||Ramayana Paarayana Sargas ||

||Ravana vadha || - Yuddhakanada

||om tat sat||

रावणवधः
एकादशोत्तर शततमस्सर्गः॥

अथ संस्मारयामास राघवं मातलिः तदा।
अजानन्निव किं वीर त्वमेव मनुवर्तसे॥1||

विसृजास्मै वधाय त्वं अस्त्रं पैतामहं प्रभो।
विनाशकालः कथितो यः सुरैस्सोsद्यवर्तते॥2||

ततः संस्मारितो रामः तेन वाक्येन मातलेः।
जग्राह स शरं दीप्तं निश्वसन्त मिवोरगम्॥3||

यमस्मै प्रथमं प्रादात् अगस्त्यो भगवान् ऋषिः।
ब्रह्मदत्तं महाबाणं अमोघं युधिवीर्यवान्॥4||

ब्रह्मणा निर्मितं पूर्वं इन्द्रार्थं अमितौजसा।
दत्तं सुरपतेः पूर्वं त्रिलोकजयकांक्षिणः॥5||

यस्य वाजेषु पवनः फले पावकभास्करौ।
शरीरमाकाशमयं गौरवे मेरुमन्दरौ॥6||

जाज्वलमानं वपुषा सुपुंखं हेमभूषितम्।
तेजसा सर्वभूतानां कृतं भास्कर वर्चसम्॥7||

स धूममिव कालाग्निं दीप्तमाशीविषं यथा।
नरनागाश्वबृन्दानां भेदनं क्षिप्रकारिणम्॥8||

द्वाराणां परिघाणां च गिरीणामपि भेदनम्।
नानारुधिरसिक्तांगं मेदोदिग्धं सुदारुणम्॥9||

वज्रसारं महानादं नानासमितिदारणम्।
सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम्॥10||

कन्कगृध्रवळानाम् च गोमायु गणरक्षसाम्।
नित्यं भक्षप्रदं युद्धे यमरूपं भयावहम्॥11||

नन्दनं वानरेन्द्राणां रक्षसामवसादनम्।
वाजितं विविधैर्वाजैश्चारुवित्रैर्गरुत्मतः॥12||

त मुत्तमेषु लोकानां इक्ष्वाकुभयनाशनम्।
द्विषतां कीर्तिहरणं प्रहर्षकर मात्मनः॥13||

अभिमन्त्र्य ततो रामः तं महेषुं महाबलः।
वेदप्रोक्तेन विधिना सन्दधे कार्मुके बली॥14||

तस्मिन् सन्थीयमाने तु राघवेण शरोत्तमे।
सर्वभूतानि वित्रेषु श्चचाल च वसुंधरा॥15||

स रावणाय संकृद्धो भृशमायम्य कार्मुकम्।
चिक्षेप परमायत्तः तं शरं मर्मघातिनम्॥16||

स वज्र इव दुर्धर्षो वज्रबाहुविसर्जितः।
कृतान्त इव चावार्यो न्यपतद्रावणोरसि॥17||

सविसृष्टोमहावेगः शरीरान्तकरः शरः।
बिभेद हृदयं तस्य रावणस्य दुरात्मनः॥18||

रुधिराक्तः स वेगेन जीवितान्तकरः शरः।
रावणस्य हरन् प्राणाम् विवेश धरणीतलम्॥19||

स शरो रावणं हत्वा रुधिरार्द्री कृतच्छविः।
कृतकर्मा निभृतवत्स्वतूणीं पुनरागमत्॥20||

तस्य हस्ताद्दतस्याशु कार्मुकं तत्र सायकम्।
निपपात सहप्राणै र्भ्रुश्यमानस्य जीवितात्॥21||

गतासुर्भीमवेगस्तु नैरृतेन्द्रो महाद्युतिः।
पपात स्यन्दवाद्भूमौ वृत्रो वज्रहतो यथा॥22||

तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः।
हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः॥23||

नरन्तश्चाभिपेतुः तान् वानराद्रुमयोधिनः।
दशग्रीव वधं दृष्ट्वा विजयं राघवस्य च॥24||

अर्दिता वानरैर्हृष्टैर्लंकां अभ्यपतन्भयात्।
गताश्रयत्वात् करुणैः भाष्पप्रस्रवणैर्मुखैः॥25||

ततो विनेदुः संहृष्टा वानरा जितकाशिनः।
वदन्तो राघवजयं रावणस्य च तद्वधम्॥26||

अथान्तरिक्ष्ये न्यनदत् सौम्य स्त्रिदशदुन्दुभिः।
दिव्यगन्धवहस्तत्र मारुतः सुसुखं वनौ॥27||

निपपातन्तरिक्षाच्च पुष्पवृष्टिः तदा भुवि।
किरन्ती राघवरथं दुरवापा मनोरमा॥28||

राघव स्तवसंयुक्ता गगनेsपिच शुश्रुवे।
साधुसाद्विति वागग्र्या देवतानां महात्मनाम्॥29||

अविवेश महाहर्षो देवानां चारणैः सह।
रावने निहते रौद्रे सर्वलोकभयंकरे॥30||

ततः स कामं सुग्रीवं अंगदं च महाबलम्।
चकार राघवः प्रीतो हत्वा राक्षसपुंगवम्॥31||

ततः प्रजग्मुः प्रशमं मरुद्गणां
दिशः प्रसेदुर्विमलं नभोsभवत्।
महीचकम्पे न हि मारुतोववौ
स्थिरप्रभश्चाप्यभवद्दिवाकरः॥32||

ततस्तु सुग्रीव विभीषणादयः
सुहृद्विशेषाः सहलक्ष्मणस्तदा।
समेत्य हृष्टा विजयेन राघवम्
रणेभिsरामं विधिनाsभ्यपूजयन्॥33||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमद्युद्धकांडे एकादशोत्तरशततमस्सर्गः॥

||ओम् तत् सत्॥

 

|| Om tat sat |