Bhagavadgita !

Chapter 5 -Karma Sannyasa Yoga ! !

Slokas !

भगवद्गीत
पंचमोध्यायः
कर्म सन्यास योगमु

अर्जुन उवाच:

सन्न्यासं कर्मणां कृष्ण पुनर्योगंच शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥

स॥ हे कृष्ण ! कर्मणां सन्न्यासं योगं च शंससि । एतयोः यत् श्रेयः तत् एकं मे ब्रूहि ॥

श्रीभगवानुवाच:

सन्न्यासः कर्मयोगश्च निश्श्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥

स॥ सन्न्यासः कर्मयोगः च उभौ निश्श्रेयसकरौ । तयोः तु कर्मसन्न्यासात् कर्मयोगः विशिष्यते ॥

ज्ञेयस्स नित्य सन्न्यासी यो न द्वेष्टि नकांक्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥

स॥ हे महाबाहो ! यः न द्वेष्ठि न कांक्षति सः नित्य सन्न्यासी (इति) ज्ञेयः । हि निर्द्वंदः सुखं बन्धात् प्रमुच्यते ॥

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्दिताः ।
एकमप्यास्थितः सम्यक् उभयोर्विन्दते फलम् ॥

स॥ सांख्ययोगौ ( कर्मयोगः ज्ञानयोगः च) पृथक् (इति) बालाः प्रवदन्ति । पण्डिताः न प्रवदन्ति । उभयोः एकं अपि सम्यक् आस्थितः (सः) उभयोः फलं विन्दति ॥

यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥

स॥ सांख्यैः यत् स्थानं प्राप्यते तत् योगैः अपि गम्यते ।सांख्यंच योगं च एकं (इति) यः पश्यति सः (एव परमार्थ तत्त्वं) पश्यति ॥

सन्न्यासस्तु महाबाहो मुनिर्ब्रह्म न चिरेणाधिगच्छति ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥

स॥ हे महाबाहो ! सन्न्यासः तु ( ज्ञानयोगः) अयोगतः (कर्मयोगं विना) आप्तुं दुःखं ( भवति) । (कर्म) योग युक्तः मुनिः अचिरेण ब्रह्मं अधिगच्छति ॥

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्म भूतात्म कुर्वन्नपि न लिप्यते ॥

स॥ योग युक्तः विशुद्धात्मा विजितात्मा जितेंद्रियः सर्वभूतात्म भूतात्म ( कर्म) कुर्वन् अपि न लिप्यते ॥

नैवकिंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन् गच्छन् स्वपन् श्वसन्॥
प्रलपन् विशृजन् गृहणन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥

स॥ तत्ववित् युक्तः पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इंद्रियार्थेषु वर्तन्ते इति धारयन् किंचित् न एव करोमि इति मन्येत ॥

ब्रह्माण्याधाय कर्माणी सज्ङं त्यक्त्वा करोति यः।
लिप्यते न स पापेन पद्म पत्र मिवांभसा ॥

स॥ यः कर्माणि ब्रह्मणि आधाय संगं त्यक्त्वा करोति सः अंभसा पद्मपत्रं इव पापेन न लिप्यते ॥

कायेन मनसा बुध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति संगं त्यक्त्वा आत्मशुद्धये ॥

स॥ योगिनः आत्मशुद्धये संगं त्यक्त्वा कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि कर्म कुर्वन्ति ॥

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्।
अयुक्तः काम कारेण फलेसक्तो निबध्यते ॥

स॥ युक्तः कर्मफलं त्यक्त्वा नैष्ठिकीं शान्तिं आप्नोति । अयुक्तः कामकारेण फले सक्तः निबध्यते ॥

सर्व कर्माणी मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्नकारयन् ॥

स॥ वशी देही मनसा सर्वकर्माणि सन्न्यस्य न एव कुर्वन् न कारयन् नवद्वारे पुरे सुखं आस्ते ॥

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफल संयोगं स्वभावस्तु प्रवर्तते ॥

स॥ प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न । कर्मफलसंयोगम् (अपि) न सृजति । स्वभावः तु प्रवर्तते ॥

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥

स॥ विभुः कस्यचित् पापम् न आदत्ते ।सुकृतं च एव न (आदत्ते)। अज्ञानेन ज्ञानं आवृतम्। ( तस्मात्) तेन जंतवः मुह्यंति ॥

ज्ञानेन तुतदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥

स॥आत्मनः ज्ञानेनतु ( आत्मज्ञानात्) येषां तत् अज्ञानं नाशितं तेषां ज्ञानं अदित्यवत् तत् परम् प्रकाशयति॥

तद्बुद्धय स्तदात्मान स्तन्निष्ठा स्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञान निर्धूत कल्मषाः ॥

स॥ तत् बुद्धयः तत् आत्मानः तत निष्ठाः तत् परायणाः (ते) ज्ञान निर्धूत कल्मषाः अपुनरावृत्तिम्( मोक्षं) गच्छन्ति ॥

विद्या विनय संपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनिचैव श्वपाके च पण्दिताः समदर्शिनः ॥

स॥ विद्या विनय संपन्ने बाह्मणे गवि हस्तिनि शुनि च एव श्वपाके च समदर्शिनः सः पण्डिताः (इति मन्यते)॥

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥

स॥ येषां मनः साम्ये स्थितम् तैः इह एव सर्गः जितः।निर्दोषं समं हि ब्रह्म । तस्मात् ते ब्रह्मणी स्थिताः ॥

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चा प्रियम्।
स्थिरबुद्धि रसम्मूढो ब्रह्मविद्ब्रह्मणि स्थितः॥

स॥ स्थिर बुद्धिः असम्मूडः ब्रह्मणि स्थितः ब्रह्मवित् प्रियं प्राप्य (या) अप्रियं च प्राप्य (सः) न उद्विजेत् ॥

बाह्यस्पर्षेष्वेसक्तात्मा विन्दन्त्यात्मनि स्थितम्।
स ब्रह्मयोग युक्तात्मा सुखमक्षयमश्नुते ॥

स॥बाह्यस्पर्षेषु असक्त आत्मा आत्मनि यत् सुखं विन्दति सः ब्रह्मयोग युक्तात्मा अक्षयं सुखं आश्नुते ॥

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥

स॥ हेकौन्तेय ! संस्पर्शजाः भोगाः ये (सन्ति) ते दुःखयोनय एव हि । (ते) अदि अन्तवन्तः (अपि)। (ततः) बुधः तेषु न रमते ॥

शक्नोतीहैव यस्सोढुं प्राक्छरीरविमोक्षनात् ।
कामक्रोदोद्भवं वेगं स युक्तः स सुखी नरः ॥

स॥ यः प्राक् शरीर विमोक्षणात् इह एव कामक्रोधोद्भवं वेगं सोढुम् शक्नोति सः नरः युक्तः (योगिः) । सः सुखी (च)।

यः अन्तःसुखः अन्तरारामः तथा अन्तर्ज्योतिरेव च ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोsधिगच्छति ॥

स॥ यः अन्तः सुखः अंतरारामः तथा यः अन्तर्ज्योतिः एव सः योगी ब्रह्म भूतः ब्रह्म निर्वाणम् अधिगच्छति ॥

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूत हिते रताः ॥

स॥ क्षीण कल्मषाः छिन्नद्वैधाः यतात्मानः (यः) सर्वभूते रताः (ते) ऋषयः ब्रह्मनिर्वाणं लभन्ते ॥

काम कोधवियुक्तानां यतीनां यत चेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥

स॥ कामक्रोधवियुक्तानां यतचेतसाम् विदितात्मनाम् यतीनाम् ब्रह्मनिर्वाणम् अभितः( सर्वत्र) वर्तते ॥

स्पर्सान् कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भृवोः।
प्राणापानौ समौ कृत्वा नसाभ्याण्तरचारिणौ ॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्ष परायणः ।
विगतेच्छा भयक्रोधो यस्सदामुक्त एव सः ॥

स॥ यः स्पर्शान् बहिः कृत्वा चक्षुः भ्रुवोः अन्तरे एव (कृत्वा) नासाभ्यान्तरचारिणौ प्राणापानौ समौ कृत्वा यतेंद्रिय मनोबुद्धिः इच्छा भय क्रोधः विगतः मोक्ष परायणः मुनिः सः सदा मुक्तः एव ॥

भोक्तारं यज्ञतपसां सर्वलोक महेश्वरम्।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्चति ॥

स॥ यज्ञतपसा भोक्तारं सर्वलोक महेश्वरम् सर्वभूतानां सुहृदं मां ज्ञात्वा शांतिं ऋच्छति ॥

इति श्रीमद्भवद्गीता सूपनिषत्सु ब्रह्म विद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे कर्मसन्न्यासयोगोनाम
पंचमोध्यायः
ओम् तत् सत्

 

|| Om tat sat ||