Bhagavadgita

Chapter 2 !

Sankya Yoga ! Slokas with prose order !

श्रीमद्भगवद्गीत
सांख्य योगमु
द्वितीयोध्यायः

तं तथा कृपया विष्टं अश्रुपूर्णाकुलेक्षणम् ।
विषीदंत मिदं वाक्यं उवाच मथुसूदनः ॥1||

स॥ तथा कृपया अविष्टं अश्रुपूर्णाकुलेक्षणं विषीदंतं तं ( अर्जुनं) मधुसूदनः उवाच ॥

श्री भगवानुवाच:
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्य जुष्टं अस्वर्ग्यं अकीर्तिकरं अर्जुन ॥2||

स॥ हे अर्जुन ! अनार्य जुष्टं अस्वर्ग्यं अकीर्तिकरं इदं कश्मलं विषमे त्वां कुतः समुपस्थितं ?

क्लैब्यं मास्मगमः पार्थ नैतत् त्व य्युपपद्यते ।
क्षुद्रं हृदय दौर्बल्यं त्वक्योत्तिष्ट परंतप ॥3||

स॥ हे पार्थ ! क्लैब्यं मास्म गमः एतत् त्वयि न उपपद्यते । हे परंतप ! क्षुद्रं हृदय दौर्बल्यं त्यक्त्वा उत्तिष्ठ ॥

अर्जुन उवाच:
कथं भीष्म महं संख्ये द्रोणं च मथुसूधन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥4||

स॥ हे मधुसूदन ! पूजार्हौ भीष्मं द्रोणं च संख्ये( युद्धे) अहं इषुभ्ः कथं प्रतियोत्स्यामि ॥

गुरू नहत्वापि महानुभावान्
श्रेयोभोक्तुं बैक्षमपीहलोके ।
हत्वा अर्थकामांस्तु गुरूनिहैव
भुंजिय भोगान् रुथिर प्रदिग्थान् ॥5||

स॥महानुभावान् गुरून् अहत्वा इहलोके भैक्ष्यं अपि भोक्तुं श्रेयः हि । गुरून् हत्वातु इहैव रुधिर प्रदग्धान् अर्थकामान् भोगान् भुंजीय ।

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा जयेम यदि वानो जयेयुः।
यानेव हत्वा न जिजीविषामः
तेवsस्थिताः प्रमुखे धार्तराष्ट्राः॥6||

स॥ नः कतरत् गरीयः एतत् च न विद्मः । जयेम यदि वा नः जयेयुः यदि वा ( न विद्मः) ।
यान् हत्वा न जिजीविषामः ते धार्त राष्ट्रा एव प्रमुखे ( सम्मुखे) अवस्थिताः ।

कार्पण्यदोषोsपहतस्वभावः
पृच्चामि त्वां धर्म सम्मूढचेताः ।
यत् श्रेयस्स्यान्निश्चितं ब्रूहितन्मे
शिष्यस्ते अहं शाधि मां त्वां प्रपन्नम्॥7||

स॥ कार्पण्यदोषोपहतस्वभावः (अहं) धर्म सम्मूढ चेताः त्वां प्रपच्छामि । यत् निश्चितं श्रेयः स्यात् तत् ब्रूहि । अहं ते शिष्यः । त्वां प्रपन्नं( शरणागतं) मां शाधि ।

न हि प्रपश्यामि ममापनुद्यात्
यच्चोक मुच्छोषण मिंद्रियाणाम्।
अवाप्य भूमा वसपत्न मृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥8||

स॥ भूमौ असपत्नं बुद्धं राज्यं अवाप्य( वा) सुराणां अधिपत्यं च (अवाप्य) अपि इंद्रियाणाम् उच्छोषणम् मम शोकं यत् अपनुद्यात् तत् न प्रपस्यामि (पश्यामि) हि ॥

संजय उवाच:
एवमुक्त्वा हृषीकेशं गुडाकेशः परंतपः।
न योत्स्ये इति गोविंदं उक्त्वा तूष्णीं बभूव ह ॥9||

स॥ परंतपः गुडाकेशः हृषीकेशं एवं उक्त्वा नयोत्स्ये इति गोविंदं उक्त्वा तूष्णीं बभूव ह ॥

तं उवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदंतं इदं वचः॥10||

स॥ हे भारत ! उभयोः सेनयोः मध्ये विषीदंतं तं ( अर्जुनम्) हृषीकेशः प्रहसन्निव इदं वचः उवाच ॥

श्री भगवानुवाच

अशोच्या नन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासू नगतासूंश्च नानु शोचंति पंडिताः ॥11||

स॥ त्वं अशोच्यान् अन्वशोचः । प्रज्ञावादांश्च भाषसे । पंडिताः गतसून् अगतसून् च न अनुशोचंति॥

नत्वेवाहं जातु नासं नत्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥ 12||

स॥ अहं जातु नासं (इति) न तु एव । त्वं न असीः इति न । इमे जनाधिपः ( न आसन् इति) न । अतः परं वयं सर्वे न भविष्यामः (इति) च न एव ॥

देहिनो अस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहांतरप्राप्तिः धीरः तत्र नमुह्यति ॥13||

स॥ देहिनः अस्मिन् देहे कौमारं यौवनं जरा यथा ( भवति) तथा देहांतर प्राप्तिः ( भवति) । तत्र धीरः न मुह्यति ॥

मात्रा स्पर्शास्तु कौंतेय शीतोष्ण सुखदुःखदाः ।
अगमापायिनो अनित्याः तां स्तितिक्षस्व भारत ॥14||

स॥ हे कौन्तेय ! मात्रा स्पर्शास्तु शीतोष्ण सुख दुःखदाः अगमापायिनः । अनित्याः ।हे भारत ! तान् तितीक्षस्व ॥

यं हि न व्यधयं त्येते पुरुषं पुरुषर्षभ।
सम दुःख सुखं धीरं सः अमृतत्वाय कल्पते ॥15||

स॥ हे पुरुषर्षभ ! एते सम दुःखं सुखं धीरं यं पुरुषं न व्यधयंति सः ( पुरुषः ) अमृतत्वाय ( मोक्षाय) कल्पते ।

न असतो विद्यते भावो न अभावो विद्यते सतः ।
उभयोरपि दृष्टः अंतस्त्वनयोः तत्व दर्शिभिः ॥16||

स॥ असतः भावः न विद्यते । सतः अभावः न विद्यते ।अनयोः उभयोः अपि अंतः तु तत्व दर्शिभिः दृष्ठः ॥

अविनाशितु तद्विद्धि येन सर्व मिदं ततं ।
विनाश मव्यय स्यास्य नकश्चित् कर्तुमर्हति ॥17||

स॥ इदं सर्वं येन ततम्( व्यापितं) तत् तु अविनाशि (इति) विद्धि ।अस्य अव्ययस्य विनाशम् कर्तुं न अर्हति ॥

अंतवंत इमे देहाः नित्यस्स्योक्ता श्शरीरिणः।
अनाशिनो अप्रमेयस्य तस्माद्युध्यस्व भारत ॥18||

स॥ नित्यस्य अनाशिनः अप्रमेयस्य शरीरिणः ( आत्मस्य) इमे देहाः अन्त वन्तः (इति) उक्ताः । तस्मात् युध्यस्व ॥

य एनं वेत्ति हंतारम् यश्चैनं मन्यते हतं ।
उभौ तौ न विजानीतो नायं हंति न हन्यते ॥19||

स॥यः एनं (अत्मन्) हंतारं वेत्ति यः एनं( अत्मन्) हतं मन्यते तौ उभौ न विजानीतः ।अयं ( अत्म) न हंति न हन्यते च ।

न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः ।
अजो नित्य श्शाश्वतः अयं पुराणो
न हन्यते हन्यमाने शरीरे ॥20||

स॥ अयम् ( आत्मा) कदाचित् न जायते । न म्रियते वा । न भूत्वा भूयः न भवितान । अयं अजः नित्यः । शाश्वतः । पुराणः ।शरीरे हन्यमाने (सति) न हन्यते ।

वेद विनाशिनं नित्यं य एन मज मव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हंति कं ॥21||

स॥ हे पार्थ ! यः येनं ( आत्मन्) अजम् अव्ययं (वेद) अविनाशिनं (वेद) नित्यं वेद सः पुरुषः कथं (घातयति) कं घातयति कं हन्ति ।

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरो अपराणि।
तथा सरीरानि विहाय जीर्णानि
अन्यानि संयाति नवानि देहे॥22||

स॥ यथा नरः जीर्णानि वासांसि विहाय अपराणि नवानि वासांसि गृह्णाति तथा देही ( आत्मन्) शरीराणि विहाय अन्यानि नवानि शरीराणि संयाति ॥

नैनं चिंदंति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयंत्यापो न शोषयति मारुतः ॥23||

स॥ एनं( आत्मन्) शस्त्राणि न चिन्दन्ति । पावकः एनं( अत्मन्) न दहति । आपः च एनं( आत्मन्) न क्लेदयंति । एनं आत्मन् मारुतः न शोषयति ।

अच्छेद्यो अयं अदाह्यो अयं अक्लेद्यो अशोष्य एवच ।
नित्य सर्व गतः स्थाणुः अचलोयं सनातनः ॥24||

स॥ अयं( अत्मा) अच्छेद्यः । अयम् ( अत्मा) अदाह्यः । (अयं अत्मा) अक्लेद्यः। ( अयं अत्मा) अशोष्यः एव च ।अयं नित्यः । अयं सर्वगतः । अयं स्थाणुः । अयं अचलः । अयं सनातनः ।

अव्यक्तो अयं अचिंत्यो अयं अविकार्यो अयं उच्यते।
तस्मात् एवं विचित्वैनं नानु शोचितु मर्हसि ॥25||

स॥ अयं अत्मा अव्यक्तः अयं अचिन्त्यः अयं अविकार्यः इति उच्यते । तस्मात् एनं (अत्मन्) एवं विदित्वा अनुशोचितुं न अर्हसि ।

अथ चैनं नित्य जातं नित्यं वा मन्यसे मृतं।
तथापि त्वम् महाबाहो न एवं शोचितु मर्हसि ॥26||

स॥ हे महाबाहो ! अथ च एनं (अत्मन्) नित्य जातं वा नित्यं मृतं वा मन्यसे तथा अपि एवम् शोचितुम् त्वं न अर्हसि ।

जातस्य हि ध्रुवोमृत्युः ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्यार्थे न त्वं शोचितु मर्हसि ॥27||

स॥ जातस्य मृत्युः धृवः हि । मृतस्य जन्म च धृवं । तस्मात् त्वं शोचितुम् न अर्हसि ।

अव्यक्तादीनि भूतानि व्यक्त मध्यानि भारत ।
अव्यक्त निधनान्येन तत्र का परिदेवना ॥28||

स॥ हे भारत ! भूतानि अव्यक्तादीनि व्यक्त मध्यानि अव्यक्त निधनान्येव ( भवंति) । तत्र परिदेवना का ।

अश्चर्यवत् पश्यति कश्चिदेनं
आश्चर्यवत् वदति तथैव चान्यः।
आश्चर्यवच्चैन मन्य श्रुणोति
श्रुत्वाप्येनं वेद न चैव कश्चित् ॥29||

स॥कश्चित् एनं (आत्मन्) अश्चर्यवत् पश्यति । तथैव कश्चित् एनं (आत्मन्) अश्चर्यवत् वदति । अन्यः च एनं (आत्मन्) आश्चर्यवत् शृणोति । श्रुत्वा अपि एनं कश्चित् च न वेद एव ।

देहे नित्यमवध्यो अयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ 30||

स॥ हे भारत ! सर्वस्य देहे यं देही ( अत्मा) नित्यं अवध्यः । तस्मात् सर्वाणि भूतानि त्वं शोचितुं न अर्हसि ।

स्वधर्मपि चावेक्ष्य न विकंपितु मर्हसि ।
धर्म्याद्धि युद्धात् श्रेयः अन्यत् क्षत्रियस्य नविद्यते ॥31||

स॥ स्वधर्मं अवेक्ष्य विकंपितुं न अर्हसि च । क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते ।

यदृच्चया चोपपन्नं स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभंते युद्ध मीदृशम् ॥32||

स॥ हे पार्थ! यदृच्छया उपपन्नम् अपावृतं स्वर्गद्वारं ईदृशम् युद्धं (ये) क्षत्रियाः लभन्ते ते सुखिनः ॥

अथ चेत्त्वं धर्म्य मिमं संग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिंच हित्वा पाप मवाप्ससि ॥33||

स॥ अथ त्वं इमम् धर्म्यं संग्रामम् न करिष्यति चेत् ततः स्वधर्मं कीर्तिंच हित्वा पापं अवाप्स्यसि ॥

अकीर्तिं चापि भूतानि कथयिष्यंति तेSव्ययाम् ।
संभावितस्य चा कीर्तिः मरणादतिरित्यते ॥34||

स॥ भूतानि ते अव्ययां अकीर्तिं कथयिष्यंति अपि च । संभावितस्य अकीर्तिः मरणात् च अतिरिच्यते (अधिकं भवति) ॥

भयाद्रणा दुपरतंमन्यंते त्वां महरथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्॥35||

स॥ येषाम् त्वं बहुमतः भूत्वा लाघवं यास्यसि (ते) महारथाः त्वाम् रणात् भयात् उपरतं मन्यंते च ।

अवाच्य वादांश्च बहून् वदिष्यंति तवाहिताः ।
निंदंतव सामर्थ्यं ततो दुःखतरं नु किम्॥36||

स॥ तव अवहिताः ( शत्रुः) तव सामर्थ्यं निंदतः बहून् अवाच्य वादांश्च वदिष्यंति । ततः दुःखतरं किम्?

हतो वा प्राप्स्यसे स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ट कौंतेय युद्धाय कृत निश्चयः ॥37||

स॥ हे कौन्तेय ! हतो वा स्वर्गं प्राप्यसे । जित्वा वा महीम् भोक्ष्यसे । तस्मात् युद्धाय कृत निश्चयः उत्तिष्ठ ।

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि॥38||

स॥ सुख दुःखे लाभा लाभौ जया जयौ समेकृत्वा ततः युद्धाय युज्यस्व। एवम् ( चेत्) पापं न अवाप्स्यसि।

एषा ते अभिहिते सांख्ये बुद्धि र्योगे त्वमां श्रुणु ।
बुद्ध्यायुक्तो यया पार्थ कर्मबंधं प्रहास्यसि ॥39||

स॥ हे पार्थ ! सांख्ये एषा बुद्धिः ते अभिहिता । यया बुद्ध्या युक्तः कर्मबंधं प्रहास्यसि तां योगेतु इमां शृणु।

नेहाभि क्रमनाशो अस्ति प्रत्यवायो नविद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायतो महते भयात् ॥40||

स॥ इह ( कर्मयोगे) अभिक्रम नाशः न अस्ति । प्रत्यवायः न विद्यते । अस्य धर्मस्य स्वल्पमपि महतः भयात् त्रायते ॥

व्यवसायात्मिका बुद्धिः एकेह कुरुनंदन ।
बहुशाखाः अनंताश्च बुद्धयो व्यवसायिनाम्॥41|

स॥ हे कुरुनंदन !इह व्यवसायात्मिका बुद्धिः एका (एव) । अव्यवसायिनाम् बुद्धयः बहुशाखाः अनन्ताश्च हि॥

यामिमां पुष्पितां वाचम् प्रवदंत्य विपश्चितः।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥42||
कामात्मानः स्वर्गपराः जन्मकर्म फलप्रदाम् ।
किया विशेष बहुळां भोगैश्वर्य गतिं प्रति ॥43||
भोगैश्वर्य प्रसक्तानां तयाsपहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समधौ न विधीयते ॥44||

स॥ हे पार्थ ! ( सर्वेषां) व्यवसायित्मिका बुद्धिः ( एकाअग्रबुद्धिः) समाधौ नविधीयते । वेद वाद रताः, न अन्यद् अस्ति इति वादिनः , कामात्मानः , स्वर्ग पराः , अविपश्चितः ( अविवेकः) जन्मकर्म प्रदां भोगैश्वर्य गतिं प्रति क्रिया विशेष बहुळां पुष्पितां याम् इमाम् वाचं प्रवदन्ति तया अपहृत चेतसां भोगैश्वर्य प्रसक्तानाम् (इमे) व्यवसायित्मिका बुद्धिः समाधौ नविधीयते ।

त्रैगुण्य विष यावेदाः निस्त्रैगुण्यो भवार्जुन ।
निर्द्वंद्वो नित्य सत्त्वोस्थो निर्योग क्षेम आत्मवान् ॥45||

स॥ हे अर्जुना ! वेदाः त्रैगुण्य विषयाः । त्वं निस्त्रैगुण्यः भव । निर्द्वंद्वः भव। नित्य सत्वस्थः भव। निर्योगक्षेमः भव । आत्म ज्ञानी भव ।

यावानर्थ उदपाने सर्वतः संप्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥46||

स॥ उदपाने यावानर्थः सर्वत संप्लुतोदके तावान् ( अर्थः) यथा भवति, ( तथैव) सर्ववेदेषु यावानर्थः तावान् अर्थः विजानतः ब्राह्मणस्य भवति ॥

कर्मण्येवाधिकारस्ते माफलेषु कदाचन ।
माकर्मफल हेतुर्भूः माते संगोsस्त्वकर्मणि ॥ 47||

स॥ ते कर्मण्येन अधिकारः । कदाचन फलेशु अधिकारः मा । कर्म फलहेतुः माभूः । अकर्मणि ते संगः मा अस्तु ।

योगस्तः कुरु कर्माणि संगं त्यक्त्वा धनंजय ।
सिध्य सिध्योः समोभूत्वा समत्वं योग उच्यते ॥48||

स॥ हे धनंजय ! (त्वं) योगस्थः संगं त्यक्त्वा सिध्यसिध्योः समो भूत्वा कर्माणि कुरु । समत्वं योगम् (इति) उच्यते ॥

दूरेणाह्यवरं कर्म बुद्धियोगात् धनंजय ।
बुद्धौ शरण मन्विछ्छ कृपणाः फलहेतवः ॥49||

स॥ हे धनंजय ! बुद्धियोगात् कर्म दूरेण अवरं हि ( हीनं भवति) ! (तदेव समत्व) बुद्धौ शरणं अन्विच्छ । फलहेतवः कृपणाः ( दीनाः) ।

बुद्धियुक्तो जहातिह उभे सुकृत दुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्॥50||

स॥ बुद्धियुक्तः उभे सुकृत दुष्कृते इह ( लोके) जहाति ( त्यजति) ।तस्मात् योगाय युज्यस्व । कर्मसु कौशलं योगः इति उच्यते ।

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म बंध विनिर्मुक्ताः पदं गच्चंत्यनामयम्॥51||

स॥ बुद्धि युक्ताः मनीषिणः कर्मजम् फलं त्यक्त्वा जन्म बंधविनिर्मुक्ताः ( भवन्ति) । अनामयं पदं गच्चन्ती हि (च) ॥

यदाते मोहकलिलं बुद्धिर्व्यतिरिष्यति ।
तदा गतांसि निर्वेदं श्रोतव्यस्य श्रुतस्य च॥52||

स॥ यदा ते बुद्धिः मोहकलिलं व्यतिरिष्यति तदा श्रोतव्यस्य च श्रुतस्य च निर्वेदं गन्तासि ( आप्नोसि) ॥

श्रुति विप्रति पन्नाते यदा स्थास्यति निश्चला ।
समाधा वचला बुद्धिः तदा योग मवाप्स्यसि॥53||

स॥ शृति विप्रति पन्ना ते बुद्धिः यदा निश्चला ( भवति) समाधौ अचला स्थास्यति ( भवति) तदा (त्वं)योगम् अवाप्स्यसि ॥

अर्जुन उवाच:

स्थित प्रज्ञस्य का भाषा समाधिस्तस्य केशव ।
स्थितधीः कीम् प्रभाषेत किमासीत व्रजेत किम्॥54||

स॥हे केशवा। समाधिस्थस्य स्थित प्रज्ञस्यबाषा का ? स्थित धीः किं प्रभाषेत ? किम् आसीत ? किम् व्रजेत?

श्री भगवानुवाच :
व्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्न्मन्येवात्मना तुष्टः स्थित प्रज्ञः तदोच्यते ॥55||

स॥ हे पार्थ ! यदा मनोगतान् सर्वान् कामान् व्रजहाति आत्मन्येव आत्मना तुष्ठः ( संतुष्ठः) भवति (तं) स्थित प्रज्ञ इति उच्यते ।

दुःखेष्वनुदिग्न मनाः सुखेषु विगत स्पृहाः ।
वीतराग भयक्रोथः स्थितधीः मुनिरुच्यते ॥56||

स॥ (यः) दुःखेषु अनुद्विग्न मनाः (यः) सुखेषु विगत स्पृहाः (यः) वीतराग भयक्रोधः (सः) मुनिः स्थितधीः इति उच्यते ।

यस्सर्वत्रानभिस्नेहः तत्तत्प्राप्य शुभाशुभं ।
नाभि नंदति नद्वेष्टि तस्य प्रज्ञा प्रतिष्टिता॥57||

स॥ यः सर्वत्र अनभिस्नेहः तत् तत् शुभं प्राप्य न अभिनंदति अशुभम् प्राप्य न द्वेष्ठि ( भवति) तस्य प्रज्ञा प्रतिष्ठिता ॥

यदा संहारयते चायम् कूर्मः अंगानिनीव सर्वशः ।
इंद्रियाणींद्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्टिता॥58||

स॥ यथा कूर्मः अंगानि संहरयति तथैव यदा अयं (योगी) इंद्रियार्थेभ्यः इंद्रियाणि सर्वशः संहरते तदा तस्य प्रज्ञा प्रतिष्ठिता ॥

विषया विनिवर्तंते निराहारस्य देहिनः ।
रसवर्जं रसोs प्यस्य परं दृष्ट्वा निवर्तते ॥59||

स॥ निराहरस्य देहिनः रसवर्जं विषयाः विनिवर्तन्ते ( निवर्तन्ते०। परम् ( परमात्मन्) दृष्ट्वा रसो अपि अस्य निवर्तते ॥

यततोह्यपि कौंतेय पुरुषस्य विपश्चितः ।
इंद्रियाणि प्रमाधीनि हरंति प्रसभं मनः ॥60||

स॥ हे कौन्तेय ! यततः ( प्रयत्नं कुर्वन्) अपि विपश्चितः पुरुषस्य मनः प्रमाधीनि इंद्रियाणि प्रसभं हरंति ।

तानि सर्वाणि संयम्य युक्त आसीत मत्परः।
वशे हि यस्येंद्रियाणि तस्य प्रज्ञा प्रतिष्टिता ॥61||

स॥ तानि सर्वाणि संयम्य युक्तः मत्परः आसीत । हि ( यतः) यस्यइंद्रियाणि वशे तस्य प्रज्ञा प्रतिष्ठिता ॥

ध्यायतो विषयान् पुंसः संगस्तेषूपजायते ।
संगात् संजायते कामः कामात् क्रोधोभिजायते ॥62||
क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः ।
स्मृति भ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणस्यति ॥63||

स॥ विषयान् ध्यायतः पुंसः तेषु संगः उपजायते । संगात् कामः संजायते। कामात् क्रोधः अभिजायते ।क्रोधात् सम्मोहः भवति । सम्मोहात् स्मृति विभ्रमः भवति । स्मृति भ्रंशात् बुद्धि नाशः भवति । बुद्धि नाशात् प्रणस्यति ॥

रागद्वेषवियुक्तैस्तु विषयानिंद्रियैश्चरन् ।
अत्मवश्यैर्विधेयात्मा प्रसादमधि गच्छति ॥64||

स॥ (सः) विधेयात्मा रागद्वेषवियुक्तैः आत्मवश्यैः इंद्रियैः विषयान् चरन् प्रसादं अधिगच्छति ।

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्न चेतसो ह्याशु बुद्धिः पर्यवतिष्टति॥65||

स॥ प्रसादे अस्य सर्व दुःखानां हानिः( विनाशः) उपजायते । (ततः) प्रसन्न चेतसः बुद्धिः अशु पर्यवतिष्ठति ( परमात्मन् अधि तिष्ठति) ॥ .

नास्ति बुद्धि रयुक्तस्य न चायुक्तस्य भावना ।
नचा भावयतश्शांतिः अशांतस्य कुतः सुखम् ॥66||

स॥ अयुक्तस्य बुद्धिः नास्ति । अयुक्तस्य भावनाच ( आत्म चिंतन) न ( भवति) । अभावयतः शांतिः च न ( भवति) । अशांतस्य सुखः कुतः ॥

इंद्रियाणां हि चरतां यन्मनोsनु विधीयते ।
तदस्य हरति प्रज्ञां वायुर्न्वामिवांभसि ॥67||

स॥ चरतां इंद्रियाणां यत् ( इंद्रियः) मनः अनुविधीयते तत् ( इंद्रियः) अस्य प्रज्ञां ( बुद्धिं) हरति हि - ( यथा ) अंभसे नावं वायुरिव हरति हि ॥

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।
इंद्रियाणींद्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्टिता ॥68||

स॥ हे महाबाहो! तस्मात् यस्य इंद्रियाणि इंद्रियार्देभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा ( बुद्धिः, विवेकः) प्रतिष्ठिता ॥

यानिशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि स निशा पश्यते मुनेः ॥69||

स॥ सर्वभूतानां या निशा तस्यां संयमी( योगी) जागर्ति । यस्यां भूतानि जाग्रति सा पश्यतः मुनेः निशा (भवति) ॥

अपूर्वमाणं अचल प्रतिष्टं
समुद्रमापः प्रविशंति यद्वत् ।
तद्वत् कामाः यं प्रविशंति सर्वे
सशांति माप्नोति न काम कामी॥70||

स॥ अपूर्वमाणं अचलप्रतिष्ठं समुद्रं आपः( नदी) यद्वत् प्रविशंति तद्वत् सर्वे कामाः यं ( ब्रह्मनिष्टापर योगी) प्रविशंति । सः शांतिं आप्नोति । काम कामी (शांतिं) न आप्नोति ।

विहाय कामान् यस्सर्वान् पुमांश्चरति निस्पृहाः।
निर्ममो निरहंकारः सशांतिमधिगच्चति ॥ 71||

स॥ यः पुमान् सर्वान् कामान् विहाय निस्पृहः भवति निर्ममः भवति निरहंकारः चरति सः शांतिं अधिगच्छति ॥

एषा ब्राह्मीस्थितिः पार्थ नैनां प्राप्य विमुह्यति।
स्थित्वाs स्यामंतकालेsपि ब्रह्म निर्वाण मृच्चति ॥72||

स॥ हे पार्थ ! ब्राह्मी स्थितिः एनां प्राप्य न विमुह्यति अंतकाले अपि अस्यां ( ब्राह्मी स्थितिं) स्थित्वा ब्रह्म निर्वाणं ऋच्छति ( अप्नोति) ॥

इति श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे
सांख्य योगोनाम
द्वितीयोsध्यायः ॥

॥ओम् तत् सत् ॥

॥ Om tat sat ||

 

|| Om tat sat ||