Bhagavadgita !

Chapter 15

Daivasura Sampat Vibhaga Yoga !

||om tat sat||

श्रीमद्भगवद्गीत
दैवासुर संपद्विभाग योगः
षोडशोsध्यायः

श्रीभगवानुवाच:
अभयं सत्त्वसंशुद्धिः ज्ञानयोग व्यवस्थितिः।
दानं दमश्च यज्ञश्च स्वाध्याय स्तप आर्जवम्॥1||

स॥अभयं सत्त्वसंशुद्धिः ज्ञानयोग व्यवस्थितः दानं दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् ( इत्यादि दैवीं संपदं अभिजातस्य भवन्ति)

अहिंसा सत्यमक्रोधः त्यागश्शान्तिरपैशुनम्।
दया भूतेष्वलोलत्वं मार्दवम् ह्रीरचापलम्॥2||

स॥ अहिंसा सत्यं अक्रोधः त्यागं शान्तिः अपैशुनम् भूतेषु दया (विषयैः) अलोलत्वं मार्दवम् ह्रीरचापलम् ( इत्यादि दैवीं संपदं अभिजातस्य भवन्ति)

तेजः क्षमा धृतिश्शौचं अद्रोहोनातिमानिता।
भवन्ति संपदं दैवीमभिजातस्य भारत ॥3||

स॥तेजः क्षमा धृतिः शौचं अद्रोहः नातिमानिता ( इयादि सुगुणाः) दैवीं संपदं अभिजातस्य भवन्ति॥

दम्भो दर्पोsभिमानश्च क्रोधः पारुष्यमेव च।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम्॥4||

स॥ हे पार्थ ! दम्बः दर्पः अभिमानः च क्रोधः पारुष्यं एव च अज्ञानं च ( इत्यादि) असुरीं सम्पदं अभिजातस्य भवन्ति॥

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता।
माशुचस्संपदं दैवी मभिजातोsसि पाण्डव ॥5||

स॥ दैवी विमोक्षाय असुरी (संपत्) निबन्धाय मता। हे पाण्डव! दैवीं संपदम् अभिजातः असि । (ततः) माशुचः॥

द्वौ भूतसर्गौ लोकेsस्मिन् दैव अशुरएव च ।
दैवो विस्तरशः प्रोक्त असुरं पार्थमे शृणु॥6||

स॥ हे पार्थ अस्मिन् लोके दैवः अशुरः एव च द्वौ भूतसर्गौ (स्तः) । (तस्मिन्) दैवः विस्तरशः प्रोक्तः । (अतः) असुरम् मे श्रुणु॥

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥7||

स॥ असुराः जनाः प्रवृत्तिंच निवृत्तिंच न विदुः। तेषु शौचं न विद्यते । आचारः च पि न। सत्यं अपि न।

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्।
अपरस्परसम्भूतं किमन्यत्काममैतुकम्॥8||

स॥ ते जगत् असत्यं अप्रतिष्ठं अनीश्वरम् कामहेतुकं अपरस्पर सम्भूतम् अन्यत् किं आहुः॥

एतां दृष्टिमवष्ठभ्य नष्ठात्मानोsल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाजगतोsहिताः॥9||

स॥ ते एतां दृष्ठिं अवष्टभ्य नष्टात्मनः अल्पबुद्धयः उग्रकर्माणः अहिताः जगतः क्षयाय प्रभवन्ति ॥

काममाश्रित्य दुष्पूरं दम्बमानमदान्विताः।
मोहाद्गृहीत्वाsसद्ग्राह न्प्रवर्तन्तेsशुचिव्रताः॥10||

स॥ दुष्पूरं कामं आश्रित्य दम्भमानमदान्विताः मोहात् असत् ग्राहान् गृहीत्वा अशुचिव्रताः प्रवर्तन्ते॥

चिन्तामपरिमेयां च प्रळयान्तामुपाश्रिताः।
कामोपभोगपरमा एतावदिति निश्चिताः॥11||
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः।
ईहन्ते कामभोगार्थ मन्यायेनार्थसंचयान्॥12||

स॥ च अपरिमेयाम् प्रलयान्ताम् चिन्ताम् उपाश्रिताः कामोपभोगपरमाः एतावत् इति निश्चिताः आशापाशशतैर्बद्धाः कामक्रोधपरायणाः काम भोगार्थं अर्धसंचयान् ईहन्ते॥

इदमद्य मयालब्धमिमं प्राप्स्येमनोरथम्।
इदमस्तीदमपि मे भविष्यति पुनर्धनम्॥13||

स॥इदं अद्य मया लब्धं । इदं मनोरथं प्राप्स्ये। इदं अस्ति। इमं धनं अपि पुनः भविष्यति॥

असौ मयाहतश्शत्रुः हनिष्ये चापरानपि।
ईश्वरोsहमहं भोगी सिद्धोsहं बलवान्सुखी॥14||

स॥ असौ शत्रुः मया हतः। अपरान् अपि च हनिष्ये । अहं ईश्वरः । अहं भोगी । अहं सिद्धः। (अहं) बलवान् सुखी (च)॥

आढ्योsभिजनवानस्मि कोsन्योsस्ति सदृशो मया।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः॥15||

स॥ (अहं) आढ्यः अभिजनवान् अस्मि। मया सदृशः अन्यः कः अस्ति। (अहं) यक्ष्ये । (अहं) दास्यामि।(अहं) मोदिष्ये। इति अज्ञानमोहिताः सन्तः॥

अनेकचित्तविभ्रान्ता मोहजाल समावृताः।
प्रसक्ताः कामभोगेषु पतन्ति नरकेsशुचौ॥16||

स॥ (तथा) अनेक चित्तविभ्रान्ताः मोहजाल समावृताः कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति॥

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।
यजन्ते नामयज्ञैस्ते दम्भेनाsविधिपूर्वकम्॥17||

स॥ आत्म संभाविताः स्तब्धाः धनमान मदान्विताः ते दम्भेन अविधि पूर्वकं यज्ञैः यजन्ते॥

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः।
मामात्मापरदेहेषु प्रद्विषन्तोsभ्यसूयकाः॥18||

स॥ (ते) अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः आत्मदेहेषु परदेहेषु च ( स्थितं ) मां अभ्यसूयकाः प्रद्विषन्तः॥

तानहं द्विषतः क्रूरान् संसारेषु नराधमान्।
क्षिपाम्यजस्र मशुभानासुरीष्वेव योनिषु॥19||

स॥ द्विषतः क्रूरान् अशुभान् तान् नराधमान् अहम् संसारेषु असूरीषु योनिषु एव अजस्रं क्षिपामि॥

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।
मामप्राप्यैव कौन्तेय ततोयान्त्यधमा गतिम्॥20||

स॥ हे कौन्तेय ! असुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि माम् अप्राप्य एव ततः अधमाम् गतिं यान्ति ॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः।
कामः क्रोधस्तथा लोभस्तस्मा देतत्रयं त्यजेत्॥21||

स॥ कामः क्रोधः तथा लोभः (इति) त्रिवधं नरकस्य द्वारं (सन्ति) । (ते) आत्मनः नाशनं (कुरुथ)। तस्मात् एतत् त्रयं त्यजेत् ॥

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।
अचरत्यात्मनः श्रेयः ततो यान्तिपरां गतिम्॥22||

स॥ हे कौन्तेय ! एतैः त्रिभिः तमोद्वारैः विमुक्तः नरः अत्मनः श्रेयः आचरति । ततः प्रां गतिं याति ॥

यश्शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।
न ससिद्धिमवाप्नोति न सुखं न परां गतिम्॥23||

स॥ यः शास्त्रविथिम् उत्शृज्य कामकारतः वर्तते सः सिद्धिं न अवाप्नोति। परां गतिं (च) न ( आप्नोति)॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।
ज्ञात्वा शास्त्र विधानोक्तं कर्मकर्तुमिहार्हसि॥24||

स॥ तस्मात् ते कार्याकर्यव्यवस्थितौ शास्त्रं प्रमाणं । शास्त्रविधानोक्तं ज्ञात्वा इह कर्म कर्तुं (त्वं) अर्हसि॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे दैवासुर संपद्विभाग योगो नाम
षोडशोsध्यायः


॥ओं तत् सत्॥

 

 

 



|| ओं तत् सत्||