Bhagavadgita !

Chapter 18

Slokas - Moksha Sannyasa Yoga

श्रीमद्भगवद्गीत
मोक्षसन्न्यास योगमु
पदुनॆनिमिदव अध्यायमु

अर्जुन उवाच:
सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश पृथक्केशि निषूदन ॥1||

स॥ हे महाबाहो !हे हृषीकेश ! हे केशि निषूदन! सन्न्यासस्य त्यागस्य तत्त्वं पृथक् वेदितुं इच्छामि॥

श्रीभगवानुवाच:
काम्यानां कर्मणं न्यासं सन्न्यासं कवयो विदुः।
सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः॥2||

स॥ काम्यानाम् कर्मणाम् न्यासं सन्न्यासं कवयः विदुः। सर्वकर्मफलत्यागम् त्यागम् विचक्षणाः प्राहुः॥

त्याज्यं दोषवदित्येके कर्म प्राहुः मनीषिणः।
यज्ञदान तपः कर्म न त्याज्यमिति चापरे॥3||

स॥ एके मनीषिणः दोषवत् कर्म त्याज्यम् इति प्राहुः।अपरे यज्ञ दान तपः कर्म न त्याज्यं इति च॥

निश्चयं शृणुमे तत्र त्यागे भरतसत्तम।
त्यागोहि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः॥4||

स॥ हे भरत सत्तम! तत्र त्यागे मे निश्चयम् शृणु । हे पुरुषव्याघ्र त्यागः त्रिविधः संप्रकीर्तितः॥

यज्ञदान तपः कर्म न त्याज्यं कार्यमेवतत् ।
यज्ञोदानं तपश्चैव पावनानि मनीषिणाम्॥5||

स॥ यज्ञ दान तपः कर्म न त्याज्यं । (सा) कार्यं एव च। यज्ञः तपः दानं ( अफलाभिसक्त) मनीषिणाम् पावनानि ( भवन्ति)॥

एतान्यपि तु कर्माणि संगं त्यक्त्वा फलानि च।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम्॥6||

स॥ हे पार्थ! एतानि कर्माणि अपि सङ्गम् त्यक्त्वा फलानि च त्यक्त्वा कर्तव्यानि इति मे निश्चितम् उत्तमम् मतम्॥

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते।
मोहात्तस्य परित्यागः तामसः परिकीर्तितः॥7||

स॥ नियतस्य ( वेदोक्त) कर्मणः सन्न्यसः तु न उपपद्यते। मोहात् तस्य परिग्रहःतामसः ( तामसत्यागः) इति परिकीर्तितः॥

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत्।
सकृत्वा राजसं त्यागं नैव त्यागफलं लभेत्॥8||

स॥ यः यत् कर्म काय क्लेश भयात् दुःखं इति एव ( मत्वा) त्यजेत् , सः राजसम् त्यागं कृत्वा त्यागफलम् न लभेत् एव॥

कार्यमित्येव यत्कर्म नियतं क्रियतेsर्जुन।
सङ्गं त्यक्त्वा फलं चैव त्यागः सात्त्विकोमतः॥9||

स॥ हे अर्जुन! नियतम् यत् कर्म कार्यं इति एव सङ्गं त्यक्त्वा फलं एव च त्यक्त्वा क्रियते सः त्यागः सात्त्विकः इति मतः॥

न द्वेष्ट्यकुशलं कर्म कुशलेनानुसज्जते।
त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः॥10||

स॥ सत्त्व समाविष्टः मेधावी छिन्न संशयः त्यागी अकुशलम् कर्म नद्वेष्टि । कुशले (कर्मे) न अनुषज्जते ( अनासक्तः भवति)॥

नहि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः।
यस्तु कर्मफलत्यागी स त्यागीत्यभिदीयते॥11||

स॥ कर्माणि अशेषतः ( संपूर्णरूपेण) त्यक्तुम् देहभृता न शक्यं हि । यः तु कर्म फल त्यागी ( भवति) सः त्यागी इति अभिदीयते॥

अनिष्टमिष्टं मिश्रं च त्रिविधः कर्मणः फलम्।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित्॥12||

स॥ अनिष्टं इष्टम् मिश्रं च त्रिविधं कर्मणः फलम् अत्यागिनाम् प्रेत्य भवति ।( कर्मफलत्यागिनां) सन्न्यासिनां तु क्वचित् न॥

पञ्चैतानि महाबाहो कारणानि निबोधमे।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्॥13||

स॥ हे महाबाहो ! सर्वकर्मणां सिद्धये कृतान्ते सांख्ये प्रोक्तानि एतानि पञ्चकारणानि मे वचनात् निबोध।

अधिष्टानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम्॥14||

स॥ अत्र अधिष्टानम् तथा कर्ता पृथक् विधं करणं च विविधाः चेष्टाः( क्रियाः) च पञ्चमम् दैवं च ( कारणानि भवन्ति)।

शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः।
न्यायं वा विपरीतं वा पञ्चैते तस्य हेतवः॥15||

स॥ नरः शरीरवाङ्मनोभिः न्यायं वा विपरीतं वा यत् कर्म प्रारभते तस्य एते पञ्च हेतवः (अस्ति)॥

तत्रैवं सति कर्तारं आत्मानं केवलं तु यः।
पश्यत्यकृत बुद्धित्वान् न स पश्यति दुर्मतिः॥16||

स॥ तत्र एवं सति यः अकृत बुद्धित्वात् केवलं आत्मानं तु कर्तारम् पश्यति सः दुर्मतिः ( आत्म स्वरूपं वा कर्म स्वरूपं) न पश्यति॥

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते।
हत्वाsपि स इमांल्लोकान् न हन्ति न निबध्यते॥17||

स॥ यस्य अहं कृतः भावः न ( भवति) , यस्य बुद्धिः ( कर्मणां) न लिप्यते सः इमान् लोकान् हत्वा अपि न हन्ति । सः (कर्मात् ) न निबध्यते॥

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्म चोदना।
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः॥18||

स॥ कर्म चोदना ज्ञानं ज्ञेयं परिज्ञाता इति त्रिविधा । कर्म संग्रहः करणम् आ इति त्रिविधः॥

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः।
प्रोच्यते गुणसङ्ख्याने यथावत् शृणुतान्यपि॥19||

स॥ गुणसंख्याने ज्ञानम् कर्म च कर्ता च गुणभेदतः त्रिधा एव प्रोच्यते । तानि अपि यथावत् शृणु॥

सर्वभूतेषु यैनैकं भावमव्ययमीक्षते।
अविभक्तं विभक्तेषु तत् ज्ञानं विद्धि सात्त्विकम्॥20||

स॥ विभक्तेषु सर्वभूतेषु एकम्‌अव्ययम् भावम् येन अविभक्तम् ईक्षते तत् ज्ञानम् सात्विकम् विद्धि॥

पृथक्त्वेनतु यज्ञानं नानाभावान्पृथग्विधान्।
वेत्ति सर्वेषु भूतेषु तत् ज्ञानं विद्धि राजसम्॥21||

स॥ यत् ज्ञानं सर्वेषु भूतेषु पृथक् विधान् नानाभावान् पृथक्त्वेनतु वेत्ति तत् ज्ञानं राजसम् विद्धि॥

यत्तु कृत्स्नवदेकस्मिन् कार्येसक्तमहैतुकम्।
अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम्॥22||

स॥ यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहैतुकम् अतत्त्वार्थवत् अल्पं च तत् ज्ञानं तामसं उदाहृतम्॥

नियतं सङ्गरहितम् अरागद्वेषतः कृतम्।
अफलप्रेप्सुना कर्मयत् तत् सात्त्विकमुच्यते॥23||

स॥ नियतम् यत् कर्म अफलप्रेप्सुना सङ्गरहितम् अरागद्वेषतः कृतम् तत् सात्विकम् कर्म इति उच्यते॥

यत्तुकामेप्सुना कर्म साहङ्कारेण वापुनः।
क्रियते बहुळायासं तद्राजसमुदाहृतम्॥24||

स॥ कामेप्सुना पुनः साहंकारेण वा बहुळायासं यत् कर्म तु क्रियते तत् कर्म राजसम् उदाहृतम्॥

अनुबन्धं क्षयं हिंसा मनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म यत् तत् तामसमुच्यते॥25||

स॥ अनुबन्धम् क्षयम् हिंसां पौरुषं अनपेक्ष्य मोहात् यत् कर्म आरभ्यते तत् तामसं उच्यते॥

मुक्तसङ्गोsनहं वादी धृत्साहसमन्वितः।
सिद्ध्यसिद्ध्योर्निविकारः कर्ता सात्त्विक मुच्यते॥26||

स॥ मुक्त सङ्गः अनहं वादी धृत्युत्साह समन्वितः सद्ध्यसिद्धोः निर्विकारः कर्ता सात्विकः कर्ता इति उच्यते॥

रागी कर्म फलप्रेप्सुः लुब्धो हिंसात्मकोsशुचिः।
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः॥27||

स॥ रागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः हर्षशोकान्वितः कर्ता राजसः कर्ता इति परिकीर्तितः॥

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोsलसः।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते॥28||

स॥ अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः आलसः विषादी दीर्घसूत्री च कर्ता तामस कर्ता इति उच्यते॥

बुद्धेर्भेदं धृतेश्चैव गुणतः त्रिविधं शृणु।
प्रोच्यमानमशेषेण पृथक्त्वेन धनंजय॥29||

स॥हे धनंजय ! बुद्धेः धृतेः च एव भेदम् गुणतः त्रिविधम् पृथक्त्वेन अशेषेण ( संपूर्ण स्वरूपेन) प्रोचय्मानम् शृणु॥

प्रवृत्तिंच निवृत्तिंच कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी॥30||

स॥हे पार्थ। या बुद्धेः प्रवृत्तिं च निवृत्तिं च कार्या कार्ये भया भये बंधम् मोक्षं च वेत्ति सा बुद्धि सात्विकी ॥

यया धर्ममधर्मं च कार्यं च अकार्यमेव च।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी॥31||

स॥हे पार्थ ! यया धर्मं अधर्मं च कार्यं च अकार्यमेव च अ यथावत् प्रजानाति साबुद्धिः राजसी॥

अधर्मं धर्ममिति या मन्यते तमसाssवृता।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी॥32||

स॥ हे पार्थ ! या बुद्धि तमसा आवृता अधर्मं धर्मं इति सर्वार्थान् विपरीतान् च मन्यते सा बुद्धिः तमासी ॥

धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी॥33||

स॥ हे पार्थ! अव्यभिचारिण्या यया धृत्या (युक्तः) मनः प्राणेन्द्रिय क्रियाः योगेनधारयते साधृतिः सात्विकी धृतिः॥

ययातु धर्मकामार्थान् धृत्या धारयतेsर्जुन।
प्रसङ्गेन फलाकांक्षी धृतिः सा पार्थ राजसी॥34||

स॥ हे पार्थ यया धृत्या तु फलाकांक्षी धर्म कामार्थान् प्रसङ्गेन धारयते सा धृतिः (विद्धि) राजसी॥

यया स्वप्नं भयं शोकं विषादं मदमेव च।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी॥35||

स॥ हे पार्य्ह यया दुर्मेधाः स्वप्नं भयम् शोकम् विषादम् मदं एव च न विमुञ्चति साधृतिः (विद्धि ) तामसी॥

सुखं त्विदानीं त्रिविधं शृणुमे भरतर्षभ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति॥36||

स॥ हे भरतर्षभ ! यत्र अभ्यासात् रमते दुःखान्तं च निगच्छति सुखम् तु । इदानीम् त्रिविधम् मे वचनात् शृणु॥

यत्तदग्रे विषमिव परिणामेsमृतोपमम्।
तत् सुखं सात्त्विकं प्रोक्तं आत्मबुद्धि प्रसादजम्॥37||

स॥ यत् तत् अग्रे विषमिव परिणामे अमृतोपमम् आत्मबुद्धि प्रसादजम् तत् सुखं सात्त्विकंप्रोक्तम्॥

विषयेन्द्रिय संयोगा द्यत्त दग्रेsमृतोपमम्।
परिणामे विषमिव तत् सुखं राजसं स्मृतं॥38||

स॥ यत् तत् विषयेन्द्रिय संयोगात् अग्रे अमृतोपमम् परिणामे विषम् इव भवति तत् सुखम् राजसम् स्मृतम्॥

यदग्रे चानुबन्दे च सुखं मोहनमात्मनः।
निद्रालस्य प्रमादोत्थं तत् तामसमुदाहृतम्॥39||

स॥ निद्र आलस्य परामादोत्थम् यत् सुखम् अग्रेच अनुबन्धे च आत्मनः मोहनम् ( करोति) तत् तामसम् उदाहृतम्॥

न तदस्ति पृथिव्यां वा दिवि देवेषु वापुनः।
सत्त्वं प्रकृतिजैर्मुक्तं यथेभिस्स्यात्रिभिर्गुणैः॥40||

स॥ प्रकृतिजैः एभिः त्रिभिः गुणैः मुक्तम् सत्त्वम् यत् स्यात् तत पृथिव्यां वा पुनः दिवि देवेषु न अस्ति॥

ब्राह्मण क्षत्रियविशां शूद्राणां च परन्तप।
कर्माणी प्रविभक्तानि स्वभाव प्रभावप्रभवैर्गुणैः॥41||

स॥ हे परन्तप! ब्राह्मण क्षत्रिय विशाम् शूद्राणां च कर्माणि स्वभावप्रभवैः गुणैः प्रविभक्तानि॥

शमो दमः तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म स्वभावजम्॥42||

स॥ शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च ज्ञानं विज्ञानमास्तिक्यं स्वभावजम् ब्राह्मं कर्म ॥

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धेचाप्य पलायनम्।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम्॥43||

स॥ शौर्यं तेजः धृतिः दाक्ष्यम् युद्धे अपलायनम् अपि च दानं ईश्वरभावः च स्वभावजम् क्षात्र कर्म॥

कृषि गोरक्षवाणिज्यं वैश्यं कर्म स्वभावजम्।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम्॥44||

स॥ कृषि गोरक्ष वाणिज्यं स्वभावजम् वैश्य कर्म ( भवति)। अपि परिचर्यात्मकं कर्म शूद्रस्य स्वभावजम् ॥

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः।
स्वकर्म निरतः सिद्धिं यथा विन्दति तत् शृणु॥45||

स॥ स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिं लभते स्वकर्मनिरतः यथा सिद्धिं विन्दति तत् शृणु॥

यतः प्रवृतिर्भूतानां येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः॥46||

स॥ यतः भूतानां प्रवृत्तिः येन इदम् सर्वं ततम् तं मानवः स्वकर्मणा अभ्यर्च्य सिद्धिं विन्दति॥

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्।
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्॥47||

स॥ स्वधर्मः विगुणः अपि अनुष्ठितात् परधर्मात् श्रेयान् । स्वभाव नियतम् कर्म कुर्वन् किल्बिषम्( पापम्) न आप्नोति॥

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्।
सर्वारम्भहि दोषेण धूमेनाग्निरिवावृताः॥48||

स॥ कौन्तेय ! सहजम् कर्म सदोषमपि न त्यजेत् । धूमेन अग्निः इव सर्वारम्भाः दोषेण आवृताः हि ॥

असक्ति बुद्धिः सर्वत्र जितात्मा विगतस्पृहः।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधि गच्छति॥49||

स॥ सर्वत्र असक्त बुद्धिः जितात्म विगतस्पृहः सन्न्यासेन परमाम् नैष्कर्म्य सिद्धिं अधिगच्छति॥

सिद्धिं प्राप्तो यथा ब्रह्म तथाssप्नोति निबोधमे।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा॥ 50||

स॥ हे कौन्तेय! सिद्धिं प्राप्तः यथा ब्रह्ममाप्नोति तथा ज्ञानस्य परा निष्ठाया यद् अस्ति तत् समासेन एव मे निबोध॥

बुद्ध्या विशुद्धया युक्तो धृत्याssत्मानं नियम्य च।
शब्दादीन् विषयां स्त्यक्त्वा रागद्वेषौ व्युदस्य च॥51||
विविक्तसेवी लघ्वाशी यतवाक्कायमानसः।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः॥52||
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते॥53||

स॥ विशुद्धया बुद्ध्या युक्तः धृत्या आत्मानम् नियम्यच शब्दादीन् विषयान् त्यक्त्वा रागद्वेषौ व्युदस्य च विविक्तसेवी लघ्वाशी यतवाक्कायमानसः नित्यं ध्यान योग परः वैराग्यं समुपाश्रितः अहंकारं बलं दर्पं कामम् क्रोधम् परिग्रहम् विमुच्य निर् ममः शांतः ब्रह्मभूयाय कल्पते॥

ब्रह्मभूतः प्रसन्नात्मा न शोचति नाकांक्षति।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम्॥54||

स॥ ब्रह्मभूतः प्रसन्नात्मा न शोचति न कांक्षति । सर्वेषु भूतेषु समः परां मद्भक्तिं लभते॥

भक्त्यामामभिजानाति यावान्यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्॥55||

स॥ भक्त्या माम् तत्त्वतः यावान् यः च अस्मि ततः माम् तत्त्वतः ज्ञात्वा तदन्तरम् विशते॥

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्॥56||

स॥सर्वकर्माणि सदा कुर्वाणः अपि मद्व्यापाश्रयः मत्प्रासादात् अव्ययम् शाश्वतम् पदम् आप्नोति॥

चेतसा सर्व कर्माणि मयि सन्न्यस्य मत्परः।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव॥57||

स॥ सर्वकर्माणि चेतसा मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य सततम् मच्चित्तः भव॥

मच्चित्तसर्वदुर्गाणि मत्प्रसादात्तरिष्यसि।
अथ चेत्त्वमहङ्कारान् न श्रोष्यसि विनंक्ष्यसि॥58||

स॥ मच्चित्तः मत्प्रसादात् सर्वदुर्गाणि तरिष्यसि। अथ त्वम् अहंकारात् न सॊष्यसि चेत् विनंक्ष्यसि॥

यद्यहङ्कारमाश्रित्य नयोत्स्य इति मन्यसे।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्षयति॥59||

स॥ यदि अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे चेत् एषः ते व्यवसायः मिथ्या प्रकृतिः त्वाम् नियोक्ष्यति ॥

स्वभावजेन कौन्तेय निबद्धस्स्वेन कर्मणा।
कर्तुं नेच्छसि मन्मोहात् करिष्यस्यवशोsतत्॥60||

स॥ कौन्तेय स्वभावजेन स्वेन कर्मणा निबद्धः मोहात् यत् कर्तुम् न इच्छसि तत् अपि अवशः अपि करिष्यसि॥

ईश्वरः सर्वभूतानां हृद्देशेsर्जुन तिष्टति।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया॥61||

स॥ हे अर्जुन! ईश्वरः मायया सर्वभूतानि यन्त्रारूढानि इव भ्रामयन् सर्वभूतानां हृद्देशे तिष्ठति॥

तमेव शरणं गच्छ सर्वभावेन भारत।
तत् प्रासादात्परं शान्तिं स्थानं प्राप्स्यसि शाश्वतम्॥62||

स॥ हे भारत! सर्वभावेन तम् ( हृदयत्स्थं) एव शरणं गच्छ । तत् प्रसादात् पराम् शान्तिम् शाश्वतम् स्थानम् प्राप्स्यसि॥

इति ते ज्ञानमाख्यातंगुह्याद्गुह्यतरं मया।
विमृश्यैतत् अशेषेण यथेच्छसि तथा कुरु॥63||

स॥इति गुह्यात् गुह्यतरम् ज्ञानम् मया ते आख्यातम् । एतत् अशेषेण विमृश्य यथा इच्छसि तथा कुरु॥

सर्वगुह्यतमं भूयः शृणुमे परमं वचः।
इष्टोsसि मे दृढमिति ततो वक्ष्यामिते हितम्॥64||

स॥ सर्वगुह्यतमम् परमम् मे वचः भूयः शृणु। (त्वं) मे दृढं इष्टः असि इति । ततः ते हितम् वक्ष्यामि॥

मन्मनाभव मद्भक्तो मद्याजीमां नमस्कुरु।
मामे वैष्यसि सत्यं ते प्रतिजाने प्रियोsसि मे॥65||

स॥ मन् मनाः मद्भक्तः मद्याजी भव। माम् नमस्कुरु। माम् एव एष्यसि ।(त्वं) मे प्रियः असि। ते सत्यं प्रतिजाने ॥

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥66||

स॥ सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज ॥ अहम् त्वां सर्वपापेभ्यो मोक्षयिष्यामि । माशुचः॥

इदं ते ना तपस्काय ना भक्ताय कदाचन।
न चाsशुश्रूषवे वाच्यं न च मां योsभ्यसूयति॥67||

स॥ते ( अभिहितम्) इदं ( गीताशास्त्रम्) कदाचन अ तपस्काय न वाच्यम्। अभक्ताया अशुश्रूषवे च न वाच्यम्। यः माम् अभ्यसूयति तस्मै च न वाच्यं॥

य इमं परमं गुह्यं मद्भक्तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः॥68||

स॥यः परमं गुह्यं इमम् गीताशास्त्रं मद्भक्तेषु अभिदास्यति मयि पराम् भक्तिं कृत्वा अशंसयहः माम् एव एष्यति॥

न च तस्मान् मनुष्येषु कश्चिन्मे प्रियकृत्तमः।
भविता न च मे तस्मात् अन्यः प्रियतरो भुवि॥69||

स॥मनुष्येषु तस्मात् मे प्रियकृत्तमः कश्चित् न च ।तस्मात् मे प्रियतरः भुवि भविता न च ॥

अध्येष्यते च य इमं धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाह मिष्टःस्यामिति मे मतिः॥70||

स॥ यः च धर्म्यम् आवयोः इमं संवादम् अध्वेष्यते ( अध्ययनं करोति इति) तेन ज्ञानयज्ञेन अहं इष्टः स्याम् इति मे मतिः॥

श्रद्धवान् अनसूयश्च शृणुयादपि यो नरः।
सोsपि मुक्तः शुभान् लोकान् आप्नुयात्पुण्यकर्मणाम्॥71||

स॥ यः नरः श्रद्धवान् अनसूयः च शृणुयात् अपि - सः अपि - ( पापकर्मणां)मुक्तः पुण्यकर्मणान् लोकान् आप्नोति॥

कच्छिदेतत् श्रुतं पार्थ त्वयैकाग्रेणचेतसा।
कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनंजय॥72||

स॥ हे पार्थ एतत् त्वया एकाग्रेण चेतसा श्रुतं कश्चित् । हे धनंजय ते अज्ञानसम्मोहः प्रणष्टः कश्चित् ?॥

अर्जुन उवाच:

नष्टोमोहः स्मृतिर्लब्धा त्वत् प्रासादान्मयाsच्युत।
स्थितोsस्मि गतसन्देहः करिष्ये वचनं तव॥73||

स॥ हे अच्युत! त्वत्प्रासादात् मोहः नष्टः। मया स्मृतिः लब्धा ।गतसंदेहः स्थितः अस्मि। तव वचनं करिष्ये॥

संजय उवाच:

इत्याहं वासुदेवस्य पार्थस्य च महात्मनः।
संवादमिममश्रौषं अद्भुतं रोमहर्षणम्॥74||

स॥इति अहं वासुदेवस्य महात्मनः पार्थस्य इमम् अद्भुतम् रोमहर्षनम् संवादम् अश्रौषम्॥

व्यासप्रासादात् श्रुतवानेतत् गुह्यतमं परम्।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम्॥75||

स॥ व्यास प्रसादात् अहम् गुह्यम् परम् एतत् योगम् स्वयम् कथयतः योगेश्वरात् कृष्णात् साक्षात् श्रुतवान्॥

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम्।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः॥76||

स॥ हे राजन् ! अद्भुतं पुण्यम्केशवार्जुनयोः इमं संवादं संस्मृत्य संस्मृत्य मुहुमुहुः हृष्यामि॥

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः॥77||

स॥ राजन् हरेः अत्यद्भुतम् तत् च रूपम् संस्मृत्य संस्मृत्य मे महान् विस्मयः भवति । पुनः पुनः च हृष्यामि॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्रश्रीर्विजयो भूतिर्ध्रुवान् इति मतिर्मम॥78||

स॥ यत्र योगेश्वरः कृष्णः (तिष्टति) यत्र धौर्धरः पार्थः (तिष्टति) तत्र श्रीः विजयः भूतिइः ध्रुवा नीतिः सन्ति इति मम मतिः॥

इति श्रीमन्महाभारते शतसहस्रिकायां संहितायां वैसिक्यां
श्रीमद्भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे मोक्षसन्न्यास योगो नाम
अष्टादशोsध्यायः
॥ओं तत् सत्॥