Bhagavadgita !

Chapter 4 - Jnyana Yoga !

Slokas !

भगवद्गीत
चतुर्थोsध्यायः
ज्ञान योगः

श्री भगवानुवाच:

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् ॥1||

स॥ अव्ययं इमं योगं अहं विवस्वते प्रोक्तवान् । विवस्वान् मनवे प्राह । मनुः इक्ष्वाकवे अब्रवीत् ।

एवं परम्पराप्राप्तं इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्ठः परन्तप ॥ 2 ||

स॥हे परन्तप ! एवं परंपरा प्राप्तं इमं राजर्षयः विदुः । महता कालेन स योगः इह नष्टः ॥

स एवायं मया तेsद्य योगः प्रोक्तः पुरातनः ।
भक्तोsसि मे सखाचेति रहस्यं ह्येतदुत्तमम् ॥ 3 ||

स॥ (त्वं) मे भक्तः सखाच असि इति पुरातनः सः एव अयं योगः अद्य ते मया प्रोक्तः । उत्तमम् एतत् योगं रहस्यं हि ।

अर्जुन उवाच :

अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ 4 ||

स॥ भवतः जन्म अपरं । विवस्वतः जन्म परम् । आदौ त्वं प्रोक्तवान् इति एतत् कथं विजानीयाम् ।

श्री भगवानुवाच:

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तानयहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥ 5 ||

स॥ हे अर्जुन ! मे तव च जन्मानि बहूनि व्यतीतानि । तानि सर्वाणि अहं वेद । हे परन्तप ! त्वं नवेत्थ ॥

अजोsपि सन्न व्ययात्मा भूतानां ईश्वरोsपि सन् ।
प्रकृतिं स्वामधिष्टाय संभवामि आत्ममायया॥ 6 ||

स॥ (अहम्) अजः अपि सन् अव्ययात्मा अपि सन् भूतानाम् ईस्वरः अपि सन् स्वां प्रकृतिं अधिष्ठाय आत्म मायया संभवामि ॥

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानं अधर्मस्य तदात्मानम् सृजाम्यहम् ॥ 7 ||

स॥ हे भारत॥ यदा यदा धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानम् भवति तदा आत्मानम् अहम् सृजामि ॥

परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् ।
धर्म संस्थापनार्थाय संभवामि युगे युगे ॥ 8 ||

स॥ साधूनां परित्राणाय दुष्कृतां विनाशाय च धर्म संस्थापनार्थाय युगे युगे संभवामि ॥

जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोsर्जुन ॥ 9 ||

स॥ हे अर्जुना । यः एवं मे दिव्यं जन्म कर्म तत्त्वतः वेत्ति सः देहं त्यक्त्वा पुनः जन्म न एति । सः माम् एति ॥

वीतराग भय क्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञान तपसा पूता मद्भावमागताः ॥10 ||

स॥ वीतराग भयक्रोथाः मन्मयाः माम् उपाश्रिताः बहवः ज्ञानतपसा पूताः मद्भावम् आगताः ॥

ये यथा मां प्रपद्यन्ते तां स्तथैव भजाम्यहम् ।
ममवर्त्मानु वर्तन्ते मनुष्याः पार्थ सर्वशः ॥ 11 ||

स॥ हे पार्थ ! ये यथा मां प्रपद्यंते तान् तथा एव अहं भजामि । मनुष्याः मम वर्त्म सर्वशः अनुवर्तन्ते ॥

कांक्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ 12||

स॥ कर्मणां सिद्धिम् कांक्षतः इह देवताः यजन्ते हि , कर्मजा सिद्धिः मानुषे लोके क्षिप्रम् भवति ॥

चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तार मव्ययम् ॥ 13 ||

स॥ चातुर्वर्ण्यं गुणकर्म विभागशः मया सृष्ठं। तस्य कर्तारमपि माम् अकर्तारं अव्ययम् विद्धि ।

नमां कर्माणि लिम्पन्ति नमे कर्मफले स्पृहा ।
इति मां योsभिजानाति कर्मभिःन स भद्यते ॥ 14 {{

स॥ माम् कर्माणि न लिंपन्ति । मे कर्मफले स्पृहा न । इति माम् यः अभिजानाति सः कर्मभिः न भद्यते ।

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्वं पूर्वैः पूर्वतरं कृतम् ॥15||

स॥ एवं ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतं । तस्मात् त्वं पूर्वैः कृतं पूर्वतरम् कर्म एव कुरु ॥

किं कर्म किमकर्मेति कवयोsप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसेsशुभात्॥ 16||

स॥ कर्म किं अकर्म किं इति अत्र कवयः अपि मोहिताः । यत् ज्ञात्वा अशुभात् मोक्ष्यसे तत् कर्म ते प्रवक्ष्यामि ॥

कर्मणोह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥ 17 ||

स॥ कर्मणः अपि बोद्धव्यं । विकर्मणः बोद्धव्यम्। अकर्मणः च बोद्धव्यम् ।कर्मणः गतिः गहना हि ॥

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ 18||

स॥ कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः पश्येत् सः मनुष्येषु युक्तः कृत्स्नकर्मकृत् भवति ।

यस्य सर्वे समारम्भाः काम संकल्पवर्जिताः ।
ज्ञानाग्नि दग्धकर्माणां तमाहुः पण्डितं बुधाः ॥ 19 ||

स॥ यस्य सर्वे समारम्भाः कामसंकल्प वर्जिताः ज्ञानाग्नि दग्धकर्माणम् तं पंडितं इति बुधाः आहुः॥

त्यक्त्वा कर्म फलासज्ञ्गं नित्य तृप्तो निराश्रयः ।
कर्मण्यभिप्रवृतो sपि नैव किंचित्करोति सः ॥ 20||

स॥ फलासंगं त्यक्त्वा नित्य तृप्तः निराश्रयः कर्मणि अभिप्रवृत्तः सः किंचित् ( कर्म) न करोति एव ॥

निराशीर्यत चित्तात्मा त्यक्त सर्व परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्॥ 21 ||

स॥ निराशीः यतचित्तात्मा त्यक्त सर्व परिग्रहः शारीरं केवलं कर्म कुर्वन् किल्बिषम् ( पापं) न आप्नोति ॥

यदृच्चालाभसंतुष्ठो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 22||

स॥यदृच्चालाभसंतुष्टः द्वन्द्व अतीतः वि मत्सरः सिद्धौ असिद्धौ च कृत्वा अपि सः न निबध्यते ॥

गतसज्ञ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥ 23||

स॥ गत संगस्य मुक्तस्य ज्ञानावस्थित चेतसः यज्ञाय आचरतः कर्म समग्रं प्रविलीयते ॥

ब्रह्मार्पणम् ब्रह्महविः ब्रह्मग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ 24 ||

स॥ (यज्ञे) अर्पणं ब्रह्म । हविः ब्रह्म । ब्रह्मग्नौ ब्रह्मणा हुतं ब्रह्म एव । ब्रह्म कर्म समाधिना तेन गन्तव्यं ब्रह्म एव ।

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ 25||

स॥ अपरे योगिनः दैवं यज्ञमेव पर्युपासते ।अपरे यज्ञेनैव यज्ञम् ब्रह्मग्नौ उपजुह्वति ॥

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ 26||

स॥ अन्ये श्रोत्रादीनि इन्द्रियाणि संयम अग्निषु जुह्वति ।अन्य शब्दादीन् विषयान् इन्द्रियाग्निषु जुह्वति ॥

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥ 27 ||

स॥ अपरे सर्वाणि इंद्रियकर्माणि प्राण कर्माणि च ज्ञानदीपिते आत्म संयम अग्नौ जुह्वति ॥

द्रव्य यज्ञा तपो यज्ञा योग यज्ञास्तथापरे ।
स्वाध्याय ज्ञानयज्ञश्च यतयः संशितव्रताः ॥ 28 ||

स॥ अपरे द्रव्य यज्ञाः अपरे तपो यज्ञा अपरे तपो यज्ञा अपरे योग यञा ः तथा अपरे स्वाध्याय ज्ञान यज्ञा । ते यतयः संशित व्रताः ।

अपाने जुह्वति प्राणं प्राणेsपानं तथाsपरे ।
प्राणापान गतीरुद्ध्वा प्राणायामपरायणाः ॥ 29 ||

स॥ प्राणायामपरायणाः अपरे प्राणापान गती रुद्ध्वा अपाने प्राणं तथा प्राणे अपानम् जुह्वति ॥

अपरे नियताहारः प्राणान् प्राणेषु जुह्वति ।
सर्वेsप्येते यज्ञविदो यज्ञक्षपित कल्मषाः ॥30||

स॥ अपरे न्यताहारः प्राणान् प्राणेषु जुह्वति । एते सर्वे अपि यज्ञविदः यज्ञ क्षपित कल्मषाः ॥

यज्ञशिष्टामृत भुजो यान्ति ब्रह्म सनातनम्।
नायं लोकोsस्त्ययज्ञस्य कुतोsन्यःकुरुसत्तम ॥ 31||

स॥ हे कुरुसत्तम ! यज्ञशिष्ठा मृतभुजः सनातनम् ब्रह्म यान्ति । अयज्ञस्य अयं लोकः नास्ति । अन्यह् कुतः ॥

एवं बहुविथा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान् विद्धि तान् सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥ 32||

स॥ एवम् बहुविथाः यज्ञाः ब्रह्मणः मुखे वितताः । तान् सर्वान् कर्मजान् वित्थि ।एवं ज्ञात्वा विमोक्ष्यसे ॥

श्रेयान् द्रव्यमयाद्यज्ञा ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ 33||

स॥ हे परन्तप ! द्रव्यं अयात् यज्ञात् ज्ञान यज्ञः श्रेयान् । हे पार्थ ! सर्वं कर्म अखिलम् ज्ञाने परिसमाप्यते ॥

तद्विद्धि प्रणि पातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनः तत्त्व दर्शिनः ॥ 34 ||

स॥ तत् ज्ञानं प्रणिपातेन परिप्रश्नेन सेवया विद्धि । तत्त्व दर्शिनः ज्ञानिनः ते उपदेश्यन्ति ॥

यत् ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ 35||

स॥ हे पाण्डव ! यत् ज्ञात्वा पुनः एवम् मोहम् न यास्यसि येन भूतानि अशेषेण अत्मनि अथो मयि द्रक्ष्यसि ( तत् ज्ञानम् विद्धि !)

अपि चेदपि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥ 36||

स॥ सर्वेभ्यः पापेभ्यः पापकृत्तमः अपि चेत् अपि सर्वं वृजिनम् ( पापम्) ज्ञानप्लवेनैव साम्तरिष्यसि ॥

यथैथांसि समिद्धोsग्निः भस्मसात्कुरुतेsर्जुन।
ज्ञानाग्नि सर्वकर्माणि भस्मसात्कुरुते तथा ॥ 37||

स॥ हे अर्जुना ! समिद्धः अग्निः एथांसि यथा भस्मसात् तथा ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत् स्वयं योगसंसिद्धः कालेनात्मनि विंदति॥ 38 ||

स॥ इह ज्ञानेन सदृशं पवित्रं न विद्यते हि । तत् योगसंसिद्धिः कालेन आत्मनि स्वयम् विंदति ॥

श्रद्ध्वान् लभते ज्ञानं तत्परः संयतेन्द्रियः।
ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति॥ 39 ||

स॥ श्रद्धवान् तत्परः संयतेंद्रियः ज्ञानं लभते ।ज्ञानम् लब्ध्वा पराम् शांतिम् अचिरेण अधिगच्चति ॥

अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोsस्ति न परो न सुखं संशयात्मनः ॥40||

स॥ अज्ञश्च अश्रद्धधानश्च संशयात्मा विनश्यति ।संशयात्मा अयं लोकः नास्ति । परं न । सुखं अपि नास्ति ॥

योगसन्न्यस्तकर्माणां ज्ञानसंछिन्नसंशयम् ।
आत्मवंतं न कर्माणि निबध्नंति धनंजय ॥ 41 ||

स॥ हे धनंजया ! योगसन्यस्त कर्माणम् ज्ञानसंच्छिन्न संशयम् आत्म वन्तं कर्माणि न निबध्नंति ॥

तस्मादज्ञान संभूतं हृत्थ्सं ज्ञानासिनात्मनः ।
चित्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ 42||

स॥ हे भारत ! तस्मात् आत्मनः हृद् स्थम् अज्ञानसंभूतम् एनं संशयम् ज्ञानासिना चित्वा योगम् आतिष्ठ ॥

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योग शास्त्रे
श्रीकृष्णार्जुन संवादे ज्ञानयोगो नाम
चतुर्थोsध्यायः ॥
॥ओम् तत् सत्

|| Om tat sat ||