Devi Mahatmyam ! !!

!Devi Sapta Sati ||

Chapter 3 Slokas

||om tat sat||

मध्यम चरित्रमु
महा लक्ष्मीध्यानमु

ओं
अक्षस्रक्परशुं गदेषु कुलिशं पद्मं धनुः कुण्डिकां
दण्डं शक्तिमसिं च चर्म जलजं घट्टां सुराभाजनम्।
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवाले प्रभां
सेवेसैरिभमर्दिनी मिह महालक्ष्मीं सरोजस्थिताम्॥

तृतीयोध्यायः

निहन्यमानं तत्सैन्यमवलोक्य महासुरः।
सेनानीश्चिक्षुरः कोपद्ययौ योद्धुमथाम्बिका॥1||

स देवीं शरवर्षेण ववर्ष समरेsसुरः।
यथामेरु गिरेः शृज्ञ्गं तोयवर्षेण तोयदः॥2||

तस्य चित्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगणान्बाणैर्यन्तारं चैव वाजिनाम् ॥3||

चिच्छेद च धनूः सद्यो ध्वजं चाति समुच्छ्रितम्।
विव्याथ चैव गात्रेषु छिन्नधन्वानमाशुगैः॥4||

स चिन्न धन्वा विरथो हताश्वो हतसारथिः।
अभ्यधात वतां देवीं खड्गचर्मधरोsसुरः॥5||

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्थनि।
अजघान भुजे सव्ये देवी मप्यति वेगवान्॥6||

तस्याः खड्गो भुजं प्राप्य पफाल नृपनंदन।
ततो जग्राह शूलं स कोपादरुणलोचनः॥7||

चिक्षेप च ततस्तत्तु भद्रकाळ्यां महासुरः।
जाज्वल्यमानं तेजोभी रविबिंबमिवाम्बरात्॥8||

दृष्ट्वा तदापतच्छूलं देवी शूलमुमुंचत।
तत् शूलं शतथा तेन नीतं स च महासुरः॥9||

हतेतस्मिन्महावीर्ये महिषस्य चमूपतौ।
आजगाम गजारूढश्चामरस्त्रिदशर्दनः॥10||

सोsपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम्।
हूंकाराभिहतं भूमौ पातयामास निष्प्रभाम्॥11||

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोथसमन्वितः।
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत्॥12||

ततः सिंहः समुत्पत्य गजकुंभान्तरस्थितः।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा॥13||

युध्यमानौ ततस्थौ तु तस्मान्नागान्महीं गतौ।
युयुधातेsतिसंरब्धौ प्रहारैरतिदारुणैः॥14||

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम्॥15||

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः।
दन्तमुष्टितलैश्चैव कराळश्च निपातितः॥16||

देवीकृद्धा गदापतैश्चूर्णयामास चोद्धतम्।
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम्॥17||

उग्रासमुग्रवीर्यं च तथैव च महाहनुम्।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी॥18||

बिडालस्यासिना कायात् पातयामास वै शिरः।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम्॥19||

एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः।
महिषेण स्वरूपेण त्रासयामास तान् गणान्॥20||

कांश्चित्तुण्ड प्रहारेण खुरक्षैपैस्तथापरान्।
लांगूलताडितांश्चान्यान् शृंगाभ्यां च विदारितान् ॥21||

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।
निः श्वासपवनेनान्यान् पातयामास भूतले॥22||

निपात्य प्रमाथानीकं अभ्यधावत सोsसुरः।
सिंहं हन्तुं महादेव्याः कोपं चके ततोsम्बिका॥23||

सोsपि कोपान्महावीर्यः खुरक्षुण्डमहीतलः।
शृंगाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च॥24||

वेगभ्रमणविक्षुण्णा महीतस्य विशीर्यत।
लांगूलेनहतश्चाब्धिः प्लावयामास सर्वतः॥25||

धुत शृंगविभिन्नाश्च खण्डंखण्डं युयुर्घना।
श्वासानिलास्ताः शतशो निपेतुर्नभसोsचलाः॥26||

इति क्रोधसमध्मातं आपतन्तं महासुरम्।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तथाsकरोत्॥27||

साक्षिप्त्वा तस्य वैपाशं तं बबन्धमहासुरम्।
तत्याजमाहिषं रूपं सोsपि बद्धो महामृधे॥28||

ततः सिंहोsभवत्सद्यो यावतस्याम्बिका शिरः।
छिनत्ति तावत् पुरुषः खड्गपाणिरदृश्यत॥29||

तत एवाशु पुरुषं देवी चिच्छेद सायकैः।
तं खड्गचर्मणा सार्थं ततः सोsभून्महागजः॥30||

करेण च महासिंहं तं चकर्ष जगर्ज च।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत॥31||

ततो महासुरो भूयो माहिषं वपुरास्थितः।
तथैव क्षोभयामास त्रैलोक्यं स चराचरम्॥32||

ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम्।
पपौ पुनः पुनश्चैव जहसारुणलोचना॥33||

ननर्द चासुरः सोsपि बलवीर्यमदोद्धतः।
विषाणाभ्यां च चिक्षेप चण्दिकां प्रति भूधरान्॥34||

सा च तान् प्रहितां स्तेन चूर्णयन्ती शरोत्करैः।
उवाच तं मदोद्धूतमुखरागकुलाक्षरम्॥35||

देव्युवाच:

गर्झ गर्ज क्षणं मूढ मधु यवत्पिबाम्यहम्।
मया त्वयि हतेsत्रैव गर्जिष्यन्त्याशु देवताः॥36||

ऋषिरुवाच॥
एवमुक्त्वा समुत्पत्य सा रूढा तं महिषासुरम्।
पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत्॥37||

ततः सोsपि पदाक्रान्तः तया निजमुखात् ततः।
अर्थनिष्क्रान्त एवासीत् देव्या वीर्येण संवृतः॥38||

अर्थनिष्क्रान्त एवासौ युध्यमानो महासुरः।
तया महासिना देव्या शिरश्चित्वा निपातितः॥39||

ततो हहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।
प्रहर्षं च परं जग्मुः सकला देवतागणाः॥40||

तुष्टुवुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः।
जगुर्गन्धर्वपतयो ननृतश्चाप्सरोगणाः॥ 41||

इति श्री मार्कंडेय पुराणे सावर्णिके मन्वन्तरे।
देवी माहात्म्ये महिषासुर वधो नाम
तृतीयोsध्यायः॥

 

 


 

 

 

 

 

 

 

 

 

 

 

||ఓమ్ తత్ సత్||
|| ओं तत् सत्||