Bhagavadgita !

Chapter 15

Purushottama Prapti Yoga !

||om tat sat||

श्रीमद्भगवद्गीत
पुरुषोत्तम प्राप्ति योगः
पदुनैदुव अध्यायमु

श्रीभगवानुवाच:
ऊर्ध्वमूलमधश्शाखं अश्वत्थं प्राहुरव्ययम्।
छन्दांसि यस्यपर्णानि यस्तं वेद स वेदवित् ॥1||

स॥ यस्य पर्णानि चन्दांसि (तत्) अश्वत्थं ऊर्ध्वमूलं अथश्शाखम् अव्ययं (इति) प्राहुः। तत् यः वेद सः वेदवित् (भवति)

अथश्चोर्ध्वं प्रशृतास्तस्यशाखा
गुणप्रवृद्धा विषयप्रवालाः।
अधश्चमूलान्यनुसन्ततानि
कर्मानुबन्धीन मनुष्यलोके॥2||

स॥ तस्य शाखाः ( सत्त्व रजो तमो) गुणप्रवृद्धाः विषयप्रवालाः अथः च ऊर्ध्वं च प्रसृताः । मनुष्य लोके कर्मानुबंधीनि मूलानि अथः च अनुसन्ततानि ॥

नरूपमस्येह तथोपलभ्यते
नान्तो नचादिर्न च संप्रतिष्ठा।
अश्वत्थमेनं सुविरूढमूला
मसंगशस्त्रेण दृढेन छित्वा॥3||

स॥ अस्य रूपं इह न उपलभ्यते । अन्तः न । आदिः च न। संप्रतिष्ठा च न ।एनं अश्वत्थं धृढेन असंग शस्त्रेण छित्वा ( तत् ब्रह्म पदं मार्गितव्यं)

ततः पदं तत्परिमार्गितव्यं
यस्मिन् गता ननिवर्तन्ति भूयः।
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रश्रुता पुराणी॥4||

स॥ ततः यस्मिन् गताः भूयः न निवर्तन्ति यतः पुराणी प्तवृत्तिः प्रसृता तं आद्यं पुरुषं एव च प्रपद्ये ( इति मत्वा) तत् ( ब्रह्म ) पदं मार्गितव्यम्॥

निर्मानमोहा जितसंगदोषा
अध्यात्मनित्या विनिवृत्तकामाः।
द्वन्द्वैर्विमुक्ता सुखदुःखसंज्ञैः
गच्छन्त्य मूढाः पदमव्ययं तत् ॥5||

स॥ निर्मानमोहाः जितसंग दोषाः अध्यात्म नित्याः विनिवृत्त कामाः सुखदुःख संज्ञैः द्वंद्वैः विमुक्ताः अ मूढाः तत् अव्ययम् पदं गच्छन्ति॥

नतत् भासयते सूर्यो न शशाज्ञ्को न पावकः।
यद्गत्वा ननिवर्तन्ते तद्धाम परमं मम ॥6||

स॥ तत् ( स्थानम्) सूर्यः न भासयते । शशांकः ( नभासयते)। पावकः (अपि) न ( भासयते)। यत् गत्वा न निवर्तन्ते तत् मम् परमं स्थानम्॥

ममैवांशो जीवलोके जीवभूतस्सनातनः।
मनष्षष्ठानीन्द्रियाणी प्रकृतिस्थानि कर्षति ॥7||

स॥ मम एव सनातनः अंशः जीवलोके जीव भूतः प्रकृतिस्थानि मनः षष्ठानि इन्द्रियाणि कर्षति॥

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयत्॥8||

स॥ ईश्वरः यत् च(यदा) अपि ( शरीरं) उत्क्रामति यत् शरीरं अवाप्नोति (तदा) ( यथा) वायुः आशयात् गन्धान् संयाति तथैव एतानि ( षष्टानि इन्द्रियाणि) गृहीत्वा संयाति ॥

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते॥9||

स॥ अयं ( जीवः) श्रोत्रम् चक्षुः स्पर्शनं च रशनं घ्राणं एव च मनः च अधिष्ठाय विषयान् उपसेवते॥

उत्क्रामन्तं स्थितं वाsपि भुंजानंवा गुणान्वितम् ।
विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥10||

स॥ उत्क्रामन्तं वा स्थितं वा भुंजानं गुणान्वितान् अपि विमूढाः न अनुपश्यन्ति । ज्ञान चक्षुः पश्यन्ति ॥

यतन्तो योगिनश्चैनं पस्यन्त्यात्मन्यवस्थितम्।
यतन्तोsप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥11||

स॥ यतन्तः योगिनः आत्मनि अवस्थितम् एनं (आत्मन्) पश्यन्ति। यतन्तः अपि अकृतात्मनः अचेतसः एनं ( आत्मन्) न पश्यन्ति॥

यदादित्यगतं तेजो जगद्भासयतेsखिलम्।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥12||

स॥ आदित्य गतं यत् तेजः अखिलं जगत् भासयते , (तथैव) चंद्रमसि यत् (तेजः अस्ति) अग्नौच यत् ( तेजः असि) तत् तेजः मामकम् विद्धि॥

गामाविश्य च भूतानि धारम्यह मोजसा।
पुष्णामि चौषधीस्सर्वा स्सोमो भूत्वा रसात्मकः॥13||

स॥ च अहं गाम् आविश्य ओजसा भूतानि धारयामि । रसात्मकः सोमः भूत्वा सर्वाः ओषधीः पुष्णामि॥

अहं वैश्वानरोभूत्वा प्राणिनाम् देहमाश्रितः।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम्॥14||

स॥ अहं वैश्वानरः भूत्वा प्राणिनाम् देहं आश्रितः प्राणापानसमायुक्तः चतुर्विधं अन्नं पचामि ॥

सर्वस्य चाहं हृधि सन्निविष्टो
मत्तः स्मृतिः ज्ञानमपोहनं च।
वैदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम्॥15||

स॥ अहं सर्वस्य च हृदि सन्निविष्ठः । मत्तः स्मृतिः ज्ञानं आपोहनं च (भवन्ति)। सर्वैः वेदैः च अहं एव वेद्यः। अहं एव वेदान्तकृत्। अहं एव वेदवित् च।

द्वाविमौ पुरुषोलोके क्षरश्चाक्षर एवच ।
क्षरस्सर्वाणि भूतानि कूटस्थोsक्षर उच्यते॥16||

स॥ लोके क्षरः च अक्षरः एव च द्वौ इमौ पुरुषौ (स्तः) । सर्वाणि भूतानि क्षरः (उच्यते)। कूटस्थः अक्षरः उच्यते॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥17||

स॥ यः लोकत्रयं आविश्य बिभर्ति (तत्) अव्ययः ईश्वरः अन्यः उत्तमः पुरुषः उदाहृतः। परमात्म इति (च ) उदाहृतः।

यस्मात् क्षरमतीतोsहम् अक्षरादपि चोत्तमः।
अतोsस्मि लोकेवेदे च प्रथितः पुरुषोत्तमः॥18||

स॥ यस्मात् अहं क्षरं अतीतः अक्षरात् अपि उत्तमः च अतः लोके वेदेच पुरुषोत्तमः प्रथितः अस्ति॥

योमामेवमसम्मूढो जानाति पुरुषोत्तमम्।
स सर्वभजति मां सर्वभावेन भारत॥19||

स॥ हे भारत ! यः असम्मूढः एवं माम् पुरुषोत्तमम् जानाति सः सर्ववित् सर्वभावेन माम् भजति॥

इति गुह्यतमं शास्त्र मिदमुक्तं मयाsनघ।
एतद्भुद्ध्वा बुद्धिमान् स्यात्कृतकृत्यश्च भारत॥20||

स॥ हे अनघ ! इति गुह्यतमं इदं शास्त्रं मया उक्तं एतत् बुद्ध्वा बुद्धिमान् कृतकृत्यः च स्यात्॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे पुरुषोत्तम प्राप्ति योगो नाम
पंचदशोध्यायः
||ओं तत् सत||्

 

 

 

||ओम् तत् सत्||