Bhagavadgita !

Chapter 17

Sraddhaa traya Vibhaga Yoga- Slokas !

||om tat sat||

श्रीमद्भगवद्गीत
श्रद्धात्रय विभाग योगः
पदुनेडव अध्यायमु

अर्जुन वाच:
ये शास्त्रविधि मुत्सृज्य यजन्ते श्रद्धयाsन्विताः।
तेषां निष्ठातु का कृष्ण सत्त्वमाहो रजस्तमः॥1||

स॥ हे कृष्ण ! ये शास्त्र विथम् उत्सृज्य श्रद्धया अन्विताः यजन्ते तेषां निष्टातु का ? सत्त्वं अहो रजः अथवा तमः ।

श्रीभगवानुवाच:

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा।
सात्त्विकी राजसी चैव तामसी चेति तां शृणु॥2||

स॥ देहिनां स्वभावजा सा श्रद्धा सात्विकी राजसी च एव तामसी च इति त्रिविथा भवति । तां शृणु॥

सर्वानुरूपा सर्वस्य श्रद्धा भवति भारत।
श्रद्धामयोsयंपुरुषो यो यत् श्रद्धस्य एव सः॥3||

स॥ हे भारतसर्वस्य सत्त्वानुरूपा श्रद्धा भवति। अयम् पुरुषः श्रद्धामयः । यः यत् श्रद्धः सः स एव (भवतु)

यजन्ते सात्त्विका देवान् यक्षरक्षांसि राजसाः।
प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥4||

स॥सात्त्विकाः देवान् यजन्ते। राजसाः यक्ष रक्षांसि (यजन्ते) । अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते॥

अशास्त्रविहितं घोरं तप्यन्ते ये तपोजनाः।
दम्भाहंकारसंयुक्ताः कामराग बलान्विताः॥5||
कर्शयन्तः शरीरस्थं भूतग्रामचेतसः।
मां चैवान्तः शरीरस्थं तान्विध्यासुर निश्चयान्॥6||

स॥ येजनाः शरीस्थम् भूतग्रामम् कर्शयन्तः अन्तः शरीरस्थम् माम् च एव कर्शयन्तः दम्बाहांकार संयुक्ताः कामरागबलान्विताः अचेतसः अशास्त्र विहितम् घोरम् तपः तप्यन्ते तान् असुरनिश्चयान् विद्धि॥

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः।
यज्ञस्तपः तथा दानं तेषां भेदं इमं शृणु॥7||

स॥आहारः तु अपि सर्वस्य त्रिविधः प्रियः भवति। तथा यज्ञः तपः दानम् त्रिविधः प्रियः भवति । तेषाम् इमम भेदम् शृणु॥

आयुः सत्त्वबलारोग्य सुखप्रीतिविवर्धनाः।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्विक प्रियाः॥8||

आयुः सत्त्व बल आरोग्य सुख प्रीति वर्थनाः रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक प्रियाः॥

कट्वाम्ल लवणात्युष्ण तीक्ष्ण रूक्षविदाहिनः।
अहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥9||

स॥कटु आम्ल लवण अत्युष्ण तीक्ष्ण रूक्ष विदाहिनः दुःखशोकामयप्रदाः आहाराः राजसस्य इष्टाः॥

यातयामं गतरसं पूति पर्युषितं च यत्।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥10||

स॥ यातायामम् गतरसम् पूति पर्युषितं च उच्छिष्टं अपि अमेध्यं च यत् भोजनम् अस्ति तत् तामस प्रियम्॥

अफलाकांक्षीभिर्यज्ञो विधि दृष्टो य इज्यते।
यष्टव्यमेति मनः समाधाय स सात्विकः॥11||

स॥ यष्टव्यं एव इति मनः समाधाय विधि दृष्टः यः यज्ञः अफलाकांक्षिभिः इज्यते सः ( यज्ञः) सात्त्विकः॥

अभिसन्धाय तु फलं दम्भार्थमपि चैवयत्।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥12||

स॥ हे भरतश्रेष्ट ! फलं अभिसन्धाय तु दम्बार्थं अपि च एव यत् (यज्ञः) इज्यते तं यज्ञं राजसम् विद्धि॥

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्।
श्रद्धारहितं यज्ञं तामसं परिचक्षते॥13||

स॥विधिहीनम् असृष्टान्नम् मन्त्रहीनं अदक्षिणम् श्रद्धाविरहितम् यज्ञम् तामसम् परिचक्षते॥

देवद्विज गुरुप्राज्ञ पूजनं शौचमार्जवम्।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥14||

स॥देव द्विज प्राज्ञ पूजनं शौचम् आर्जवम् ब्रह्मचर्यम् अहिंशा च शारीरम् तप उच्यते॥

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥15||

स॥ अनुद्वेगकरम् सत्यं प्रियहितं च स्वाध्यायाभ्यसनम् च एव यत् तत् वाङ्मयं तपः॥

मनः प्रसादस्सौम्यत्वं मौनमात्मविनिग्रहः।
भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥16||

स॥ मनः प्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसम् तपः उच्यते॥

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः।
अफलाकांक्षिभिर्युक्तैः सात्विकं परिचक्षते॥17||

स॥ अफलाकांक्षिभिः युक्तैः नरैः परया श्रद्धया तप्तम् तत् त्रिविधं ( शारीरक, मानसिक वाचिक) तपः सात्त्विकं परिचक्षते॥

सत्कारपूजमानार्थं तपो दम्बेन चैव यत्।
क्रियते तदिहप्रोक्तं राजसं चलमध्रुवम्॥18||

स॥सत्कारमान पूजार्थम् दम्भेन च एव यत् तपः क्रियते तत् अध्रुवम् राजसम् (तपः) इह प्रोक्तम्॥

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्॥19||

स॥ यत् तपः मूढग्राहेण आत्मनः पीडया परस्य उत्सादनार्थम् वा क्रियते तत् ( तपः) तामसम् उदाहृते॥

दातव्यमिति यद्दानं दीयतेsनुपकारिणे।
देशेकालेच पात्रेच तद्दानं सात्त्विकं स्मृतम्॥20||

स॥ दातव्यं इति यत् दानम् देशे काले च पात्रे च अनुपकारिणे दीयते तत् दानं सात्त्विकम् स्मृतम्॥

यत्तुप्रत्युपकारार्थं फलमुद्दिस्य वा पुनः।
दीयते च परिक्लिष्टं तद्दानं राजसस्मृतम्॥21||

स॥ प्रत्युपकारार्थम् पुनः फलम् उद्धिश्य वा परिक्लिष्टं च यत् तु दीयते तत् दानम् राजसम् स्मृतम्॥

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते।
असत्कृत मवज्ञातं तत् तामसमुदाहृतम्॥22||

स॥ अदेशकाले अपात्रेभ्यः च असत्कृतम् अवज्ञातम् यत् दानम् दीयते तत दानम् तामसम् इति उदाहृतम्॥

ओं तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः।
ब्राह्मणाः तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥23||

स॥ब्रह्मणः ओम् इति तत् इति सत् इति त्रिविधः निर्देशः स्मृतः । तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः ।

तस्मादोमित्युदाहृत्य यज्ञादानतपः क्रियाः।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥24||

स॥ तस्मात् ब्रह्मवादिनाम् विधानोक्ताः यज्ञदान तपः क्रियाः सततम् ओम् इति उदाहृत्य प्रवर्तन्ते॥

तदित्य नभिसन्धाय फलं यज्ञतपः क्रियाः।
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिभिः॥25||

स॥ मोक्ष कांक्षिभिः तत् इति (उदाहृत्य) फलम् अनभिसन्धाय विविधाः यज्ञ तपः क्रियाः दान क्रियाः च क्रियन्ते ॥

सद्भावे साधुभावेच सदित्येतत् प्रयुज्यते।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥26||

स॥ हे पार्थ सत् भावे साधु भावे च सत् इति एतत् प्रयुज्यते । तथा प्रशस्ते कर्मणि सत् शब्दः युज्यते॥

यज्ञे तपसि दानेच स्थितिस्सदिति चोच्यते।
कर्मचैव तदर्थीयं सदित्येवाभिदीयते॥27||

स॥ यज्ञे तपसि च दाने च स्थितिः सत् इति उच्यते । तदर्थीयं कर्म च एव सत् इति एव अभिदीयते ॥

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह॥28||

स॥ हे पार्थ अश्रद्धया हुतम् दत्तम् तप्तं तपः च कृतं च यत् ( अस्ति) तत् असत् इति उच्यते । तत् प्रेत्य न । इह च न॥

 

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे श्रद्धात्रय विभाग योगो नाम
सप्तदशोsध्यायः
॥ओं तत् सत्॥

 

 

 


॥ओं तत् सत्॥

 

 

 



|| ओं तत् सत्||