Bhagavadgita !

Chapter 7

Gnyana Vignyana yoga !

भगवद्गीत
एडव अध्यायमु
विज्ञानयोगमु

श्री भगवानुवाच

मय्यासक्त मनाः पार्थ योगं युञ्जन्मदाश्रयः।
असंशयं समग्रं मां यथा ज्ञास्यसि तत् शृणु॥

स॥ हे पार्थ ! मयि आसक्तमनाः मदाश्रयः योगं युञ्जन् मां असंशयम् समग्रं यथा ज्ञास्यसि तत् शृणु ॥

ज्ञानं ते अहं सविज्ञानं इदं वक्ष्याम्यशेषतः।
यत् ज्ञात्वा नेह भूयो न्यज्ञाsतव्यमवशिष्यते ॥

स॥ यत् ज्ञात्वा इह भूयः ज्ञातव्यं अन्यत् न अवशिष्यते इदं सविज्ञानम् ज्ञानम् अशेषतः ते वक्ष्यामि ॥

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः॥

स॥ मनुष्याणां सहस्रेषु कश्चित् सिद्धये यतति । यततानां सिद्धानां अपि कश्चित् मां तत्त्वतः वेत्ति ॥

भूमिरापोsनलो वायुः खं मनोबुद्धिरेवच ।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥

स॥ भूमिः आपः अनलः खम् मनः बुद्धिः अहंकार एवच इति मे इयं प्रकृतिः अष्टधा भिन्ना ॥

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम्।
जीवभूतं महाबाहो ययेदं धार्यते जगत् ॥

स॥ महाबाहो इयं अपरा इतः तु अन्यां यया इदं जगत् धार्यते (ताम्) जीवभूताम् मे प्रकृतिम् परां वित्थि ॥

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रळयस्तथा ॥

स॥ सर्वाणि भूतानि तद्योनीनि इति उपधारय । अहम् कृत्स्नस्य जगतः पभवः तथा प्रळयः ॥

मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
मयि सर्वमिदं प्रोतं सूत्रे मणि गणाइव॥

स॥ हे धनंजय ! मत्तः परतरं किंचित् अपि न अस्ति । सूत्रे मणिगणाइव मयि इदं सर्वं प्रोतम् ॥

रसोsहमप्सु कौन्तेय प्रभास्मि शशि सूर्ययोः।
प्रणवः सर्व वेदेषु शब्दः खे पौरुषं नृषु॥

स॥ हे कौन्तेय ! अप्सु रसः। शशि सूर्ययोः पभा। सर्ववेदेषु प्रणवः ।खे शब्दः । नृषु पौरुषं अपि ।

पुण्यो गन्धः पृथिव्यां च तेजशास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु॥

स॥ पृथिव्यां पुण्यः गन्धः च । विभावसौ तेजः च अस्मि । सर्वभूतेषु जीवनम् ! तपस्विषु तपः च अस्मि।

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्।
बुद्धिर्बुद्धि मतामस्मि तेजस्तेजस्विनामहम् ॥

स॥ हे पार्थ ! माम् सर्व भूतानां सनातनम् बीजः विद्धि ।हं बुद्धिमतां बुद्धिः । तेजस्विनां तेजः अस्मि ।

बलं बलवतां चाहं कामरागविवर्जितम्।
धर्नाविरुद्धो भूतेषु कामोsस्मि भरतर्षभ ॥

स॥ भरतर्षभ ! अहं बलवताम् कामराग विवर्जितम् बलम् । भूतेषु धर्माविरुद्धः कामः अस्मि ॥

ये चैव सात्विका भावा राजसा स्तामसाश्चये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥

स॥ सात्विकाः भावाः ये राजसाः च तामसाः च ये तान् मत्तः एव इति विद्धि । तु तेषु अहम् न ।ते मयि सन्ति ।

त्रिभिर्गुणमयैर्भावैभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥

स॥ एभिः त्रिभिः गुणमयैःभावैभिः सर्वं इदं जगत् मोहितं ।एभ्यः परं अव्ययम् मां न अभिजानाति ।

देवी ह्येषागुणमयी मम माय दुरत्यया ।
मामेव ये प्रपद्यन्ते मयामेतां तरन्ति ते ॥

स॥ हि देवी गुणमयी एषा मम माया दुरत्यया । मां एव ये प्रपद्यन्ते ते एताम् मायां तरन्ति ॥

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः।
माययाsपहृत ज्ञाना असुरं भावमाश्रिताः ॥

स॥ दुष्कृतिनं मूढाः मायया अपहृत ज्ञानाः ।असुरं भावं आश्रिताः ।नराधमाः माम् न प्रपद्यन्ते ॥

चतुर्विधा भजन्ते मां जनाः सुकृतिनोsर्जुन ।
आर्तो जिज्ञासुरर्थारी ज्ञानी च भरतर्षभ ॥

स॥ भरतर्षभ ! आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च चतुर्विधाः सुकृतिनः जनाः माम् भजन्ते ॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोsत्यर्थमहं स च मम प्रियः ॥

स॥ तेषां नित्ययुक्तः एक भक्तः ज्ञानी विशिष्यते । ज्ञानिनः अहं अत्यर्थम्प्रियः हि ! सः च मम प्रियः ॥

उदाराः सर्व एवैते ज्ञानीत्वात्मैव मे मतम् ।
आस्थितः स हियुक्तात्मा मामेवानुत्तमां गतिम् ॥

स॥ एते सर्वे उदाराः एव । ज्ञानीतु आत्म एव इति मे मतः।हि सः युक्तात्मा (सन्) मांएव अनुत्तमाम् गतिं आस्थितः ॥

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा दुर्लभः ॥

स॥ बहूनां जन्मनाम् अन्ते ज्ञानवान् (सन्) सर्वं वासुदेवः इति माम् प्रपद्यते । सः महात्मा सुदुर्लभः ।

कामैस्तॆस्तॆर्हृतज्ञानाः प्रपद्यन्तेsन्यदेवताः ।
तं तं नियमास्थाय प्रकृत्या नियतास्स्वया ॥

स॥ स्वया प्रकृत्या नियताः तैः तैः कामैः हृतज्ञानाः तं तं नियमम् अस्थाय अन्यदेवताः प्रपद्यन्ते ॥

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्यचलां श्रद्धां तामेव विदधाम्यहम् ॥

स॥ यः यः भक्तः याम् याम् तनुं स्रद्धया अर्चितुं इच्छति तस्य तस्य श्रद्धाम् अचलाम् विदधामि ॥

स तया श्रद्धया युक्तः तस्याराधन मीहते ।
लभते च ततः कामान् मयैव विहितान् हि तान् ॥

स॥ सः तया श्रद्धया तस्य आराधनम् ईहते ।मया एव विहितान् तान् कामान् हि ततः लभते ॥

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् ।
देवान् देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥

स॥। अल्पमेधसाम् तेषाम् तत् फलम् तु अन्तवत् भवति । देव यजः देवान् यान्ति । मद्भक्ताः आम् अपि यान्ति ।

अव्यक्तं व्यक्ति मापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥

स॥ अव्ययम् अनुत्तमम् परं मम भावं अजानन्तः अबुद्धयः अव्यक्तम् माम् व्यक्तिं आपन्नम् मन्यते ॥

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोsयं नाभिजानाति लोको मामजमव्ययम् ॥

स॥ योगमाया समावृतः अहं सर्वस्य प्रकाशः न। मूढः अयं लोकः माम् अजम् अव्ययम् नाभिजानाति ॥

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥

स॥ हे अर्जुना! अहम् समतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद । मांतु कश्चन न वेद ॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परंतप ॥

स॥ हे परन्तप ! भारत ! सर्गे इच्छाद्वेषसमुत्थेन द्वन्द्व मोहेन सर्वभूतानि सम्मोहम् यान्ति ॥

येषाम् त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्व मोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥

स॥पुण्यकर्मणां एषां जनानां अन्तगतम् ते द्वन्द्वमोह निर्मुक्ता धृढव्रताः मां भजन्ते ॥

जरामरण मोक्षाय ममाश्रित्य यतन्ति ये।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥

स॥ ये जरामरण मोक्षाय माम् आश्रित्य ते कृत्स्नम् अध्यात्मं अखिलं कर्म च तत् ब्रह्म विदुः ॥

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेsपि च मां ते विदुर्युक्तचेतसः ॥

स॥ ये स अधिभूताधिदैवम् स अधियज्ञं च माम् विदुः ते प्रयाणकाले अपि च युक्त चेतसः माम् विदुः ॥

ओम्
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे विज्ञानयोगो नाम
सप्तमोsध्यायः ॥

 

|| om tat sat ||