Bhagavadgita !

Chapter 6

Atma samyamana yoga - Slokas !

|| Om tat sat ||

भगवद्गीत
आत्म संयम योगमु
आऱव अध्यायमु

श्री भगवानुवाच:

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।
स सन्न्यासी च योगी च न निरग्निर्नचाक्रियः ॥

स॥ यः कर्मफलं अनाश्रितः कार्यं कर्म करोति सः सन्न्यासी योगी च । निरग्निः न ( सन्न्यासी भवति)। अक्रियः न च (सन्न्यासी भवति)

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्तसंकल्पो योगी भवति कश्चन ॥

स॥ हे पाण्डव ! यं सन्न्यासम् इति प्राहुः तं योगं इति विद्धि । हि असन्न्यस्त संकल्पः कश्चन योगी न भवति ।

आरुरुक्ष्मोर्मुनेर्योगं कर्मकारण मुच्यते ।
योगारूढस्य तस्यैव शमः कारण मुच्यते ॥

स॥ योगं आरुरुक्षोः मुनेः कर्म कारणं (इति) उच्यते । योगारूढस्य तस्यैव शमः कारणं (इति) उच्यते ॥

यदाहि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्वसंकल्प सन्न्यासी योगारूढस्तदोच्यते ॥

स॥ यदा हि इन्द्रियार्थेषु न अनुषज्जते , कर्मसु न ( अनुषज्जते) ,(सः) सर्व संकल्प सन्न्यासी ( भवति) तदा (सः) योगारूढः (इति)उच्यते ॥

उद्धरेदात्माना आत्मानं नात्मान मवसादयेत् ।
अत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥

स॥ आत्मना आत्मानं उद्धरेत् । आत्मानं न अवसादयेत् । हि आत्मनः अत्म एव बन्धुः । आत्मनः आत्म एव रिपुः।

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः।
अनात्मनस्तु शतृत्वे वर्तेतात्मैव शत्रुवत् ॥

स॥ एन आत्मनैव आत्मा जितः तस्य आत्मा आत्मनः बन्धुः । अनात्मनस्तु आत्मा शत्रुवत् शतृत्वे वर्तेत ।

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानावमानयोः ॥

स॥जितात्मनः प्रशान्तस्य शीतोष्णसुखदुःखेषु तथा मानावमानयोः परमात्मा समाहितः ॥

ज्ञानविज्ञान तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्म कांचनः ॥

स॥ ज्ञान विज्ञान तृप्तात्मा कूटस्थः विजितेन्द्रियः समलोष्ठाश्मकांचनः योगी युक्तः इतिउच्यते ॥

सुहृन्मित्रार्युदासीन मध्यस्थ द्वेष्य बन्दुषु।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥

स॥ सुहृत् मित्र अरि उदासीन मध्यस्थ द्वेष्य बन्धुषु साधुषु पापेषु समबुद्धिः (सः) विशिष्यते ॥

योगी युञीत सततं आत्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशी रपरिग्रहः ॥

स॥ योगी रहसि स्थितः एकाकी यतचित्तात्मा निराशीः अपरिग्रहः सततम् आत्मानम् युञ्जीत ॥

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नाति नीचं चेलाजिन कुशोत्तरम्॥
त्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञाद्योगमात्मविशुद्धये ॥

स॥ शुचौ देशे न अति उच्छ्रितं न अति नीचम् चेलाजिनकुशोत्तरम् स्थिरं आसनम् आत्मनः पर्तिष्ठाप्य, तत्र आसने उपविश्य, मनः एकाग्रं कृत्वा यतच्चित्तेन्द्रिय क्रियः आत्म शुद्धये योगं युञ्ज्यात् ॥

समं काय शिरोग्रीवं धारयन्नचलं स्थिरः।
संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
प्रशान्तात्मा विगतभीर्भ्रह्मचारिव्रते स्थितः।
मनस्संयम्य मच्छित्तो युक्त आसीत मत्परः ॥

स॥ काय शिरोग्रीवम् कंठं समम् , अचलम् धारयन् स्थिरः , दिशः च न अवलोकयन्, स्वं नाशिकाग्रं संप्रेक्ष्य ,प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः , मनः संयम्य, मत् चित्तः , मत् परः ,युक्तः आसीत ॥

युञ्ज्न्नेवं सदा आत्मानं योगी नियतमानसः ।
शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥

स॥ नियतमानसः योगी सदा एवम् आत्मानम् युञ्जन् , मत् संस्थाम्, निर्वाणपरमाम् शान्तिं अधिगच्छति ॥

नात्यश्नतस्तु योगोsस्ति न चैकान्तमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुना ॥

स॥ हे अर्जुन योगः अति अश्नतः तु न अस्ति । एकान्तं अनश्नतः न (योगः), अतिस्वप्नशीलस्य न , जाग्रतः च न एव ॥

युक्ताहार विहारस्य युक्तचेष्ठस्य कर्मसु ।
युक्त स्वप्नाव भोधस्य योगो भवति दुःखहा॥

स॥ युक्ताहार विहारस्य कर्मसु युक्तचेष्ठस्य युक्त स्वप्नावभोधस्य योगः दुःखह भवति ॥

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निस्पृहास्सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥

स॥ यदा चित्तं विनियतं सत् आत्मएव अवतिष्ठते, सर्वकामेभ्यः निस्पृहः, तदा युक्तः उच्यते ॥

यथा दीपो निवातस्थो नेञ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥

स॥ निवातस्थः दीपः यथा नञ्जते सा आत्मनः योगम् युञ्जतः योगिनः यतचित्तस्य उपमा स्मृता ॥

यत्रो परमते चित्तं निरुद्धं योगसेवया ।
यत्रचैवात्मना आत्मानं पश्यन्नात्मनि तुष्यति॥
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः॥
यं लभ्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते ॥
तं विद्या दुःख्संयोगवियोगं योगसज्ञितम् ।
स निश्चयेन योक्तव्यो योगोsनिर्विण्णचेतसा ॥

स॥योग सेवया निरुद्धम् चित्तम् यत्र उपरमते ,
यत्र आत्मना आत्मानं पश्यन् आत्मन्येव तुष्यति ,
यत्र स्थितः अयम् यत् अतीन्द्रियम् बुद्धिग्राह्यम् अत्यन्तिकं च तत् सुखम् वेत्ति च, तत्त्वतः नैव चलति ,
यं लब्ध्वा अपरम् लाभं ततः अधिकं न मन्यते ,
यस्मिन् स्थितः गुरुणा दुःखेन अपि न विचाल्यते ,
दुख संयोग वियोगं तं योग सञ्जितम् विद्यात् ,
सयोगः अनिर्विण्णचेतसा निश्चयेन योक्तव्यः ॥

संकल्प प्रभवान् कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥

शनैः शनैरुपरमेद्भुध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् ॥

स॥ संकल्प प्रभवान् कामान् सर्वान् अशेषतः त्यक्त्वा , मनसा ऎव इंद्रियग्रामम् समन्ततः विनियम्य , धृति गृहीतया बुद्ध्या शनैः शनैः उपरमेत् , मनः आत्म संस्थं कृत्वा किंचित् अपि न चिन्तयेत् ॥

यतो यतो निश्चरति मनश्चंचलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥

स॥ चंचलं अथिरं मनः यतः यतः निश्चरति , ततः ततः एतत् ( मनः) नियम्य आत्मनि एव वशं नयेत् ॥

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्म भूत मकल्मषम् ॥

स॥ प्रशान्त मनसं शान्तरजसम् ब्रह्म भूतम् अकल्मषम् एनम् योगिनम् उत्तमम् सुखं उप एति हि ॥

युञ्जन्नेवं सदा आत्मानं योगी विगत कल्मष:।
सुखेन ब्रह्मसंस्पर्शं अत्यन्तं सुखमश्नुते ॥

स॥ एवं सदा अत्मानम् युञ्जन् विगतकल्मषः योगी सुखेन ब्रह्म संस्पर्शम् अत्यन्तम् सुखम् अश्नुते ॥

सर्वभूतस्थ मात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योग युक्तात्मा सर्वत्र समदर्शनः ॥

स॥ यॊगयुक्तात्मा सर्वत्र समदर्शनः आत्मानम् सर्वभूतस्थम् सर्वभूतानि आत्मनि च ईक्षते ॥

योमां पश्यति सर्वत्रमयि पश्यति ।
तस्याहं न प्रणस्यामि स च मे नप्रणस्यति ॥

स॥ यः सर्वत्र माम् पश्यति , सर्वं च मयि पश्यति तस्य अहं न प्रणस्यामि । सः च मे न प्रणस्यति ॥

सर्वभूत स्थितं योमां भजत्येकत्वमास्थितः।
सर्वथा वर्तमानो अपि स योगी मयि वर्तते ॥

स॥ सर्वभूतस्थितम् माम् यः एकत्वम् आस्थितः भजति ,स योगी सर्वथा वर्तमानः अपि मयि वर्तते ॥

अत्मौपन्येन सर्वत्र समं पश्यति योsर्जुन।
सुखं वा यदि वादुःखं सयोगी परमो मतः ॥

स॥ हे अर्जुना ! सर्वत्र सुखं वा दुःखम् यदि वा अत्मौपम्येन समं यः पश्यति सः योगी परम(श्रेष्ठः) इति मतः ॥

अर्जुन उवाच:

योsयं योगस्त्वया प्रोक्तस्साम्येन मधुसूधन ।
एतस्याहं न पश्यामि चञ्चलत्वात्थ्सितिं स्थिराम् ॥

स॥ हे मथुसूधना। साम्येन यः अयं योगः त्वया प्रोक्तः एतस्य स्थिरां स्थितिम् चंचलत्वात् अहं न पश्यामि ॥

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥

स॥ हे कृष्णा ! मनः चंचलं , मनः प्रमाधि, मनः बलवत् धृडं इति\ तस्य निग्रहं वायोः इव सुदुष्करम् अहं मन्ये ॥

श्रीभगवानुवाच :

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

स॥ हे महाबाहो मनः दुर्निग्रहं चलम् (इति) अशंसयम् । ( तथापि) हे कौन्तेय ! अभ्यासेनतु वैराग्येण च गृह्यते ॥

असंशयतात्मना योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्यो अवाप्तुमुपायतः ॥

स॥असंयतात्मना योगः दुष्प्रापः इति मे मतिः । वश्यात्मना तु यतता उपायतः अवाप्तुम् शक्यः ॥

अर्जुन उवाच :

अयतिश्रद्धयोपेतो योगाच्चलित मानसः ।
अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

स॥ हे कृष्ण ! श्रद्धया उपेतः अयतिः योगात् चलित मानसः योगसंसिद्धिम् अप्राप्य कां गतिं गच्छति ।

कच्चिन्नोभयविभ्रष्टश्चिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥

स॥ महाबाहो ब्रह्मणः पथि अप्रतिष्ठः विमूढः उभयविभ्रष्ठः छिन्नाभ्रं इव न नश्यतिकच्छित् ॥

एतं मे संशयं कृष्ण च्छेत्तु मर्हस्य शेषतः ।
त्वदन्यः संशयस्यास्य च्चेता नह्युपपद्यते ॥

स॥ हे कृष्ण ! मे एतं संशयम् अशेषतः छेत्तुम् अर्हसि । अस्य संशयस्य छेत्ता त्वत् अन्यः न हि उपपद्यते ॥

श्रीभगवानुवाच:

पार्थनैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥

स॥ हे पार्थ तस्य इह विनाशः न विद्यते एव । अमुत्र न । हे तात ! कल्याणकृत् कश्चित् दुर्गतिं न गच्छति हि ॥

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः।
शुचीनां श्रीमतां गेहे योगभ्रष्ठोsभिजायते ॥

स॥ योग भ्रष्ठः पुण्यकृताम् लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनाम् श्रीमतां गेहे अभिजायते ॥

अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥

स॥ अथवा धीमताम् योगिनां कुले एव भवति ! ईदृशम् जन्म यत् एतत् हि लोके दुर्लभतरम् ।

तत्र सं बुद्धि संयोगं लभते पौर्व दैहिकम् ।
यतते च ततो भूयसंसिद्धौ कुरुनन्दन ॥

स॥ हे कुरुनन्दन ! तत्र पौर्वदेहिकं तं बुद्धिसंयोगम् लभते । ततः भूयः संसिद्धौ यतते च ।

पूर्वाभ्यासेन तैनेव ह्रियते ह्यवशोsपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥

स॥ सः अवशः अपि तेन पूर्वाभ्यासेन एव ह्रियतेहि । योगस्य जिज्ञासुः अपि शब्दब्रह्मं अतिवर्तते ॥

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेक जन्म संसिद्धिस्ततो याति परां गतिम्॥

स॥ प्रयत्नात् यतमानः योगीतु संशुद्धकिल्बिषः अनेक जन्म संसिद्धिः ततः परां गतिं याति ॥

तपस्विभ्योधिको योगी ज्ञानिभ्योsपि मतोsधिकः ।
कर्मिभ्याश्चाधिको योगी तस्माद्योगी भवार्जुन ॥

स॥ हे अर्जुन ! योगी तपस्विभ्यः अधिकः । ज्ञानिभ्यः अपि अधिकः मतः । योगि कर्मिभ्यः च अधिकः । तस्मात् योगी भव ।

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धवान् भजते यॊ मां स मे युक्ततमो मतः ॥

स॥ सर्वेषां योगिनाम् अपि यः मद्गतेन अंतरात्मना श्रद्धवान् मां भजते सः युक्ततमः (इति) मे मतिः ॥

ओम्
इति श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम
षष्ठोध्यायः ॥

 

 

|| om tat sat ||