Devi Mahatmyam ! !!

!Devi Sapta Sati ||

Chapter 12 Slokas

||om tat sat||


उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्चीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
द्वादशोsध्यायः ॥

देव्युवाच॥

एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः।
तस्याहं सकलं भाधां नाशयिष्याम्यसंशयम्॥1||

मधुकैटभनाशं ह महिषासुर घातनम्।
कीर्तयिष्यन्ति ये तद्वध्वधं शुंभनिशुंभयोः॥2||

अष्टम्यां च चतुर्दश्यां नवम्यां चैक चेतसः।
श्रोष्यन्ति चैव भक्त्या मममहात्म्यमुत्तमम् ॥3||

न तेषां दुष्कृतं किंचिद्दुष्कृतोत्थान चापदः।
भविष्यति न दारिद्र्यं न चै वैष्टवियोजनम्॥4||

शत्रुतो न भयं तस्यदस्युतो वा न राजतः।
न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति॥5||

तस्मान्ममैत्मन्माहात्म्यं पठितव्यं समाहितैः।
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत्॥6||

उपसर्गानशेषांस्तु महामारी समुद्भवान्।
तथा त्रिविधमुत्पातं महात्म्यं शमयेन्मम॥7||

यत्रैतपठ्यते सम्यज्नित्यमायतने मम।
सदा न तद्विमोक्ष्यामि सानिध्यं तत्र मे स्थितम्॥8||

बलिप्रदाने पूजायामग्निकार्ये महोत्सवे।
सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च॥9||

जानता जानता वापि बलिपूजां तथा कृताम्।
प्रतीच्छिष्याम्यहं प्रीत्या वह्नि होमं तथा कृतम्॥10||

शरत्काले महापूजा क्रियते या च वार्षिकी।
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्ति समन्वितः॥11||

सर्वबाधाविनिर्मुक्तो धनधान्यसुतान्वितः।
मनुष्यो मत्प्रसादेन भविष्यति न संशयः॥12||

श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः।
पराक्रमं च युद्धेषु जायते निर्भयः पुमान्॥13||

रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते।
नन्दते च कुलं पुंसां महात्म्यं ममश्रुण्वताम्॥14||

शान्ति कर्मणि सर्वत्र तथा दुःस्वप्नदर्शने।
ग्रहपीडासु चोग्रासु महात्म्यं शृणुयान्मम॥15||

उपसर्गां शमं यान्ति ग्रहपीडाश्च दारुणाः।
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते॥16||

बालाग्रहाभिभूतानां बालानां शान्तिकारकम्।
संघातभेदे च नृणां मैत्रीकरणमुत्तमम्॥17||

दुर्वृत्तानामशेषाणां बलहानिकरं परम्।
रक्षोभूतपिशाचानां पठनादेव नाशनम्॥18||

सर्वं ममैतन्माहात्म्यं ममसन्निधिकारकम्।
पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः॥19||

विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम्।
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या॥20||

प्रीतिर्मे क्रियते सास्मिन्सकृत्सुचरिते श्रुते।
श्रुतं हरति पापानि तथारोग्यं प्रयच्छति॥21||

रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम।
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् ॥22||

तस्मिन् च्च्रते वैरिकृतं भयं पुंसां न जायते।
युष्माभिः याश्च याश्च ब्रह्मर्षिभिः कृताः॥23||

ब्रह्मणा च कृतास्तासु प्रयच्छन्ति शुभां मतिम्।
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः॥24||

दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः।
सिंहव्याघ्रानुमातो वा वने वा वनहस्तिभिः॥25||

राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोsपि वा ।
अघूर्णितो वा वातेन स्थितः पोते महार्णवे॥26||

पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे।
सर्वबाधासु घोरासु वेदानाभ्यर्थितोsपिवा॥27||

स्मरन् ममैतच्चरितं नरो मुच्येत संकटात्।
ममप्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा॥28||

दूरादेव पलायन्ते स्मरितश्चरितं मम।29||

ऋषिरुवाच॥

इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा।
पश्यतामेव देवानां तत्रैवानरधीयत॥30||

तेsपि देवा निरातंकाः स्वाधिकारान्यथापुरा।
यज्ञभागभुजः सर्वे चक्रुर्विनिहातारयः ॥31||

दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि।
जगद्विध्वंसिनि तस्मिन् महोग्रेsतुलविक्रमे॥32||

निशुम्भे च महावीर्ये शेषाः पाताळमायुयुः॥33||

एवं भगवती देवी सा नित्यापि पुनः पुनः ।
सम्भूय कुरुते भूप जगतः परिपालनम्॥34||

तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते।
सा याचिता च विज्ञानं तुष्टा बुद्धिं प्रयच्छति॥35||

व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर।
महाकाळ्या महाकाले महामारीस्वरूपया॥36||

सैवकाले महामारी सैव सृष्ठिर्भवत्यजा।
स्थितिं करोति भूतानां सैव काले सनातनी॥37||

भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे।
सैवाभावे तथालक्ष्मीर्विनाशायोपजायते॥38||

स्तुता सम्पूजिता पुष्पैर्धूपगन्धाधिभी तथा।
ददाति वित्तं पुत्त्रांश्च मतिं धर्मे गतिं शुभाम्॥39||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये फलश्रुति र्नाम
द्वादशोsध्यायः॥

॥ ओम् तत् सत्॥
=====================================

 

 

 

 

 

 

 

 

 

 

||ఓమ్ తత్ సత్||
|| ओं तत् सत्||