Bhagavadgita !

Chapter 3 - Karma Yoga !

Slokas !

श्रीमद् भगवद्गीत
तृतीय अध्यायः
कर्मयोगः

अर्जुन उवाच:
ज्यायसी चेत् कर्मणस्ते मताबुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजसि केशव ॥ 1 ||

स॥ हे जनार्दन ! बुद्धिः कर्मणः ज्यायसी (इति) ते मताचेत् तत् केशवा ! मां घोरे कर्मणि किं नियोजयसि ?।

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयो अहमाप्नुयाम् ॥2||

स॥ व्यामिश्रेणेव वाक्येन मे बुद्धिं मोहयशीव । अयं येन श्रेयः आप्नुयाम् तदेकं निश्चित्य वद ॥

श्री भगवानुवाच:

लोकेश्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ।
ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥ 3||

स॥ हे अनघ ! पुरा अस्मिन् लोके मया सांख्यानां ज्ञानयोगेन योगिनाम् कर्मयोगेन निष्ठा द्विविधा प्रोक्ता ॥

नकर्मणा मनारम्भात् नैष्कर्म्यं पुरुषोsश्नुते ।
न च सन्यसनादेव सिद्धिं समधिगच्छति ॥4||

स॥पुरुषः कर्मणानां अनारम्भात् नैष्कर्म्यं न अश्नुते । (कर्म) सन्न्यसनात् एव सिद्धिम् न च समधिगच्चति ॥

न हि कश्चित् क्षणमपि जातु तिष्ठत् अकर्मकृत्।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥ 5||

स॥ कश्चित् जातु क्षणमपि अकर्मकृत् न हि तिष्ठति । हि प्रकृतिजैः गुणैः सर्वः अवशः कर्म कार्यते ।

कर्मेंद्रियाणि संयम्य य अस्ते मनसा स्मरन्।
इंद्रियार्थान् विमूढात्मा मिथ्याचार स उच्यते ॥6||

स॥ यः कर्मेंद्रियाणि संयम्य मनसा इंद्रियार्थान् स्मरन् आस्ते सः विमूढात्मा मिथ्याचारः उच्यते ॥

यस्त्विंद्रियाणि मनसा नियम्यारभते अर्जुन ।
कर्मेंद्रियैः कर्मयोगं असक्तस्स विशिष्यते ॥7||

स॥ हे अर्जुना! यस्तु इंद्रियाणि मनसा नियम्य कर्मेंद्रियैः कर्मयोगं असक्तः आरभते सः विशिष्यते ( श्रेष्ठः भवति)॥

नियतं कुरुकर्मत्वं कर्म ज्यायो ह्यकर्मणः ।
शरीर यात्रापि च ते न प्रसिद्ध्येत् अकर्मणः ॥8||

स॥ त्वं नियतं कर्म कुरु । अकर्मणः कर्म ज्यायो हि । अकर्मणः ते शरीर यात्रा अपि च न प्रसिद्ध्येत् ( भवति) ।

यज्ञार्थात् कर्मणोsन्यत्र लोको अयं कर्मबंधनः।
तदर्थम् कर्म कौन्तेय मुक्तसंगः समाचर ॥9||

स॥हे कौन्तेय ! यज्ञार्थात् कर्मणः अन्यत्र अयं लोकः कर्मबन्धनः । तदर्थम् ( यज्ञार्थात्) कर्म मुक्तसंगः समाचर ॥

सहयज्ञाः प्रजास्सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेषवोsस्त्विष्ठ कामधुक् ॥ 10||

स॥ प्रजापतिः पुरा यज्ञाः सह प्रजाः सृष्ट्वा अनेन ( यज्ञेन) प्रसविष्वध्वम्, एषः वः इष्टकामधुक् अस्तु (इति)उवाच ॥

देवान्भावयतानेन तेदेवा भावयन्तु वः।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥11||

स॥ अनेन देवान् भावयत । ते देवाः वः भावयन्तु । ( तथा) परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ ॥

इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्ता न प्रदायैभ्यो यो भुज्ञ्तेस्तेन एव सः॥12||

स॥यज्ञभाविताः देवाः वःइष्टान् भोगान् दास्यन्ते हि । तैः दत्तान् ( भोगान्) एभ्यः अप्रदाय यः भुज्ञ्ते सः स्तेन एव च ॥

यज्ञशिष्टाशिनस्सन्तो मुच्यन्ते सर्व किल्बिषैः ।
भुज्ञेते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥13||

स॥ यज्ञशिष्ठाशिनः सन्तः सर्वकिल्बिषैः मुच्यन्ते । येतु आत्मकारणात् पचन्ति पापाः ते अघं( पापम्) भुञ्जते ॥

अन्नाद्भवन्ति भूतानि पर्जन्यात् अन्नसंभवः ।
यज्ञात् भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ॥14||
कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम् ।
तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्॥15||

स॥ अन्नात् भूतानि भवन्ति । पर्जन्यात् अन्न संभवः । यज्ञात् पर्जन्यः भवति । यज्ञः कर्म समुद्भवः । कर्मः ब्रह्मोद्भवम्। ब्रह्म ( वेद) अक्षर समुद्भवम् । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितं विद्धि ।

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति॥16||

स॥ हे पार्थ ! यः एवं प्रवर्तितम् चक्रं इह न अनुवर्तति सः अघायु:( पापजीविनः) , इन्द्रियारामः ( इंद्रियाणां आरामं करोति इति इन्द्रियारामः) मोघं ( न अमोघम्) जीवति ॥

यस्त्वात्मरतिरेव स्यादात्म तृप्तश्च मानवः।
आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ॥17||

स॥ यः मानवः आत्म रतिः एव आत्मतृप्तः च आत्मनि एव चसंतुष्टः चस्यात् तस्य कार्यं न विद्यते ॥

नैव तस्य कृतेनार्थो नाकृते नेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥18||

स॥ तस्य इह कृतेन अर्थः अकृतेन कश्चन दोषः न ( अस्ति) । अस्य सर्वभूतेषु अर्थव्यपाश्रयः कश्चित् न ( अस्ति) ॥

तस्मादसक्तस्सततं कार्यं कर्म समाचर।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥19||

स॥ तस्मात् ( त्वं) असक्तः सततं कार्यं कर्म समाचर । असक्तः कर्म आचरन् पूरुषः परम् ( मोक्षं) आप्नोति हि ॥

कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन् करुमर्हसि ॥ 20||

स॥ जनकादयः कर्मणैव संसिद्धिं( मोक्षं) आस्थिताहि । त्वं लोकसंग्रहं संपश्यन् अपि ( कर्म) कर्तुमेव अर्हसि ॥

यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनाः।
स यत्प्रमाणम् कुरुते लोकस्तदनुवर्तते ॥21||

स॥श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव ( आचरति) । सः यत् प्रमाणं कुरुते लोकः तत अनुवर्तते ॥

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किंचन ।
नानवाप्तं अवाप्तव्यं वर्त एव च कर्मणि ॥22||

स॥ हे पार्थ! मे त्रिषु लोकेषु कर्तव्यं किंचन न अस्ति। अनवाप्तं अवाप्तव्यं न अस्ति । तथापि च (अहं) कर्मणि वर्त एव च ।

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तंते मनुष्याः पार्थ सर्वशः ॥23||

स॥हे पार्थ ! यदि अहं जातु अतन्द्रितः ( सन्) कर्मणि न वर्तेयं ( ततः) मनुष्याः सर्वशः मम वर्त्म( मार्गं) अनुवर्तने ॥

उत्सीदेयुरिमे लोका न कुर्यां कर्मचेदहम् ।
संकरस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥24||

स॥अहं कर्म नकुर्यां चेत् इमे लोकाः उत्सीदेयुः ( भ्रष्ठः भवन्ति)। ( अहम्) संकरस्य च कर्ता स्याम् ।इमाः प्रजाःउपहन्याम् ।

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वां स्तथा आसक्तश्चिकीर्षुः लोक संग्रहम् ॥ 25||

स॥ हे भारत् ! अविद्याः कर्मणि (आ)सक्ताः यथा कर्म कुर्वन्ति तथा विद्वान् असक्तः लोक संग्रहंचिकीर्षुः ( कर्माणि) कुर्यात् ॥

न बुद्धिभेदं जनयेदज्ञानां कर्मसंगिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ 26||

स॥ विद्वान् कर्म संगिनां अज्ञानाम् बुद्धिभेदम् न जनयेत् सर्वकर्माणि (स्वयं) युक्तः समाचरन् जोषयेत् ।

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहंकार विमूढात्मा कर्ताहं इति मन्यते॥ 27||

स॥ प्रकृतेः गुणैः सर्वशः क्रियमाणानि कर्माणि अहंकारविमूढात्मा अहं कर्ता इतिमन्यते ॥

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणागुणेषु वर्तन्त इति मत्वा न सज्जते ॥28||

स॥ हे महाबाहो ! गुणकर्मविभागयोः तत्ववित्तु , गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥29||

स॥ (ये) प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते अकृत्स्नविदः ( अल्पज्ञः) मंदान् तान् कृत्स्नवित् ( ज्ञानि) न विचालयेत् ॥

मयि सर्वाणि कर्माणिसन्न्यस्याध्यात्म चेतसा ।
निराशीनिर्ममो भूत्वा युध्यस्व विगत ज्वरः ॥30||

स॥ सर्वाणि कर्माणि मयि अध्यात्म चेतसा सन्न्यस्य निराशीः निर्ममः भूत्वा विगत ज्वरः युध्यस्व ॥

ये मे मतमिदं नित्यं अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोअनसूयान्तो मुच्यन्ते तेsपि कर्मभिः ॥31||

स॥ ये मानवाः मे इदं मतं श्रद्धावन्तः अनसूयन्तः ( न असूयन्तः) नित्यं अनुतिष्ठन्ति ते अपि कर्मभिः मुच्यन्ते ॥

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञान विमूढांस्तान् विद्धि नष्टानचेतसः ॥32||

स॥ येतु मे एतत् मतम् अभ्यसूयन्तः न अनुतिष्ठन्ति तान् अचेतसः सर्व ज्ञान विमूढान् नष्ठान् विद्धि ॥

अदृशं चेष्ठते स्वस्याः प्रकृतेः ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥33||

स॥ ज्ञानवानपि स्वस्याः प्रकृतेः सदृशम् चेष्ठते भूतानि प्रकृतिम् यान्ति निग्रहः किं करिष्यति ॥

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्चेत्तौ ह्यस्य परिपन्थिनौ ॥34||

स॥ इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ तयोः वशम् न अगच्चेत् । तौ अस्य परिपन्थिनौ ॥

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥35||

स॥ स्व अनुष्ठितात् ( कर्मः) परधर्मात् विगुणः स्वधर्मः श्रेयान् ( अस्ति) । स्वधर्मे निधनम् ( मरणम्) श्रेयः । परधर्मः भयावहः ॥

अर्जुन उवाच:

अथ केन प्रयुक्तो अयं पापं चरति पूरुषः।
अनिच्चन्नपि वार्ष्णेय बलादिव नियोजितः ॥36||

स॥ हे वार्ष्णेय ! अथ अयम् पूरुषः केनप्रयुक्तः अनिच्छन् अपि बलात् नियोजित एव पापम् चरति ?।

श्री भगवानुवाच:

काम एष क्रोधएष रजोगुण समुद्भवः ।
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥37||

स॥ एषः रजोगुण समुद्भवः कामः । एषः (कामः) क्रोधः (भवति) । (एषः) महाशनः महापाप्मा (च) । एनं (कामं) इह वैरिणः विद्धि॥

धूमेनाव्रियते वह्नियथा अदर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥38||

स॥ यथा धूमेन अग्नि अव्रियते , (यथा) आदर्शः च मलेन ( अव्रियते) यथा उल्बेन गर्भः आवृतः , तथा तेन ( तत् कामेन) इदं ( आत्मज्ञानम्) आवृतम् ॥

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥39||

स॥हे कौन्तेय ! दुष्पूरेण अनलेनच कामरूपेण ज्ञानिनः नित्य वैरिणा एतेन ज्ञानम् आवृतम् ॥

इन्द्रियाणि मनोबुद्धिः अस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥40||

स॥ इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानं (इति) उच्यते । एषः( कामः) एतैः ( इन्द्रियैः) ज्ञानम् आवृत्य देहिनाम् विमोहयति ।

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥41||

स॥ हे भरतर्षभ ! तस्मात् त्वं आदौ इन्द्रियाणि नियम्य ज्ञान विज्ञान नाशनम् पाप्मानम् एनम्( कामं) हि प्रजहि ॥

इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥42||

स॥ इन्द्रियाणि पराणि । इन्द्रियेभ्यः मनः परम् । मनसः तु बुद्धिः परा। बुद्धे परतः यः तु सः ( अत्मा) आहुः ॥

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मान मात्मना ।
जहि शत्रुं महाबाहो कामरूप दुरासदम् ॥ 43||

स॥ हे महाबाहो ! एवं बुद्धेः परं आत्मानं बुद्ध्वा आत्मना ( विवेकबुद्ध्या) आत्मानं संस्तभ्य दुरासदम् कामरूपम् शत्रुं जहि ॥

ओम्
इति भगवद्गीता सूपानिषत्सु
ब्रह्म विद्यायाम् योग शास्त्रे
श्रीकृष्णार्जुन सं वादे कर्मयोगोनाम
तृतीयोध्यायः ।

॥ओम् तत् सत् ॥

 

 

|| Om tat sat ||