||Ramayana Paarayana Sargas ||

|| Nagapasa vimochana Sarga || Yuddhakanada

||om tat sat||

॥श्रीमद्रामायण पारायण सर्गः॥
॥नागपाशविमोचनम्॥
॥युद्धकांडे पंचाशस्सर्गः॥

अथोवाच महातेजा हरिराजो महाबलः।
कि मियं व्यधिता सेना मूढवातेन नौ र्जले॥1||

सुग्रीवस्य वचश्श्रुत्वा वालिपुत्रोsज्ञ्गदोsब्रवीत्।
न त्वं पश्यसि रामंच लक्ष्मणं च महाबलम्॥2||

शरजालाचितौ वीरा वुभौ दशरथात्मजौ।
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ॥3||

अथाब्रवीत् वानरेंद्रः सुग्रीवः पुत्रमंगदम्।
नानिमित्त मिदं मन्ये भवितव्यं भयेन तु॥4||

विषण्णवदना ह्येते त्यक्त प्रहरणादिशः।
प्रपलायन्ति हरय स्त्रासादुत्फल्ललोचनः॥5||

अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्टतः।
विप्रकर्षन्ति चान्योन्यं पतितं लंघयन्ति च॥6||

एतस्मिन्नन्तरे वीरो गदापाणि र्विभीषणः।
सुग्रीवं वर्धयामास राघवं निरैक्षत॥7||

विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्।
ऋक्षराजं समीपस्थं जांबवन्तमुवाच ह॥8||

विभीषणो यं संप्राप्तो यं दृष्ट्वा वानरर्षभाः।
विद्रवन्ति परित्रस्ता रावणात्मज शंकया॥9||

शीघ्र मेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान्।
पर्यवस्थाप याख्याहि विभीषणमुपस्थितम्॥10||

सुग्रीवणैव मुक्तस्तु जांबवान्वृक्षपार्थिवः।
वानरान् सान्त्वयामास सन्निरुध्यप्रधावतः॥11||

ते निवृत्ताः पुनः सर्वे वानराः त्यक्त संभ्रमाः।
ऋक्षराज वचः श्रुत्वा तं दृष्ट्वा विभीषणम्॥12||

विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्।
लक्ष्मणस्य धर्मात्मा बभूव व्यधितेन्द्रियः॥13||

जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्यच।
शोकसंपीडितमना रुरोद विललापच॥14||

इमौ तौ सत्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ।
इमा ममस्थां गमितौ राक्षसैः कूटयोधिभिः॥15||

भ्रातुः पुत्त्रेण मे तेन दुष्पुत्त्रेण दुरात्मना।
राक्षस्या जिह्मया बुद्द्या चालिता वृजुविक्रमौ ॥16||

शरैरिमा वलं विद्धौ रुधिरेण समुत्षितौ।
वसुधाया मिमौ सुप्तौ दृश्येते शल्यका विव॥17||

ययौ र्वीर्य मुपाश्रित्य प्रतिष्ठा कांक्षिता मया।
ता वुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ॥18||

जीवन्नद्य विपन्नोsस्मि नष्टराज्यमनोरथः।
प्राप्त प्रतिज्ञश्च रिपुः सकामो रावणः कृतः॥19||

एवं विलपमानं तं परिष्वज्य विभीषणम्।
सुग्रीवः सत्त्वसंपन्नो हरिराजोsब्रवी दिदम्॥20||

राज्यं प्राप्स्यसि धर्मज्ञ लंकायां नात्रसंशयः।
रावणः सहपुत्रेण स कामं नेहलप्स्यते॥21||

न रुजापीडिता वेता वुभौ राघवलक्ष्मणौ।
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे॥22||

तमेवं सान्त्ययित्वा तु समश्वास्यच राक्षसम्।
सुषेणं श्शशुरं पार्स्वे सुग्रीवः तमुवाच ह ॥23||

सहशूरैर्हरिगणै र्लब्धसंज्ञा वरिन्दमौ।
गच्छ त्वं भ्रातरौ गृह्य किष्किंधां रामलक्ष्मणौ॥24||

अहं तु रावणम् हत्वा सपुत्त्रं सहबान्धवम्।
मैथिलीं आनयिष्यामि शक्रो नष्टामिव श्रियम्॥25||

श्रुत्वैतत् वानरेंद्रस्य सुषेणो वाक्यमब्रवीत् ।
दैवासुरं महद्युद्ध मनुभूतं सुदारुणम्॥26||

तदा स्म दानवा देवान् शरसंस्प्रर्शकोविदाः।
निजघ्नुः शस्त्रविदुषः चादयन्तो मुहुर्मुहुः॥27||

तान् आर्तान् नष्टसंज्ञां श्च गतासूंश्च बृहस्पतिः।
विद्याभिर्मंत्रयुक्ताभि रोषदीभि श्चिकित्सति॥28||

तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्।
जवेन वानराः शीघ्रं संपातिपनसादयः॥29||

हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः।
संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्॥30||

चन्द्रश्चनाम द्रोणश्च क्षीरोदे सागरोत्तमे।
अमृतं यत्र महितं तत्रते परमौषधी॥31||

ते तत्र निहिते दैवैः पर्वते परमौषधी।
अयं वायुसुतो राजन् हनुमां स्तत्र गच्छतु॥32||

एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः।
पर्यस्य सागरे तोयं कम्पयन्निव मेदिनीम्॥33||

महता पक्षवातेन सर्वद्वीपमहाद्रुमाः।
निपेतुर्भग्न विटपाः समूला लवणांभसि॥34||

अभवन्पन्नगाः त्रस्ता भोगिनः तत्र वाशिनः।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्॥35||

ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम्।
वानरा ददृशुः सर्वे ज्वलन्त मिव पावकम्॥36||

तमागतं अभिप्रेक्ष्य नागाः ते विप्रदुद्रुवुः ।
यै स्तौ तत्पुरुषौबद्दौ शरभूतैर्महाबलौ॥37||

ततः सुपर्णः काकुत्‍स्थौ दृष्ट्वा प्रत्यभिनन्दितः।
विमर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे॥38||

वैनतेयेन संस्पृष्टाः तयोः संरुरुहु र्व्रणाः।
सुवर्णे च तनूस्निग्धे तयो राशु बभूवतुः॥39||

तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः॥40||

ता वुत्थाप्य महावीर्यौ गरुडो वासवोपमौ।
उभौतौ सस्वजे हृष्टो रामश्चैव मुवाच ह॥41||

भवत् प्रसादात् व्यसनं रावणिप्रभवं महत्।
अवामिह व्यतिक्रान्तौ पूर्ववत् बलिनौ कृतौ॥42||

यथा तातं दशरथं यथाsजं पितामहम्।
तथा भवन्त मासाद्य हृदयं मे प्रसीदति॥43||

को भवान् रूपसंपन्नो दिव्यस्रगनुलेपनः।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः॥44||

तमुवाच महातेजा वैनतेयो महाबलः।
पतत्त्रि राजः प्रीतात्मा हर्षपर्याकुलेक्षणः॥45||

अहं सखा ते काकुत्‍स्थ प्रियः प्राणो बहिश्चिरः।
गरुत्मा निह संप्राप्तो युवाभ्यां साह्यकारणात्॥46||

असुरा वा महावीर्या दानवा वा महाबलाः।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्॥47||

नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्।
मायाबलात् इन्द्रजिता निर्मितं क्रूरकर्मणा॥48||

एते नागाः काद्रवेयाः तीक्ष्णदंष्ट्रा विषोल्बणाः।
रक्षो मायाप्रभावेन शराभूत्वा त्वदाश्रिताः॥49||

सभाग्यश्चापि धर्मज्ञ राम सत्यपराक्रम।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना॥50||

इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोsह मागतः।
सहसा युवयोः स्नेहत् सखित्व मनुपालयन्॥51||

मोक्षितौ च महाघोरा दस्मात् सायकबन्धनात्।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि॥52||

प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः।
शूराणां शुद्धभावानां भवतामार्जवं बलम्॥53||

तन्नविश्वसितव्यं वो रक्षसानां रणाजिरे।
एते नैवोपमानेन नित्यं जिह्महि राक्षसाः॥54||

एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः।
परिष्वज्य सुहृत् स्निग्धमाप्रष्टुं उपचक्रमे॥55||

सखे राघव धर्मज्ञ रिपुणा मपि वत्सल।
अभ्यनुज्ञातु मिच्छामि गमिष्यामि यथागतम्॥56||

न च कौतूहलं कार्यं सखित्वं प्रति राघव।
कृत कर्मा रणेवीर सखित्वमनुवेत्स्यसि॥57||

बालवृद्धावशेषां तु लंकां कृत्वा शरोर्मिभिः।
रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे॥58||

इत्येव मुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः।
रामं च विरुजं कृत्वा मध्ये तेषां वनौकसां॥59||

प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्।
जगामाकाश माविश्य सुपर्णः पवनो यथा॥60||

विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः।
सिंहनादं स्तदा नेदुर्लांगूलान् दुधुवुस्तदा॥61||

ततो भेरीः समाजघ्नुर्मृदंगाश्चाप्यनादयन्।
दध्मुः शंखान् सम्प्रहृष्टाः क्ष्वेळ न्त्यपि यथापुरम्॥62||

अस्फोट्यास्फोट्य विक्रान्ता वानरानगयोथिनः।
द्रुमानुत्पाट्य विविधां स्तस्थुः शतसहस्रशः॥63||

विसृजन्तो महानादां स्त्रासयन्तो निशाचरान्।
लंकाद्वाराण्युपाजग्मु र्योद्धुकामाः प्लवंगमाः॥64||

ततस्तु भीमः तुमुलो निनादो बभूव शाखामृगयूथपानाम्।
क्षये निदाघस्य यथा घनानाम् नादः सुभीमो नदतां निशीथे॥65||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमद्युद्धकांडे पंचाशस्सर्गः||

|| Om tat sat |