Devi Mahatmyam ! !!

!Devi Sapta Sati ||

Chapter 8 Slokas

||om tat sat||


उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसत् शीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
अष्टमाध्यायः

ऋषिरुवाच॥
चण्डे च निहते दैत्ये मुण्डे च विनिपातिते।
बहुळेषु च सैन्येषु क्षयितेष्वसुरेश्वरः॥1||

ततः कोपपराधीनचेताः शुम्भः प्रतापवान्।
उद्योगं सर्वसैन्यानां दैत्यानाम् आदिदेश ह ॥2||

अद्य सर्वबलैः दैत्याः षडशीतिरुदायुधाः।
कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः॥3||

कोटिवीर्याणि पंचाशत् असुराणां कुलानि वै।
शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया॥4||

कालक दौर्हृदा मौर्याः कालकेयाः तथापराः।
युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम॥5||

इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः।
निर्जगाम महासैन्यसहस्रैः बहुभिर्वृतः॥6||

आयान्तं चण्डिका दृष्ट्वा तत्सैन्य मति भीषणम्।
ज्यास्वनैः पूरयामास धरणी गगनान्तरम्॥7||

ततः सिंहोमहानादम् अतीव कृतवान्नृप।
घण्टास्वनेन तान्नादान् अम्बिका चोपबृंहयत् ॥8||

धनुर्ज्यासिंहघण्टानां नादापूरितदिंग्मुखा।
निनादैर्भीषणैः काळी जिग्ये विस्तारितानना॥9||

तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम्।
देवी सिंहस्तथा काळी सरोषैः परिवारिता॥10||

एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम्।
भवायामरसिंहानाम् अतिवीर्य बलान्विताः॥11||

ब्रह्मेश गुह विष्णूनां तथेन्द्रस्य च शक्तयः।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैः चण्डिकां युयुः॥12||

यस्यदेवस्य यद्रूपं यथा भूषणवाहनम्।
तद्वदेव हि तत् शक्तिः असुरान्योद्धुमाययौ॥

हंसयुक्त विमानाग्रे साक्षसूत्र कमंडुलुः।
अयाता ब्रह्मणः शक्तिः ब्रह्माणी साभिधीयते॥13||

माहेश्वरी वृषारूडा त्रशूलवरधारिणी।
महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा॥14||

कौमारी शक्ति हस्ता च मयूरवरवाहना।
योधुमभ्याययौ दैत्यानम्बिका गुहरूपिणी॥15||

तथैव वैष्णवी शक्तिः गरुडोपरि संस्थिता।
शंखचक्रगदाशारंग खड्गहस्ताभ्युपाययौ॥16||

यज्ञवाराहमतुलं रूपं या बिभ्रतो हरेः।
शक्तिः साप्याययौ तत्र वाराहीं बिभ्रती तनुम्॥17||

नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः ।
प्राप्ता तत्र सटाक्षेप क्षिप्तनक्षत्र संहतिः॥18||

वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता।
प्राप्ता सहस्र नयना यथा शक्रः तथैव सा॥19||

ततः परिवृतस्ताभिरीशानो देवशक्तिभिः।
हन्यन्तामसुराः शीघ्रं ममप्रीत्याह चण्डिकाम्॥20||

ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा।
चण्डिका शक्तिरत्युग्रा शिवाशतनिनादिनी॥21||

सा चाहा धूम्रजटिलमीशानमपराजिता।
दूतस्त्वं गच्छ भगवान्पार्श्वं शुम्भनिसुम्भयोः॥22||

ब्रूहि शुम्भनिशुम्भं च दानवावति गर्वितौ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थितः॥23||

तैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः।
यूयां प्रयात पाताळं यदि जीवितुमिच्छथ॥24||

बलावले पादथचेत् भवन्तो युद्धकांक्षिणः।
तथागच्छत तृप्त्यन्तु मच्छिवाःपिशितेन वः॥25||

यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम्।
शिवदूतीति लोकेsस्मिन् स्ततः सा ख्यातिमागता॥26||

तेsपि श्रुत्वा वचो देव्याः शर्वाख्यातम् महासुराः।
आमर्षापूरिता जग्मुर्यतः कात्यायनी स्थिता॥27||

ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः।
ववर्षुरुद्धतामर्षाः तां देवीममरारयः॥28||

सा च तान् प्रहितान् बाणान् शूलशक्तिपरश्वथान्।
चिच्छेदलीलयाध्मात धनुर्मुक्तैर्महेषुभिः ॥29||

तस्याग्रतः तथा काळी शूलपातविदारितान्।
खट्वांगपोथितांशारीन् कुर्वन्ती हतौजसः॥30||

कमण्डुलुजलाक्षेप हतवीर्यान् हतौजसः।
ब्रह्मणी चाकरोत् शत्रून्येन येन स्मधावति॥31||

माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी।
दैत्यान् जघान कौमारी तथा शक्त्यातिकोपना॥32||

इन्द्री कुलिशपातेन शतशो दैत्यदानवाः।
पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः॥33||

तुण्दप्रहारविध्वस्था दंष्ट्राग्र क्षतवक्षसः।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः॥34||

नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान्।
नारसिंही चचाराजौ नादापूर्ण दिगम्बरा॥35||

चण्डाट्टहासैः असुराः शिवदूत्यभिदूषिताः।
पेतुः पृथिव्यां पतितां स्तांश्चखादाथ सा तदा॥36||

इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान्।
दृष्ट्वाभ्युपायैः विविधैर्नेशुर्देवारि सैनिकाः॥37||

पलायन परान्दृष्ट्वा दैत्यान् मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः॥38||

रक्तबिन्दुर्यदा भूमौ पततस्य शरीरतः।
समुत्पतति मेदिन्यां तत्प्रमाणः तदासुरः॥39||

युयुधे स गदापाणिः इन्द्रशक्त्या महासुरः।
ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥40||

कुलिशेनाहतस्याशु बहु सुश्राव शोणितम्।
समुत्तस्थुः ततो योधाः तद्रूपाः तत्पराक्रमाः॥41||

यावन्तः पतितास्तस्य शरीरात् रक्तबिन्दवः।
तावन्तः पुरुषाजाताः तद्वीर्यबलविक्रमाः॥42||

तेचापि युयुधुस्तत्र पुरुषा रक्त सम्भवाः।
समं मातृभिरत्युग्र शस्त्रपातातिभीषणम्॥43||

पुनश्च वज्रपातेन क्षतमस्य शिरो यथा।
ववाह रक्तं पुरुषाः ततो जाताः सहश्रसः॥44||

वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास इन्द्री तमसुरेश्वरम्॥45||

वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवैः।
सहस्रसो जगद्व्याप्तं तत्प्रमाणैः महासुरैः॥46||

शक्त्या जघान कौमारी वाराही च तथासिना।
माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम्॥47||

स चापि गदया दैत्यः सर्वा एवाहनत् पृथक्।
मा तॄः कोपसमाविष्टो रक्तबीजो महासुरः॥48||

तस्याहतस्य बहुधा शक्तिशूलादिभिः भुवि।
पपात यो वै रक्तौघः तेनसञ्छतशोsसुराः॥49||

तैश्चासुरासृक्सम्भूतैः असुरैः सकलं जगत्।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम्॥50||

तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राहसत्वरा।
उवाच काळीं चामुण्डे विस्तीर्णं वदनं कुरु॥51||

मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान्।
रक्तबिन्दोःप्रतीच्छ त्वं वक्त्रेणानेन वेगिता॥52||

भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान्।
एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥53||

भक्ष्यमाणाः त्वयाचोग्रा नचोत्पत्स्यन्ति चापरे।
इत्युक्त्वा तां ततो देवी शूलेनाभि जघान तम्॥59||

मुखेन काळी जगृहे रक्तबीजस्य शोणितम्।
ततोsसावाजघानाथ गदया तत्र चण्डिकाम्॥60||

न चास्या वेदानां चक्रे गदापातोsल्पिकामपि।
तस्याहतस्य देहात्तु बहु शुश्राव शोणितम्॥61||

यतः ततस्तत् वक्त्रेण चामुण्डा सम्प्रतीच्छति।
मुखे समुद्गता ये sस्या रक्तपातान् महासुराः॥62||

तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम्।63||

देवी शूलेन वज्रेण बाणैरसुभिर् ऋष्टिबिः ।
जघान रक्तबीजं तं चामुण्डा पीतशोणितम्॥64||

स पपात महीपृष्टे शस्त्रसंघसमाहतः।
नीरक्तश्चमहीपाल रक्तबीजो महासुरः॥65||

ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप।
तेषां मातृगणो जाता ननर्तासृज्ञ्मदोद्धतः॥66||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये रक्तबीज वथो नाम
अष्टमाध्यायः ॥
॥ ओम् तत् सत्॥
=====================================
updated 16 10 2018 2000


|| ओं तत् सत्||