SriRama Pattabhisheka ghatta !

IIశ్రీరామ పట్టాభిషేక ఘట్టం II

II श्रीराम पट्टाभिषेक घट्टं II

|||

॥ श्रीरामपट्टाभिषेकघट्टः ॥

ततस्स प्रयतो वृद्धो वशिष्ठो ब्राह्मणैस्सह ।
रामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥

वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ।
कात्यायनस्सुयज्ञश्च गौतमो विजयस्तथा ॥

अभ्यषिंचन् नरव्याघ्रं प्रसन्नेन सुगंधिना ।
सलिलेन सहस्राक्षं वसवो वासवं यथा ॥

ऋत्विग्बिः ब्राह्मणैः पूर्वं कन्याभिः मंत्रिभिस्तदा ।
योधै श्चैवाभ्यषिंचंस्ते संप्रहृष्टाः सनैगमैः ॥

सर्वौष धिरस्तॆर्दिव्यैः दैवतेर्नभसि स्थितैः ।
चतुर्भिर्लोकपालैश्च सर्वेर्देवैश्च संगतैः ॥

छत्रं तु तस्य जग्राह शत्रुघ्नः पांडुरं शुभम्।
श्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥

अपरं चंद्र संकाशं राक्षसेंद्रो विभीषणः ।
मालां ज्वलंतीं वपुषा कांचनीं शतपुष्कराम् ॥

राघवाय ददौ वायुः वासवेन प्रचोदितः ।
सर्वरत्न समायुक्तं मणिरत्न विभीषितम् ॥

मुक्ताहारं नरेंद्राय ददौ शक्र प्रचोदितः ।
प्रजगुर्देवगंधर्वाः ननृतुश्चाप्सरोगणाः ॥

अभिषेके तदर्हस्य तदा रामस्य धीमतः।
भूमिस्सस्यवतीश्चैव फलवंतश्च पादपाः ॥10 ॥

गंधवंति च पुष्पाणि बभूवू राघवोत्सवे ।
सहस्रशतमश्वानां धेनूनां च गवां तथा ॥

ददौ शतम् वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः
त्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥

नानाभरण वस्त्राणि महार्हाणि च राघवः ।
अर्क र स्मि प्रतीकाशं कांचनीं मणिविग्रहम् ॥

सुग्रीवाय स्रजं दिव्यां प्रायच्चन्मनुजर्षभः ।
वैडूर्यमणि चित्रे च वज्ररत्न विभूषिते ।

वालिपुत्राय ध्रुतिमान् अंगदायांगदे ददौ ।
मणि प्रवरजुष्टंच मुक्ताहारमनुत्तमम् ॥

सीतायै प्रददौ रामः चंद्ररश्मिसमप्रभम् ।
अरजे वाससी दिव्ये शुभान्याभरणानि च ॥

अवेक्षमाणा वैदेही प्रददौ वायुसूनवे ।
अवमुच्यात्मनः कंठात् हारं जनकनंदिनी ॥

अवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः।
तामिंगितज्ञस्संप्रेक्ष्य बभाषे जनकात्मजाम् ॥

प्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ।
पौरुषं विक्रमो बुद्धिः यस्मिन्नेतानि सर्वशः ॥

ददौ सा वायुपुत्राय तं हारमसितेक्षणा ।
हनुमांस्तेन हारेण शुशुभे वानरर्षभः ॥20 ॥

चंद्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ।
ततो द्विविदमैंदाभ्यां नीलाय च परंतपः ॥

सर्वान् कामगुणान् वीक्ष्य प्रददौ वसुदाधिप ।
सर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः ॥

वासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ।
विभीषणोथ सुग्रीवो हनुमान् जांबवांस्तथा ॥

सर्ववानर मुख्याश्च रामेणा क्लिष्टकर्मणा ।
यथार्हं पूजिताः सर्वैः कामैरत्नैश्च पुष्कलैः ॥

प्रहृष्टमनस्सर्वे जग्मुरेव यथागतम् ।
दृष्टा सर्वे महात्मानं ततस्ते प्लवगर्षभाः ॥

विसृष्टाः पार्थिवेंद्रेण किष्किंधामभ्युपागमन् ।
सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ॥

लब्ध्वा कुलधनं राजा लंकां प्रायाद्विभीषणः ।
सराज्य मखिलं शासन् निहतारिर्महायशाः ॥

राघवः परमोदारः शशास परयामुदा ।
उवाच लक्ष्मणं रामो धर्मज्ञं धर्म वत्सलः ॥

अतिष्ठ धर्मज्ञ मया सहेमां
गां पूर्वराजाध्युषितां बलेन ।
तुल्यं मया त्वं पितृभिः धृत या
तां यौवराज्ये धुरमुध्वहस्व ॥

सर्वात्मना पर्यनुनीयमानो
यथा न सौमित्रिरुपैति योगम् ।
नियुज्यमानोपि च यौवराज्ये
ततोभ्यषिंचद्भरतं महात्मा ॥ 30 ॥

पौंडरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् ।
अन्यैश्च विविधैर्यज्ञैः अयजत् पार्थिवर्षभः ॥

राज्य दश सहस्राणि प्राप्य वर्षाणि राघवः ।
शता श्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥

आजानुलंबबाहुस्स महास्कंधः प्रतापवान् ।
लक्ष्मणानुचरो रामः पृथ्वीमन्वपालयत् ॥

राघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् ।
ईजै बहुविधैर्यज्ञैः ससुहृत् ज्ञातिबांधवः ॥

न पर्यदेवन् विधवा न च व्याळकृतं भयम् ।
न व्याधिजं भयं वासि रामे राज्यं प्रशासति ॥

निर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् ।
नचस्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥

सर्वं मुदित मेवासीत् सर्वो धर्मपरो भवत् ।
राममेवानुपश्यंतो नाभ्यहिंसन् परस्परम् ॥

आसन् वर्ष सहस्राणि तथा पुत्त्रसहस्रिणः ।
निरामया विशोकाश्च रामे राज्यं प्रशासति ॥

रामो रामो राम इति प्रजानामभवन् कथाः ।
रामभूतं जगदभूत् रामे राज्यं प्रशासति ॥

नित्य पुष्पा नित्य फलाः तरवः स्कंधविस्तृताः ।
काले वर्षीच पर्जन्यः सुखस्पर्शश्च मारुतः ॥ 40 ॥

ब्राह्मणाः क्षत्रियाः वैश्याः शुद्रा लोभविवर्जिताः ।
स्वकर्मसु प्रवर्तंते तुष्टाः स्वैरेव कर्मभिः ॥

आसन् प्रजा धर्मरता रामे शासति नानृताः ।
सर्वे लक्षण संपन्नाः सर्वे धर्म परायणाः ॥

दशवर्ष सहस्राणि दशवर्ष शतानिच ।
भातृभिस्सहितः श्रीमान् रामो राज्यमकारयत् ॥

धर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम् ।
आदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥

यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ।
पुत्रकामास्तु पुत्रान् वै धनकामो धनानि च ॥

लभते मनुजे लोके श्रुत्वा रामाभिषेचनम् ।
महीम् विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥

राघवेण यथा माता सुमित्रा लक्ष्मणेन च ।
भरतेनैव कैकेयी जीवपुत्रस्तथा स्त्रियः ॥

श्रुत्वा रामायणमिदं दीर्घमायुश्च विंदति ।
रामस्य विजयंचैव सर्वमक्लिष्टकर्मणः ॥

शृणोति य इदं काव्यं अर्षं वाल्मिकिना कृतम्
श्रद्धदानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥

समागम्य प्रवासांते लभते चापि बांधवैः
प्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात् ॥ 50 ॥

श्रवणेन सुरास्सर्वे प्रीयंते संप्रशृण्वतां ।
विनायकाश्च शाम्यंति गृहे तिष्ठंति यस्यवै ॥

विजयेत महीम् राजा प्रवासी स्वस्तिमान् व्रजेत् ।
स्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमाम् ॥

पूजयंश्च पठंश्चेमम् इतिहासं पुरातनम् ।
सर्वपापात् प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥

प्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर् द्विजात् ।
इश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥

रामायणमिदं कृत्स्नं शुण्वतः पठतस्सदा ।
प्रीयते सततं रामः सहि विष्णुस्सनातनः ॥

आदिदेवो महाबाहुः हरिर्नारायणः प्रभुः ।
साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥

कुटुंब वृद्धिं धनधान्यवृद्धिं
स्त्रियश्च मुख्यास्सुखमुत्तमं च।
श्रुत्वा शुभं काव्यमिदं महार्थं
प्राप्नोति सर्वां भुविचार्थ सिद्धिं ॥

आयुष्य मारोग्यकरं यशस्यं
सौभ्रातृकं बुद्धिकरं सुखंच ।
श्रोतव्य मेतन्नियमेन सद्भिः
आख्यानमोजस्करमृद्धिकामैः ॥

एवमेतत् पुरावृत्तं आख्यानं भद्रमस्तु वः ।
प्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्थताम् ॥

देवाश्च सर्वे तुष्यंति श्रवणाद्ग्रहणात् तथा ।
रामायणस्य श्रवणात् तुष्यंति पितरस्तथा ॥ 60 ॥

भक्त्या रामस्य ये चेमां संहितां ऋषिणा कृताम् ।
लेखयंतीह च वराः तेषां वासः त्रिविष्टपे ॥ 61 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये
युद्धकांडे श्रीरामपट्टाभिषेकोनाम अंतिमसर्गः ॥
समाप्तं

-----

 

\