचलं ध्रुवं सर्वत्रगं च अक्षरम् पर्युपासते ते माम् एव प्राप्नुवन्ति॥

क्लेशोsधिकतरः तेषां अव्यक्तासक्तचेतसाम्।
अव्यक्ताहि गतिर्दुःखं देहवद्भिरवाप्यते॥5||

स॥अव्यक्तासक्त चेतसां तेषां क्लेशः अधिकतरः हि अव्यक्ता गतिः देहवद्भिः दुःखम् अवाप्यते॥

येतु सर्वाणि कर्माणि मयि सन्यस्य मत्पराः।
अनन्येनैव योगेन मां ध्यायन्त उपासते॥6||
तेषामहं समुद्धर्ता मृत्यु संसार सागरात् ।
भवामि नचिरात्पार्थ मय्यावेशित चेतसाम्॥7||

स॥ हे पार्थ ! येतु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन योगेन मां एव ध्यायन्तः उपासते मयि आवेशित चेतसाम् तेषां अहं मृत्युसंसार सागरात् न् चिरात् समुद्धर्ता भवामि॥

मय्येव मन अधत्स्व मयिबुद्धिं निवेशय।
निवषिष्यसि मय्येव अत ऊर्ध्वं न संशयः॥8||

स॥ मयि एव मनं आधत्स्व मयि बुद्धिम् निवेशय अतः ऊर्ध्वम् मयि एव निवशिष्यसि॥

अथ चित्तं समाधातुं न शक्नोषि मयिस्थिरम्।
अभ्यासयोगेन ततो मां इच्छाप्तुं धनंजय॥9||

स॥ धनंजय ! अथ चित्तम् मयि स्थिरं समाधातुं न शक्नोषि ततः अभ्यासयोगेन मां आप्तुं इच्छ ॥

अभ्यासेsप्यसमर्थोsसि मत्कर्मपरमो भव।
मदर्थमपि कर्माणि कुर्वन् सिद्धिमवाप्स्यसि॥10||

स॥ अभ्यासे अपि असमर्थोसि मत्कर्म परः भव । मदर्थम् कर्माणि कुर्वन्नपि सिद्धिं अवाप्स्यसि॥

अथैतदप्यसक्तोsसि कर्तुं मद्योगमाश्रितः।
सर्वकर्म फलत्यागं ततः कुरु यतात्मवान् ॥11||

स॥ अथ मद्योगं आश्रितः एतत् अपि कर्तुं अशक्तः असि ततः यतात्मवान् सर्वकर्मफलत्यागम् कुरु॥

श्रेयो हि ज्ञानमभ्यासात् ज्ञानात् ध्यानंविशिष्यते।
ध्यानात् कर्मफलत्यागः त्यागाच्छान्तिरनन्तरम्॥12||

स॥अभ्यासात् ज्ञानम् श्रेयः हि। ज्ञानात् ध्यानम् विशिष्यते । ध्यानात् कर्मफलत्यागः विशिष्यते। त्यागात् अनन्तरम् शान्तिः भवति॥

अद्वेष्टा सर्वभूतानां मैत्रः करुण एवच ।
निर्ममो निरहंकारः समदुःख सुखः क्षमी॥13||
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः।
मय्यर्पित मनोबुद्धिर्योमद्भक्तः स मे प्रियः॥14||

स॥ सर्वभूतानां अद्वेष्ठा मैत्रः करुणः एव च निर्ममः निरहंकारः समदुःखसुखः क्षमी सततं संतुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पित मनः बुद्धिः मद्भक्तः यः सः मे प्रियः ॥

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
हर्षामर्षभयोद्वॆगैर्मुक्तो यस्स च मे प्रियः॥15||

स॥ यस्मात् लोकः न उद्विजते लोकात् च यः नौद्विजते यः हर्ष अमर्ष भय उद्वेगैः मुक्तः सः च मे प्रियः॥

अनपेक्ष सुचिर्दक्ष उदासीनो गतव्यथः।
सर्वारंभ परित्यागी यो मद्भक्तः स मे प्रियः॥16||

स॥अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारंभपरैत्यागी मद्भक्तः यः सः मे प्रियः॥

यो न हृष्यति न द्वेष्टि न शोचति न कांक्षति।
शुभाशुभारित्यागी भक्तिमान् यस्स मे प्रियः॥17||

स॥ यः न हृष्यति न द्वेष्टि न शोचति नकांक्षति यः शुभाशुभपरित्यागी सः भक्तिमान् मे प्रियः॥

समश्शत्रौ च मित्रे च तथा मानावमानयोः ।
शीतोष्णसुखदुःखेषु समस्संगविवर्जितः॥18||
तुल्यानिन्दस्तुतिर्मौनी संतुष्टो येन केन चित्।
अनिकेतः स्थिरमतिर्भतिमान् मे प्रियो नरः॥19||

शत्रौच मित्रेच तथा मानावमानयोः समः शीतोष्णसुखदुःखेषु समः संगविवर्जितः तुल्यनिंदास्तुतिः मौनी येनकेनचित् संतुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः॥

येतु धर्म्यामृतमिदं यथोक्तं पर्युपासते।
श्रद्धधाना मत्परमा भक्ताः तेsतीव मे प्रियाः॥ 20||

स॥ येतु श्रद्धधानाः मत्परमाः इदं धर्म्यामृतम् यथोक्तं पर्युपासते ते भक्ताः मे अतीव प्रियाः॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे भक्ति योगोनाम
द्वादशोsध्यायः
||ओं तत् सत्||

|| om tat sat||