||Ramayana Paarayana Sargas||

|| SriRama Stuti - By Brahma and others ||

||om tat sat||

ब्रह्मादि कृत श्रीरामस्तुतिः
विंशद्युत्तर शततमस्सर्गः:

ततोहि दुर्मना रामः श्रुत्वैव वदतां गिरः।
दध्यौ मुहूर्तं धर्मात्मा भाष्पव्याकुललोचनः॥1||

ततो वैश्रवणो राजा यमश्चामित्रकर्शनः।
सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः॥2||

षडर्थनयनः श्रीमान् महादेवो वृषध्वजः।
कर्ता सर्वस्य लोकस्य ब्रह्मब्रह्मविदां वरः॥3||

एते सर्वे समागम्य विमानैः सूर्यसन्निभैः।
आगम्य नगरीं लंकां अभिजग्मुश्च राघवम्॥4||

ततः सहस्ताभरणान् प्रगृह्यविपुलान् भुजान्।
अब्रुवं स्त्रिदशश्रेष्ठाः प्रांजलिं राघवं स्थितम्॥5||

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः।
उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने॥6||

कथं देवगणश्रेष्ठं आत्मानं नावबुध्यसे।
ऋतधामावसुःपूर्वं वसूनां त्वं प्रजापतिः॥7||

त्रयाणां त्वं हि लोकानां आदिकर्ता स्वयं प्रभुः।
रुद्राणां अष्टमो रुद्रः साध्यानामपि पंचमः॥8||

अश्विनौ चापि कर्णौ चन्द्र सूर्यौ च चक्षुषी।
अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप॥9||

उपेक्षसे वैदेहीं मानुषः प्राकृतो यथा।
इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः॥10||

अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः।
आत्मानं मानुषं मन्ये रामं दशरथात्मजम्॥11||

योहं यस्य यतश्चाहं भगवां स्तत्ब्रवीतु मे।
इति ब्रुवाणं काकुत्‍स्थं ब्रह्म ब्रह्मव्दां वर॥12||

अब्रवीत् श्रुणुमे राम सत्यं सत्यपराक्रम।
भवान् नारायणो देवः श्रीमांश्चक्रायुधो विभुः॥13||

एकशृंगो वराहस्त्वं भूतभव्यसपत्नजित्।
अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव॥14||

लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः।
शारंगधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः॥15||

अजितः खड्गधृड्विष्णुः कृष्णश्चैव बृहद्बलः।
सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः॥16||

प्रभवश्चाप्ययश्च त्वं उपेन्द्रो मधुसूदनः।
इन्द्रकर्मा महेन्द्रः त्वं पद्मनाभो रणान्तकृत्॥17||

शरण्यं शरणं च त्वां आहुर्दिव्या महर्षयः।
सहस्र शृंगोवेदात्मा शतजिह्वो महर्षभः॥18||

त्वं त्रयाणां हि लोकाना आदिकर्ता स्वयं प्रभुः।
सिद्धानामपि साध्यानां आश्रयश्चासि पूर्वजः॥19||

त्वं यज्ञः त्वं वषट्कारः त्वमोंकारः परंतपः॥
प्रभवं निधनं वा ते न विदुः को भवानिति॥20||

दृश्यसे सर्वभूतेषु ब्राहमणेषु च गोषु च।
दिक्षु सर्वासु गगने पर्वतेषु वनेषु च॥21||

सहस्र चरणः श्रीमान् शतशीर्षः सहस्रधुक् ।
त्वं धारयसि भूतानि वसुधां च सपर्वताम्॥22||

अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः।
त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान्॥23||

अहं ते हृदयं राम जिह्वा देवी सरस्वती।
देवा गात्रेषु रोमाणि निर्मिता ब्रह्मणः प्रभो॥24||

निमिषस्ते भवेद्रात्रिरुन्मेषस्ते भवेद्दिवा।
संस्काराः तेsभन्वेदा न तदस्ति त्वया विना॥25||

जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम्।
अग्निः कोपः प्रसादः ते सोमः श्रीवत्स लक्षणः॥26||

त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः।
महेन्द्रश्च कृतो राजा बलिं बध्वा महासुरम्॥27||

सीतालक्ष्मीर्भवान्विष्णुः देवः कृष्णः प्रजापतिः।
वदार्थं रावणो राम प्रविष्टो मानुषीं तनुम्॥28||

तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर।
निहतो रावणो राम प्रहृष्टो दिवमाक्रम॥29||

अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः।
अमोघं दर्शनं राम न च मोघस्तवस्तव॥30||

अमोघस्ते भविष्यन्ति भक्तिमन्तश्च ये नराः।
ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम्॥31||

प्राप्नुवन्ति सदा कामान् इहलोके परत्र च।
इममार्षं स्तवं नित्यं इतिहासं पुरातनम्॥32||

ये नराः कीर्तयिष्यन्ति नास्ति तेषां पराभवः॥33||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमद्युद्धकांडे विंशत्युत्तरशततमस्सर्गः॥

||ओम् तत् सत्॥

 

|| om tat sat ||