Bhagavadgita !

Chapter 14

Guna Traya Vibhaaga Yoga !

||om tat sat||

श्रीमद्भगवद्गीत
गुणत्रय विभाग योगः
पदुनालुगव अध्यायमु

श्रीभगवानुवाच:
प्रं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्।
यत् ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥1||

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।
सर्गेsपि नोपजायन्ते प्रळये न व्यधन्ति च॥2||

मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्।
सम्भवस्सर्व भूतानां ततो भवति भारत ॥3||

सर्वयोनिषु कौन्तेय मूर्तयः संभवन्तियाः।
तासां ब्रह्म महद्योनि रहं बीजप्रदः पिता॥4||

सत्त्वं रजस्तम इति गुणाः प्रकृति संभवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥5||

तत्र सत्त्वं निर्मलत्वात् प्रकाशकम् अनामयम् ।
सुखसंगेन बध्नाति ज्ञानसंगेन चानघा॥6||

रजो रागात्मकं विद्धि तृष्णा संगसमुद्भवम्।
तन्निबध्नाति कौन्तेय कर्मसंगेन देहिनाम् ॥7||

तम स्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमदालस्यनिद्राभिः तन्निबध्नाति भारत॥8||

सत्त्वं सुखे संजयति रजः कर्मणि भारत।
ज्ञानमावृत्य तु तमः प्रमादे संजयत्युत॥9||

रजस्तमश्चाभिभूय सत्त्वं भवति भारत।
रजस्सत्वं तमश्चैव तमस्सत्त्वं रजस्तथा॥10||

सर्वद्वारेषु देहेsस्मिन् प्रकाश उपजायते।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत॥11||

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥12||

अप्रकाशोsप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विरुद्धे कुरुनन्दन॥13||

यद सत्त्वे प्रवृद्धेतु प्रळयं याति देहभृत् ।
तदोत्तमविदां लोकान् अमलान्प्रतिपद्यते॥14||

रजसि प्रळयं गत्वा कर्मसंगिषु जायते।
तथा प्रलीनस्तमसि मूढयोनिषु जायते॥15||

कर्मणसुकृतस्याहु सात्त्विकं निर्मलं फलम्।
रजसस्तु फलं दुःखं अज्ञानं तमसः फलम्॥16||

सत्त्वात्संजायते ज्ञानं रजसो लोभएवच ।
प्रमादमोहो तमसो भवतोsज्ञानमेवच॥17||

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।
जघन्यगुणवृत्तिस्था अथो गच्छन्ति तामसाः॥18||

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टाsनुपश्यति।
गुणेभ्यश्च परं वेत्ति मद्भावं सोsधिगच्छति॥19||

गुणानेतानतीत्यत्रीन् देही देहसमुद्भवः।
जन्ममृत्युजरादुःखै र्विमुक्तोsमृतमश्नुते॥20||

अर्जुन उवाच:
कैर्लिंगैस्त्रीन्गुणानेतान् अतीतो भवति प्रभो ।
किमाचारं कथं चैतां स्त्रीन्गुणानतिवर्तते ॥21||

श्रीभगवानुवाच:

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव।
नद्वेष्टि सम्प्रवृत्तानि न निवृत्तानि कांक्षति॥22||

उदासीनवदासीनो गुणैर्यो न विचाल्यते।
गुणावर्तन्त इत्येव योsवतिष्ठति नेंगते॥23||

समदुःखसुखस्स्वस्थः समलोष्टाश्मकाम्चनः।
तुल्यप्रियाप्रियो धीरः तुल्यनिन्दात्म संस्तुतिः॥24||

मानावमानयोः तुल्यः तुल्यो मित्रारिपक्षयोः।
सर्वारम्भपरित्यागी गुणातीतः स उच्यते॥25||

मां च योsव्यभिचारेण भक्ति योगेन सेवते।
स गुणान्समतीतैतान् ब्रह्म भूयाय कल्पते॥26||

ब्रह्मणो हि प्रतिष्टाsहम् अमृतस्याव्ययस्य च।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥27||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे गुणत्रय विभाग योगोनाम
चतुर्दशोsध्यायः
|| ओं तत् सत ||्