||Sundarakanda ||

|| Sarga 1||( Only Slokas in Devanagari) )

हरिः ओम्
ओम् श्रीरामाय नमः
श्रीमद्वाल्मीकि रामायणे
सुंदरकांडे
प्रथमस्सर्गः

ततो रावण नीतायाः सीतायाः शत्रुकर्षणः ।
इयेषपदमन्वेष्टुं चारणाचरिते पथे ॥1||

दुष्कर्षं निष्प्रतिद्वंद्वं चिकीर्षन् कर्म वानरः ।
समुदग्र शिरोग्रीवो गवांपतिरिवाबभौ॥ 2 ||

अथ वैडूर्य वर्णेषु शाद्वलेषु महाबलः ।
धीरस्सलिलकल्पेषु विचचार यथासुखम् ॥3||

द्विजान् वित्राशयन् धीमान् उरसा पादपान् हरन् ।
मृगांश्च सुबहून् निघ्नन् प्रवृद्ध व केशरी ॥4 ||

नीललोहित मांजिष्ट पत्रवर्णसितासितैः ।
स्वभाव विहितैश्चितैः धातुभिः समलंकृतम् ॥5 ||

कामरूपिभिराविष्टम् अभीक्ष्णं सपरिछ्छदैः ।
यक्षकिन्नर गंधर्वैः देवकल्पैश्च पन्नगैः ॥6||

स तस्य गिरिवरस्य तले नागवरायुते ।
तिष्ठन् कपिवरः तत्र ह्रदे नाग इव बभौ ॥ 7 ||

स सूर्याय महेंद्राय पवनाय स्वयंभुवे ।
भूतेश्चाभ्यांजलिं कृत्वा चकार गमने मतिम् ॥8 ||

अंजलिं प्राज्ञ्मुखं कृत्वा पवनायात्म योनये ।
ततो हि ववृधे गंतुं दक्षिणो दक्षिणां दिशम् ॥9||

प्लवंग प्रवरैद्रृष्टः प्लवने कृत निश्चये ।
ववृधे रामवृध्यर्थं समुद्र इव सर्वसु ॥ 10 ||

निष्प्रमाणशरीरस्सन् लिलिंघयिषुरर्णवम् ।
बाहुभ्यां पीडयामास चराणाभ्यां च पर्वतम् ॥ 11 ||

स चचालचलश्चापि मुहूर्तं कपि पीडितः ।
तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयन् ॥12 ||

तेन पादपमुक्तेन पुष्पौघेण सुगंधिना ।
पर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ॥13 ||

तेन चोत्तम वीर्येण पीड्यमानस्स पर्वतः ।
सलिलं संप्रसुस्राव मदं मत्त इव द्विपः ॥14 ||

पीड्यमानस्तु बलिना महेंद्रस्तेन पर्वतः ।
रीतिः निर्ववर्तयामास कांचनांजनराजतीः ॥ 15 ||

मुमोच च शिलाश्शैलो विशालासमनश्शिलाः ।
मध्यमेनार्चिषा जुष्ठो धूमराजीः इवानलः॥ 16||

गिरिणापीड्यमानेन पीड्यमानानि सर्वतः ।
गुहाविष्ठानि भूतानि विनेदुर्विकृतैः स्वरैः ॥17||

स महासत्व सन्नादः शैलपीडानिमित्तजः ।
पृथिवीं पूरयामास दिशश्चोपवनानि च ॥18||

शिरोभिः पृथिभिः सर्पा व्यक्त स्वस्तिकलक्षणैः ।
वमंतः पावकं घोरं ददंशुः दशनैश्शिलाः ॥19||

तास्तदा सविषैः दष्टाः कुपितैः तैः महाशिलाः ।
जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रथा ॥20||

यानि चौषधजालानि तस्मिन् जातानि पर्वते ।
विषघ्नान्यपि नागानां न शेकुः शमितं विषं॥21||

अपरे तु महाकाया वमन्तोsग्निं स्वतेजसा।
कन्दरेभ्यो विनिष्पेतुः कपि पादानि पीडितः ॥22||

गिरेराक्रम्यमाणस्य तरवस्तरुणांकुराः ।
मुमुचुः पुष्पवर्षाणि व्यक्तमुत्पलगन्धिनः ॥23||

गैरिकांजनसंजुष्ठाः हरितालसमावृताः ।
व्यदीर्यन्त गिरेस्तस्य शिलास्ताः समनः शिलाः॥24||

भिद्यतेsयं गिरिर्भू तैरिति मत्वा तपस्विनः ।
त्रस्ता विध्याधरः तस्मात् उत्पेतुः स्त्रीगणैसह॥25a||

पानभूमिगतं हित्वा हैममासवभाजनम्।
पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥25b||

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च।
आर्षभाणी च चर्माणि खड्गांश्च कनकत्सरून् ॥25c||

कृतकंठगुणाः क्षीबा रक्तमाल्यानुलेपनः।
रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ॥25d||

हारनूपूर केयूर पारिहार्यधराः स्त्रियः ।
विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह ॥26||

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।
सहितास्तस्थुराकाशे वीक्षांचक्रुश्च पर्वतम् ॥27||

शुश्रुवुश्च तदाशब्दं ऋषीणां भवतात्मनां।
चारणानांश्च सिद्धानां स्थितानां विमलेंबरे॥28||

एषपर्वत संकाशो हनुमान् मारुतात्मजः।
तितीर्षति महावेगः समुद्रं मकरालयम् ॥29||

रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्।
समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ॥30||

इति विद्याधराः श्रुत्वा वचस्तेषां तपस्विनाम्।
तमप्रमेयं दद्रुशुः पर्वते वानरर्षभम्॥31||

दुधुवेच स रोमाणि चकंपे चाच लोपमः।
ननाद सु महानादंसु महानिव तोयदः॥32||

आनुपूर्वेण वृत्तस्य लांगूलं लोमभिश्चितम्।
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ॥33||

तस्य लांगूलमाविद्ध मात्त वेगस्य पृष्ठतः।
ददृशे गरुडे नेव ह्रियमाणो महोरगः ॥34||

बाहूसंस्तंभयामास महा परिघ सन्निभौ ।
ससाद च कपिः कट्यां चरणौ संचुकोच च॥35||

संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम्।
तेजः सत्त्वं तथा वीर्य माविवेश स वीर्यवान् ॥36||

मार्गमालोकयन् दूरा दूर्ध्वं प्रणिहितेक्षणः।
रुरोद हृदये प्राणान् आकाशमवलोकयन् ॥37||

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुंजरः।
निकुंच्य कर्णौ हनुमान् उत्पतिष्यन् महाबलः।
वानरान् वानरश्रेष्ठ इदं वचन मब्रवीत् ॥।38||

यथा राघव निर्मुक्तः श्शरश्श्वसन विक्रमः ।
गच्छेत्तद्वद्गमिष्यामि लंकां रावणपालिताम्॥39||

न हि द्रक्ष्यामि यदि तां लंकायां जनकात्मजाम्॥
अनेनैव हि वेगेन गमिष्यामि सुरालयम् ॥40||

यदि वा त्रिदिवे सीतां न द्रक्ष्या म्यकृत श्रमः।
बद्द्वा राक्षस राजानं आनयिष्यामि सरावणम्॥41||

सर्वथा कृतकार्योsहं एष्यामि सह सीतया ।
आनयिष्यामि वा लंकां समुत्पाट्य स रावणम्॥42||

एवमुक्त्वातु हनुमान् वानरान् वानरोत्तमः ।
उत्पपाथ वेगेन वेगवान् अविचारयन् ॥43||
सुपर्णमिव च आत्मानं मेने स कपिकुंजरः ॥44||

समुत्पति तस्मिंस्तु वेगात्ते नग रोहिणः।
संहृत्य विटपान् सर्वान् समुत्पेतुः समंततः॥45||

स मत्तकोयष्टिमकान् पादपान् पुष्पशालिनः ।
उद्वहन्नूरुवेगेन जगाम विमलेंबरे ॥46||

ऊरु वेगोद्धता वृक्षा मुहूर्तं कपि मन्वयुः।
प्रस्थितं दीर्घमध्वानं स्वबंधुमिव बांधवः॥47||

त मूरु वेगोन्मथिता स्सालाश्चान्ये नगोत्तमाः।
अनुजग्मुर्हनूमंतं सैन्या इव महीपतिम्॥48||

सुपुषिताग्रैर्भहुभिः पादपैरन्वितः कपिः ।
हनुमान् पर्वताकारो भभूवाद्भुत दर्शनः॥49||

सारवन्तोsधये वृक्षान्यमज्जन् लवणांभसि।
भयादिव महेंद्रस्य पर्वता वरुणालये ॥50||

स नाना कुसुमैः कीर्णः कपिः सांकुर कोरकैः।
शुशुभे मेघ संकाशः खद्योतैरिव पर्वतः ॥51||

विमुक्ताः तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।
अवशीर्यंत सलिले निवृत्ताः सुहृदो यथा ॥52||

लघुत्वे नोपपन्नं तद्विचित्रं सागरे अपतत् ।
द्रुमाणां विविथम् पुष्पं कपिवायु समीरितम्।
ताराशत मिवाकाशं प्रभभौ स महार्णवः॥53||

पुष्पौघे नानुबद्धेन नानावर्णेन वानरः ।
बभौ मेघ इवाकाशे विद्युद्गण विभूषितः॥।54||
तस्य वेग समाधूतैः पुष्पैः तोयमदृश्यत ॥55||

ताराभि रभिरामाभि रुदिताभि रिवांबरम्।
तस्यांबर गतौ बाहू ददृशाते प्रसारितौ ॥56||

पर्वताग्रात् विष्क्रांतौ पंचास्याविव पन्नगौ।
पिबन्निव बभौ चापि सोर्मिमालं महार्णवम्॥57||

पिपासु रिव चाकाशं ददृशे स महाकपिः ।
तस्य विद्युत्प्रभाकारे वायु मार्गानु सारिणः ॥58||

नयने विप्रकाशेते पर्वतस्थाविवानलौ।
पिंगे पिंगाक्षमुख्यस्य बृहती परिमंडले ॥59||

चक्षुषी संप्रकाशेते चंद्रसूर्याविवोदितौ ।
मुखं नासिकया तस्य ताम्रया ताम्र माबभौ ॥60||

संध्यया समभिस्पृष्टं यथा तत्सूर्यमंडलम् ।
लांगूलं च समाविद्धम् प्लवमानस्य शोभते ॥61||

अंबरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितम्।
लांगूल चक्रेण महान् शुक्लदंष्ट्रोsनिलात्मजः॥62||

व्यरोचत महाप्राज्ञः परिवेषीव भास्करः।
स्फिग्देशे नाभिताम्रेण रराज स महाकपिः॥63||

महता दारितेनेव गिरिर्गैरिक धातुना ।
तस्य वानरसिंहस्य प्लवमानस्य सागरम्॥64||

कक्षांतरगतो वायुर्जीमूत इव गर्जति।
खे यथा निपतुंत्युल्का ह्युत्तरान्तात् विनिस्सृताः॥65||

दृश्यते सानुबन्धाधा च तथा स कपिकुंजरः ।
पतत्पतंग संकाशो व्यायत श्शुशुभे कपिः॥66||

प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया।
उपरिस्टात् शरीरेण छायया चाव गाढया ॥67||

सागरे मारुताविष्टौ नौ रिवासीत्तदा कपिः ।
यं यं देशं समुद्रस्य जगाम स महाकपिः ॥68||

स स तस्योरुवेगेन सोन्माद इव लक्ष्यते।
सागर स्योर्मिजालाना मुरसा शैलवर्ष्मणाम्॥69||

अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः।
कपिवातश्च बलवान् मेघवातश्च निस्सृतः॥70||

सागरं भीम निर्घोषं कम्पयामासतु र्भृशम्।
विकर्षन्नूर्मि जालानि बृहंति लवणांभसि॥71||

पुप्लुवे कपिशार्दूलो विकरन्निव रोदसी।
मेरुमंदर संकाशा नुद्धतान् स महार्णवे॥72||

अतिक्रामन् महावेगः तरंगान् गणयन्निव ।
तस्यवेग समुद्धूतं जलं सजलं यथा ॥73||

अंबरस्थं विबभ्राज शारदाभ्र मिवाततम् ।
तिमिनक्र झुषाः कूर्मा दृश्यंते विवृतास्तदा ॥74||

वस्त्रापकर्षणे नेव शरीराणि शरीरिणाम् ।
प्लवमानं समीक्ष्याथ भुजंगा स्सागरालयाः ॥75||

व्योम्नितं कपिशार्दूलं सुपर्ण इति मेनिरे ।
दशयोजन विस्तीर्णा त्रिंशत् योजनमायता॥76||

छाया वानरसिंहस्य जले चारुतराsभवत्।
श्वेताभ्र घनराजीव वायुपुत्त्रानुगामिनी॥77||

तस्य सा शुशुभे छाया वितता लवणांभसि।
शुशुभे स महातेजा महाकायो महाकपिः॥78||

वायुमार्गे निरालंबे पक्षवानिव पर्वतः।
ये नासौ याति बलवान् वेगेन स कपिकुंजरः॥79||

तेन मार्गेण सहसा द्रोणीकृत इवार्णवः।
अपाते पक्षिसंघानां पक्षिराज इव व्रजन् ॥80||

हनुमान् मेघजालानि प्रकर्षन् मारुतो यथा।
पांडुरारुण वर्णानि नीलमाजिष्ठकानि च॥81||

कपिना कृष्यमाणानि महाभ्राणि चकाशिरे ।
प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः॥82||

प्रच्छन्नश्च प्रकाशश्च चंद्रमा इव लक्ष्यते।
प्लवमानं तु तं दृष्ट्वा प्लवंगं त्वतितं तदा ॥83||

ववर्षुः पुष्पवर्षाणि देव गंधर्व दानवाः ।
तताप न हि तं सूर्यं प्लवंतं वानरोत्तमम्॥84||

सिषेवे च तदा वायू रामकार्यर्थ सिद्धये।
ऋषयः तुष्टुवुश्चैनं प्लवमानं विहायसा ॥85||

जगुश्च देव गंधर्वाः प्रशंसंतो महोजसम् ।
नागाश्च तुष्टुवु र्यक्षा रक्षांसि विबुधाः खगाः॥86||

प्रेक्ष्य सर्वे कपिवरं सहसा विगत क्लमम्।
तस्मिन् प्लवग शार्दूले प्लवमाने हनूमति॥87||

इक्ष्वाकुकुल मानार्थी चिन्तयामास सागरः।
साहाय्यं वानरेंद्रस्य यदि नाहं हनूमतः॥88||

करिष्यामि भविष्यामि सर्व वाच्यो विवक्षताम्।
अहमिक्ष्वाकु नाथेन सगरेण विवर्थितः॥89||

इक्ष्वाकु सचिवश्चायं नावसीदितु मर्हति ।
तथा मया विधातव्यं विश्रमेत यथा कपिः॥90||

शेषं च मयि विश्रांत स्सुखेनाति पतिष्यति ।
इति कृत्वा मतिं साध्वीं समुद्रश्चन्नमंभसि ॥91||

हिरण्य नाभं मैनाकं उवाच गिरिसत्तमम् ।
त्वमिहासुरसंघानां पाताळतलवासिनाम् ॥92||

देवराज्ञा गिरिश्रेष्ठ परिघस्सन्निवेशितः ।
त्व मेषां जात वीर्याणां पुनरेवोत्पतिष्यताम् ॥93||

पाताळ स्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।
तिर्यग् ऊर्ध्वं अधश्चैव शक्तिः ते शैलवर्थितुम्॥94||

तस्मात् संचोदयामि त्वां उत्तिष्ठ गिरिसत्तम।
स एष कपिशार्दूलः त्वामुपर्येति वीर्यवान् ॥95||

हनुमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः।
अस्य साह्यं मया कार्यं इक्ष्वाकुकुलवर्तिनः॥96||

मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।
कुरुसाचिव्य मस्माकं न नः कार्य मतिक्रमेत् ॥97||

कर्तव्यं अकृतं कार्यं सतां मन्युमुदीरयेत् ।
सलिलात् ऊर्ध्वं उत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ॥98||

अस्माकं अतिथिश्चैव पूज्यश्च प्लवतां वरः।
चामीकर महानाभ देव गंधर्व सेवित॥99||

हनुमांस्त्वयि विश्रांतः ततः शेषं गमिष्यति ।
स एष कपिशार्दूल स्त्वामुपर्येति वीर्यवान् ॥
काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्॥100||

श्रमं च प्लवगेंद्रस्य समीक्षोत्थातुमर्हसि ।
हिरण्यनाभो मैनाको निशम्य लवणांभसः ॥101||

उत्पपात जलात्तूर्णं महाद्रुम लता युतः।
ससागरजलं भित्वा बभूवाभ्युत्थितः तदा ॥102||

यथा जलधरं भित्वा दीप्तरश्मिर्दिवाकरः ।
स महात्म मुहूर्तेन पर्वतः सलिलावृतः ॥103||

दर्शयामास शृंगाणि सागरेण नियोजितः ।
आदित्योदिय संकाशैरालिखिद्भिरिवांबरम्।
शातकुंभमयैः शृंगैः सकिन्नरमहोरगैः ॥104||

तप्तजांबूनदैः शृंगैः पर्वतस्य समुत्थितैः ॥105||
आकाशं शस्त्र संकाशं अभवत्कांचनप्रभम्।
जातरूपमयै श्शृंगैर्भ्राजमानैः स्वयं प्रभैः ॥106||

आदित्य शत संकाश स्सोsभवत् गिरिसत्तमः।
तमुत्थित मसंगेन हनुमानग्रतस्थितम् ॥107||

मध्ये लवणतोयस्य विघ्नोयमिति निश्चितः।
स तमुच्छ्रित मत्यर्थं महावेगो महाकपिः ॥108||

उरसा पातयामास जीमूत मिव मारुतः
स तथा पातितः तेन कपिना पर्वतोत्तमः॥109||

बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननंद च ।
त माकाशगतं वीरं आकाशे समुपस्थितः ॥110||

प्रीतो हृष्ठमना वाक्यं अब्रवीत् पर्वतः कपिम्।
मानुषं धारयन् रूपं आत्मनः शिखरे स्थितः॥111||

दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तमः।
निपत्य मम शृंगेषु विश्रमस्व यथासुखं॥112||

राघवस्य कुले जाते रुदधिः परिवर्तितः ।
स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ॥113||

कृते च प्रतिकर्तव्यं एष धर्मः सनातनः।
सोsयं त्वत्प्रतीकारार्थी त्वत्तस्सम्मान मर्हति ॥114||

त्वन्निमित्तमनेनाहं बहुमानात् प्रचोदितः।
तिष्ठत्वं कपिशार्दूल मयि विश्रम्य गम्यताम्॥115||

योजनानां शतं चापि कपिरेष समाप्लुतः ।
तव सानुषु विश्रांतः शेषं प्रक्रमतां इति॥116||

तदिदं गंधवत् स्वादु कंदमूलफलम् बहु।
तदास्वाद्य हरिश्रेष्ठ विश्रांतोsनुगमिष्यसि ॥117||

अस्माकमपि संबंधः कपिमुख्य त्वयाsस्तिवै ।
प्रख्यातः त्रिषु लोकेषु महागुण परिग्रहः ॥118||

वेगवंतः प्लवंतो ये प्लवगामारुतात्मजः।
तेषां मुख्यतमः मन्ये त्वामहं कपिकुंजर॥119||

अतिथिः किल पूजार्हः प्राकृतोsपि विजानत।
धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ॥120||

त्वं हि देव वरिष्ठस्य मारुतस्य महात्मनः।
पुत्रः तस्यैव वेगेन सदृशः कपिकुंजरः॥121||

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः।
तस्मात् त्वं पूजनीयो मे शृणुचाप्यत्र कारणम्॥122||

पूर्वं कृत युगे तात पर्वताः पक्षिणोsभवन्।
ते हि जग्मुर्दिशस्सर्वा गरुडानिल वेगिनः॥123||

ततस्तेषु प्रयातेषु देवसंघास्सहर्षिभिः ।
भूतानि च भयं जग्मुः तेषां पतनशंकया ॥124||

ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः।
पक्षान् चिच्छेद वज्रेण तत्र तत्र सहस्रशः॥125||

समामुपागतः क्रुद्धो वज्रमुद्यम देवराट्।
ततोsहं सहसा क्षिप्त श्वसनेन महात्मना॥126||

अस्मिन् लवणतोये च प्रक्षिप्तः प्लवगोत्तमः।
गुप्तपक्ष समग्रश्च तवपित्राsभि रक्षितः॥127||

ततोsहं मानयामि त्वां मान्योहि मम मारुतः ।
त्वया मे ह्येष संबंधः कपिमुख्य महागुणः॥128||

अस्मिन्नेवं गते कार्ये सागरस्य ममैव च।
प्रीतिं प्रीतमनाः कर्तुं त्वमर्हसि महाकपे ॥129||

श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।
प्रीतिं च बहु मन्यस्व प्रीतोsस्मि तव दर्शनात् ॥130||

एवमुक्तः कपिश्रेष्ठः तं नगोत्तमम् अब्रवीत् ।
प्रीतोsस्मि कृतामातिथ्यं मन्युरेषोsपनीयताम्॥131||

त्वरते कार्यकालोमे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मयादत्ता न स्थातव्य मिहांतरे ॥132||

इत्युक्त्वा पाणिना शैलं आलभ्य हरिपुंगवः।
जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ॥133||

स पर्वत समुद्राभ्यां बहुमानादवेक्षितः ।
पूजितश्चोपपनाभि राशीर्भि रविनिलात्मजः ॥134||

अथोर्थ्वं दूरमुत्प्लुत्य हित्वा शैलमहार्णवौ ।
पितुः पंथान मास्थाय जगाम विमलेंबरे॥135||

भूयश्चोर्ध्वगतिं प्राप्य गिरिं तं अवलोकयन् ।
वायुसूनुनिरालंबे जगाम विमलेंबरे॥136||

तद्वितीयं हनुमतो दृष्ट्वा कर्मसुदुष्करम्।
प्रशशंसु स्सुरास्सर्वे सिद्धाश्च परमर्षयः॥137||

देवताश्चाभवन् हृष्टाः तत्रस्थास्तस्य कर्मणा।
कांचनस्य सुनाभस्य सहस्राक्षश्च वासवः॥138||

उवाच वचनं धीमान् परितोषात् सगद्गदम्।
सुनाभं पर्वत श्रेष्ठं स्वयमेव शचीपतिः ॥139||

हिरण्यनाभ! शैलेंद्र! परितुष्टोsस्मि ते भृशम्।
अभयं ते प्रयच्छामि तिष्ठ सौम्य यथा सुखम्॥140||

साह्यं कृतं ते सुमहद्विक्रांतस्य हनूमतः।
क्रमतो योजनशतं निर्भयस्य भये सति॥141||

रामस्यैष हि दूत्येन याति दाशरथेर्हरिः ।
सत् क्रियां कुर्वता तस्य तोषितोsस्मि दृढं त्वया॥142||

ततः प्रहर्षमगम द्विपुलं पर्वतोत्तमः ।
देवतानां पतिं दृष्ट्वा परितुष्ठं शतक्रतुम्॥143||

सवै दत्तवरशैलो बभूवास्थितः तदा ।
हनुमांश्च मुहुर्तेन व्यतिचक्राम सागरम्॥144||

ततो देवाः सगंधर्वाः सिद्धाश्च परमर्षयः।
अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्॥145||

अयं वातात्मज श्श्रीमान् प्लवते सागरोपरि।
हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर॥146||

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्।
दंष्ट्रा कराळं पिंगाक्षं वक्त्रं कृत्वा नभस्समम्॥147||

बलमिच्चामहे ज्ञातुं भूयश्चास्य पराक्रमम्।
त्वां विजेष्यत् उपायेन विषादं वा गमिष्यति ॥148||

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।
समुद्र मध्ये सुरसा भिभ्रती राक्षसं वपुः॥149||

विकृतं च विरूपं च सर्वस्य च भयावहम्।
प्लवमानं हनूमंतं आवृत्येदमुवाचह॥150||

ममभक्षः प्रदिष्टस्त्वं ईश्वरैर्वानरर्षभ ।
अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्॥151||

एवमुक्तः सुरसया प्रांजलिर्वानरर्षभ।
प्रहृष्टवदनः श्रीमान् इदं वचनमब्रवीत् ॥152||

रामोदाशरथिर्नाम प्रविष्टो दंडकावनम्।
लक्ष्मणेन सह भ्राता वैदेह्याचापि भार्यया॥153||

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।
तस्य सीता हृता भार्या रावणेन यशस्विनी॥154||

तस्याः सकासं दूतोsहं गमिष्ये राम शासनात् ।
कर्तुमर्हसि रामस्य साह्यं विषयवासिनि॥155||

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्ठकारिणम्।
आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रुणोमि ते॥156||

एवमुक्ता हनुमता सुरसा कामरूपिणी।
अब्रवीन्नातिवर्तेन्मां कश्चिदेषवरो मम॥157||

तं प्रयांतं समुद्वीक्ष्य सुरसा वाक्य मब्रवीत्।
बलं जिज्ञासमाना वै नागमाता हनूमतः॥157-1||

प्रविश्य वदनं मेsद्य गंतव्यम् वानरोत्तम।
वर एषा पुरा दत्तो ममधात्रेति सत्वरा॥157-2||

व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः।
एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः॥157-3||

अब्रवीत्कुरुवै वक्त्रं येन मां विषहिष्यसे।
इत्युक्त्वा सुरसा क्रुद्धा दशयोजनमायता ॥157-4||

दशयोजनविस्तारो बभूव हनुमांस्तदा ।
तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्॥157-5||

चकार सुरसा चास्यं विंशद्योजन मायतम्।
हनुमांस्तु तदा क्रुद्धः त्रिंशद्योजन मायतः॥157-6||

चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।
बभूव हनुमान्वीरः पंचाशद्योजनोच्छ्रितः॥157-7||

चकार सुरसा वक्त्रं षष्टियोजन मायतम्।
तथैव हनुमान्वीरः सप्तती योजनोच्छ्रितः॥157-8||

चकार सुरसा वक्त्रं अशीती योजनायतम् ।
हनुमान् अचलप्रख्यो नवती योजनोच्छ्रितः ॥157-9||

चकार सुरसा वक्त्रं शतयोजन मायतम्।
तं दृष्ट्वा व्यादितं त्वास्यं वायुपुत्त्रः सुबुद्धिमान्॥157-10||

दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्।
सुसंक्षिप्यात्मनः कायं बभूवांगुष्टमात्रकः॥158||

सोsभिपत्याशु तद्वक्त्रं निष्पत्य च महाबलः।
अंतरिक्षे स्थितः श्रीमान् इदं वचनमब्रवीत् ॥159||

प्रविष्टोsस्मि हि ते वक्त्रं दाक्षायनी नमोस्तुते।
गमिष्ये यत्र वैदेही सत्यं चासीद्वरस्तव ॥160||

तं दृष्ट्वा वदानान्मुक्तं चंद्रं राहुमुखादिव।
अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्॥161||

अर्थसिध्यै हरिश्रेष्ठ गच्छसौम्य यथासुखम्।
समानयस्व वैदेहीं राघवेण महात्मना ॥162||

ततृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।
साधु साध्विति भूतानि प्रशशंसुः तदा हरिम् ॥163||

स सागर मनाधृष्य मभ्येत्य वरुणालयम्।
जगामाकाशमाविश्य वेगेन गरुडोपमः॥164||

सेविते वारिदाराभिः पतगैश्च निषेविते ।
चरिते कैशिकाचार्यैः इरावतनिषेविते॥165||

सिंहकुंजर शार्दूल पतगोरगवाहनैः।
विमानैः संपतद्भिश्च विमलैः समलंकृते॥166||

वज्राशनिसमहाघातैः पावकैरुपशोभिते ।
कृतपुण्यै र्महाभागैः स्वर्गजिद्भिरलंकृते॥167||

वहता हव्य मतर्थं सेविते चित्रभानुना ।
ग्रहनक्षत्र चंद्रार्क तारागण विभूषिते॥168||

महर्षि गण गंधर्व नागयक्ष समाकुले
विविक्ते विमले विश्वे विश्वावसु निषेविते ॥169||

देवराज गजाक्रांते चंद्रसूर्य पथे शिवे।
विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ॥170||

बहुशस्सेविते वीरै र्विद्याधरगणैर्वरैः।
जगाम वायु मार्गेतु गरुत्मानिव मारुतः॥171||

प्रदृश्यमान सर्वत्र हनुमान् मारुतात्मजः।
भेजेsम्‍बरम् निरालंबं लंबपक्ष इवाद्रिराट्॥172||

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी।
मनसा चिंतयामास प्रवृद्धा कामरूपिणी ॥173||

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।
इदं हि मे महत् सत्वं चिरस्य वशमागतम्॥174||

इति संचित्य मनसा छायमस्य समाक्षिपत् ।
छायायां गृह्यमाणायां चिंतयामास वानरः॥175||

समाक्षिप्तोsस्मि सहसा पंगूकृत पराक्रमः।
प्रतिलोमेन वातेन महानौरिव सागरे॥176||

तिर्यगूर्ध्वमथश्चैव वीक्षमाणस्ततः कपिः।
ददर्श स महत् सत्त्वं उत्थितं लवणांभसि॥177||

तदृष्ट्वा चिंतयामास मारुतिर्विकृताननः।
कपिराजेन कथितं सत्त्वमद्भुत दर्शनम्॥178||

छायाग्राही महावीर्यं तदिदं नात्र संशयः।
स तां बुद्वार्थतत्वेन सिंहिकां मतिमान्कपिः॥179||
व्यवर्थत महाकायः पावृषीव वलाहकः॥180||

वक्त्रं प्रसारमायास पाताळांतर सन्निभम्।
घनराजीव गर्जंती वानरं समभिद्रवत्॥181||

स ददर्श ततस्तस्या विवृतं सुमहान्मुखम्।
कायमात्रं च मेधावी मर्माणि च महाकपिः॥182||

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः।
संक्षिप्त्य मुहुरात्मानं निष्पपात महाबलः॥183||

अस्ये तस्या निमज्जंतं ददृशु सिद्धचारणाः।
ग्रस्यमानं यथा चंद्रं पूर्णं पर्वणि राहुणा॥184||

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः।
उत्पपाथ वेगेन मनः संपातविक्रमः॥185||

तां तु दृष्ट्या च धृत्याच दाक्षिण्येन निपात्य च।
स कपिप्रवरो वेगाद्ववृधे पुनरात्मवान् ।186||

हृतहृत्सा हनुमात पपात विधुरांभसि।
तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्॥187||

भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम्।
भीममद्यकृतं कर्म महत् सत्वं त्वया हतम्॥188||

साधयार्थमभिप्रेतं अरिष्टंप्लवतां वर।
यस्यत्वेतानि चत्वारि वानरेंद्र यथा तव॥189||

धृतिर्दृष्टिर्मति दाक्ष्यं स्वकर्मसु सीदति।
सतैः संभावितः पूज्यः प्रतिपन्न प्रयोजनः॥190||

जगामाकासमाविश्य पन्नगाशनवत्कपिः।
प्राप्तभूयिष्ट पारस्तु पर्वतः प्रतिलोकयन् ॥191||

योजनानां शतस्यांते वनराजिं ददर्श सः।
ददर्श च पतन्नेव विविध द्रुमभूषितम्॥192||

द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च।
सागरं सागरानूपं सागरा नूपजान्द्रुमान् ॥193||

सागरस्य च पत्नीनां मुखान्यपि विलोकयन्।
स महामेघसंकाशं समीक्ष्यात्मान मात्मवान्॥194||

निरुंधत मिवाकाशं चकार मतिमान्मतिम्।
कायवृद्धिं प्रवेगं च ममदृष्ट्वैव राक्षसाः॥195||

मयि कौतूहलं कुर्युरिति मेने महाकपिः।
ततः शरीरं संक्षिप्य तन्महीधरसन्निभम्॥196||

पुनः प्रकृति मापेदे वीतमोहा इवात्मवान्।
तद्रूप मति संक्षिप्य हनुमान् प्रकृतौ स्थितः॥
त्रीन्क्रमानिव विक्रम्य बलिवीर्यहरो हरिः॥197||

स चारुनानाविधरूपधारी
परं समासाद्य समुद्र तीरम्।
परैरशक्यः प्रतिपन्नरूपः
समीक्षितात्मा समवेक्षितार्थः॥198||

ततस्सलंबस्य गिरेः समृद्धे
विचित्र कूटे निपपात कूटे।
सकेत कोद्दालकनाळिकेरे
महाद्रिकूट प्रतिमो महात्मा॥199||

ततस्तु संप्राप्य समुद्र तीरं
समीक्ष्य लंकां गिरिवर्यमूर्ध्नि।
कपिस्तु तस्मिन् निपपात पर्वते
विधूय रूपं व्यधयन् मृगद्विजान्॥200||

स सागरं दानवपन्नगायुतम्
बलेन विक्रम्य महोर्मिमालिनम्।
निपत्य तीरे च महोदधे स्तदा
ददर्श लंकां अमरावतीम् इव॥ 201||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे प्रथमस्सर्गः॥