Bhagavadgita !

Chapter 13

Kshetra Kshetrajnya Vibhaaga Yoga !

श्रीमद्भगवद्गीत
क्षेत्र क्षेत्रज्ञ विभाग योगः
पदमूडव अध्यायमु

अर्जुन उवाच:
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञ मेव च।
एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव॥

स॥हे केशव ! प्रकृतिम् पुरुषं च एव क्षेत्रं क्षेत्रज्ञ एव च ज्ञानम् ज्ञेयं च एतत् वेदितुम् इच्छामि॥

श्रीभगवानुवाच:

इदं शरीरं कौन्तेय क्षेत्रमित्यभिदीयते।
एतद्योवेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥

स॥ कौन्तेय! इदं शरीरं क्षेत्रं इति अभिदीयते।एतत् यः वेत्ति तं क्षेत्रज्ञः इति तत् विदः प्राहुः॥

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत।
क्षेत्र क्षेत्रज्ञयोर् ज्ञानं यत्तत् ज्ञानं मतं मम॥

स॥ हे भारत! सर्वक्षेत्रेषु माम् क्षेत्रज्ञं च अपि विद्धि । क्षेत्र क्षेत्रज्ञयोः ज्ञानं यत् तत् (एव) ज्ञानं (इति) मम मतं॥

तत् क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत्।
स च यो यत्प्रभावश्च तत्समासेन मे श्रुणु॥

स॥तत् क्षेत्रं यत् च ( तत् क्षेत्रं) यादृक् च ( तत् क्षेत्रं) यत् विकारि ( तत् क्षेत्रं) यतः च यत् सः ( क्षेत्रज्ञः) च यः (सः) यत् प्रभावः च तत् ( सर्वं) समासेन ( संक्षेपेन) मे शृणु ।

ऋषिभिर्भहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः॥

स॥( तत् ज्ञानं) ऋषिभिः बहुथा पृथक् विविधैः छन्दोभिः गीतम् । हेतुमद्भिः विनिश्चितैः ब्रह्मसूत्रपदैःच एव ( गीतम्)

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पंचेन्द्रियगोचराः॥

स॥महाभूतानि अहंकारः बुद्धिः अव्यक्तं एव च दश एकं च इन्द्रियाणि पंच इन्द्रियगोचराः च (समासेन उदाहृतम्)

इच्छाद्वेषः सुखं दुःखं संघातश्चेतना धृतिः।
एतत् क्षेत्रं समासेन सविकार मुदाहृतम्॥

स॥इच्छा द्वेषः सुखं दुःखंसंघातः चेतना धृतिः एतत् सविकारं क्षेत्रं समासेन उदाहृतम्॥

अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः॥

स॥ अमानित्वं, अदम्भित्वं, अहिंसा, क्षान्तिः, आर्जवम्, अचार्योपासनम्, शौचम् (बाह्यांतरशुचित्वम्), स्थैर्यम्, आत्मविनिग्रहः,(एतत् सर्वं ज्ञानं इति प्रोक्तम्)।

इन्द्रियार्थेषु वैराग्यं अनहंकार एव च।
जन्ममृत्यु जराव्याधि दुःखदोषानुदर्शनम्॥

स॥ इन्द्रियार्थेषु वैराग्यम्, अनहंकारः एव च, जन्म मृत्यु जरा व्याधि दुःख दोषानु दर्शनम् (एतत् सर्वं ज्ञानं इति प्रोक्तम्)।

आसक्तिः अनभिष्वंगः पुत्रदारगृहादिषु।
नित्यं च समचित्तत्व मिष्टानिष्टोपपत्तिषु॥

स॥ पुत्रदार गृहादिषु अनासक्तिः , अनभिष्वंगः , इष्टानिष्ट उपपत्तिषु नित्यं समचित्तत्त्वं च (एतत् सर्वं ज्ञानं इति प्रोक्तम्)।

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी।
विविक्तदेश सेवित्वमरतिर्जनसंसदि॥

स॥ मयि अनन्ययोगेन अव्यभिचारिणी ( अचंचल) भक्तिः, विविक्तदेशसेवित्वम् , जनसंसदि अरतिः (एतत् सर्वं ज्ञानं इति प्रोक्तम्)।

अध्यात्म ज्ञान नित्यत्वं तत्त्वज्ञानार्थदर्शनम्।
एतत् ज्ञानमिति प्रोक्तं अज्ञानं यदतोन्यथा॥

स॥ अध्यात्मज्ञान नित्यत्वं, तत्त्वज्ञानार्थ दर्शनम्, एतत् सर्वं ज्ञानं इति प्रोक्तम्। यत् अतः अन्यथा तत् अज्ञानं ( इति प्रोक्तम्)॥

ज्ञेयं यत्तत्प्रवक्ष्यामि यत् ज्ञात्वा अमृतमश्नुते।
अनादिमत्परमं ब्रह्म न सत्तन्नासदुच्यते॥

स॥ यत् ज्ञेयं यत् ज्ञात्वाअमृतं अश्नुते तत (हं) प्रवक्ष्यामि। अनादिमत् परं ब्रह्म तत् सत् (इति) न उच्यते। असत् इति न ( उच्यते)।

सर्वतः पाणीपादं तत्सर्वतोsक्षि शिरोमुखम्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति॥

स॥ तत् सर्वतः पाणि पादम् सर्वतः अक्षि शिरो मुखं सर्वतः श्रुतिमत् (तत्) सर्वं लोके आवृत्य तिष्ठति॥

सर्वेन्द्रिय गुणाभासं सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्छैव निर्गुणं गुणभोक्तृ च॥

स॥ तत् सर्वेन्द्रिय गुणाभासम् सर्वेन्द्रिय विवर्जितम् असक्तम् सर्वभृत् च एव निर्गुणम् गुणभोक्तृ च (इति उच्यते) ॥

बहिरन्तश्च भूतानां अचरं चरमेवच।
सूक्ष्मत्वात् अविज्ञेयं दूरस्थं चान्तिकेच तत् ॥

स॥ (तत्) भूतानाम् बहिः अन्तः च ( स्थितम्), अचरं चरमेव च, सूक्ष्मत्वात् अविज्ञेयं तत् ( ब्रह्मम्) दूरस्थम् अन्तिकेच (इति उच्यते) ॥

अविभक्तं च भूतेषु विभक्तमिव स्थितम्।
भूतभर्तृच तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च॥

स॥ (तत्) भूतानाम् बहिः अन्तः च ( स्थितम्), अचरं चरमेव च, सूक्ष्मत्वात् अविज्ञेयं तत् ( ब्रह्मम्) दूरस्थम् अन्तिकेच (इति उच्यते) ॥ भूतेषु तत् अविभक्तं च विभक्तं इव स्थितम् ॥

ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम्॥

स॥ तत् ज्योतिषामपि ज्योतिः , तमसः परम्, ज्ञानं ज्ञेयं ज्ञानगम्यं । सर्वस्य हृदि विष्टितं इति उच्यते॥

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते॥

स॥इति क्षेत्रं तथा ज्ञानं च ज्ञेयं च समासतः उक्तम् । मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते॥

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि।
विकारांश्च गुणांश्चैव विद्धि प्रकृति संभवान्॥

स॥ प्रकृतिं पुरुषं च एव उभौ अपि अनादी विद्धि ।विकारां च गुणान् च एव प्रकृति संभवान् ॥

कार्यकारण कर्तृत्वे हेतुः प्रकृति रुच्यते।
पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते॥

स॥ कार्यकारण कर्तृत्वे प्रकृतिः हेतुः इति ) उच्यते। सुखदुःखानां भोक्तृत्वे पुरुषः हेतुः (इति) उच्यते॥

पुरुषः प्रकृतिस्थो हि भुंक्ते प्रकृतिजान् गुणान्।
कारणं गुणसंगोsस्य सदसद्योनिजन्मसु॥

स॥ प्रकृतिस्थः पुरुषः प्रकृतिजान् गुणान् भुंके हि । गुणसंगः अस्य सदसद्योनि जन्मसु कारणम्॥

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः।
परमात्मेति चाप्युक्तो देहेsस्मिन् पुरुषः परः॥

स॥पुरुषः अस्मिन् देहे अपि परः उपद्रष्ठा अनुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मा इति च उक्तः ।

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह।
सर्वथा वर्तमानोsपि न स भूयोsभिजायते॥

स॥ यः एवं पुरुषः गुणैः सह प्रकृतिं वेत्ति सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ॥

ध्यानेनात्मनि पस्यन्ति केचिदात्मानमात्मना।
अन्ये सांख्येन योगेन कर्मयोगेन चापरे॥

स॥ आत्मानं केचित् आत्मना ध्यानेन आत्मनि पश्यन्ति । अन्ये सांख्येन योगेन (पश्यन्ति)। अपरे कर्मयॊगेन च ( पश्यन्ति)॥

अन्ये त्वेव मजानन्तः श्रुत्वाsन्येभ्य उपासते।
तेsपि चातितरन्त्येव मृत्युं श्रुतिपरायणः॥

स॥अन्येतु एवम् अजानन्तः अन्येभ्यः श्रुत्वा (ब्रह्मन्) उपासते। श्रुतिपरायणाः ते अपि मृत्युं अतितरन्ति एव॥

यावत्संजायते किंचित् सत्वं स्थावरजंगमम्।
क्षेत्र क्षेत्रज्ञ संयोगात् तद्विद्धि भतर्षभ॥

स॥ हे भरतर्षभ ! स्थावर जंगमं सत्त्वम् यावत् किंचित् संजायते तत् क्षेत्र क्षेत्रज्ञ संयोगात् विद्धि ॥

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्।
विनश्यत्स्वविनश्यन्तम् यः पश्यति स पश्यति॥

स॥सर्वेषु भूतेषु समं तिष्टन्तं परमेश्वरं विनश्यत्सु अविनश्यन्तं (इति) यः पश्यति सः ( यदार्थं ) पश्यति॥

समं पश्यन् हि सर्वत्र समवस्थित मीश्वरम्।
न हिनस्त्यात्मनाssत्मानं ततोयांति परांगतिम्॥

स॥ हि सर्वत्र समवस्थितम् ईश्वरम् समं पश्यन् अत्मना आत्मानं न हिनस्ति । ततः परां गतिं याति॥

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।
यः पश्यति तथाssत्मानं अकर्तारं स पश्यति॥

स॥ यः कर्माणि प्रकृत्या एव सर्वसः क्रियमाणानि , तथा आत्मानं अकर्तारं च पश्यति सः (यदार्थं) पश्यति ॥

यथाभूतपृथक्भावमेकस्थमनुपश्यति।
ततेव च विस्तारं ब्रह्म संपद्यते तदा॥

स॥ यदा भूतपृथग्भावम् एकस्थं च ततः एव विस्तारं अनुपश्यति तदा (सः) ब्रह्मन् संपद्यते॥

अनादित्वान्निर्गुणत्वात् परमात्माय मव्ययः।
शरीरस्थोsपि कौन्तेय न करोति नलिप्यते॥

स॥ कौन्तेय अनादित्वात् निर्गुणत्वात् अव्ययः अयं परमात्मा शरीरस्थः अपि न करोति नलिप्यते ॥

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते।
सर्वत्रावस्थितो देहे तथाssत्मा नोपलिप्यते॥

स॥ सर्वगतम् आकाशम् सौक्ष्म्यात् यथा न उपलिप्यते तथा सर्वत्रदेहे अवस्थितः आत्मा न उपलिप्यते ॥

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥

स॥ भारत! एकः रविः इमम् कृत्स्नं लोकम् यथा प्रकाशयति तथा क्षेत्री ( क्षेत्रज्ञः) कृत्स्नं क्षेत्रं प्रकाशयति॥

क्षेत्र क्षेत्रज्ञयोरेवं अंतरं ज्ञानचक्षुषा।
भूतप्रकृति मोक्षं च ये विदुर्यान्ति ते परम्॥

स॥ये ज्ञानचक्षुसा एवं क्षेत्र क्षेत्रज्ञयोः अन्तरम् भूतप्रकृति मोक्षं च विदुः ते परमं ( मोक्षं) यान्ति॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे क्षेत्र क्षेत्रज्ञ विभाग योगोनाम
त्रयोदशोsध्यायः
ओं तत् सत्

 

 

 

|| om tat sat||