||Sundarakanda ||

|| Sarga 11||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ एकादशस्सर्गः

अवधूताय च तां बुद्धिं बभूवास्थित तदा।
जगाम चापरां चिंतां सीतां प्रति महाकपिः॥1||

न रामेण वियुक्ता सा स्वप्तु मर्हति भामिनी।
न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्॥2||

नान्यं नरमुपस्थातुं सुराणामपि चेश्वरीम्।
न हि रामः समः कश्चित् विद्यते त्रिदशेष्वपि॥3||

अन्येयमिति निश्चित्य पानभूमौ चचार सः।
क्रीडिते नापराः क्लांता गीतेन च तथाsपराः॥4||

नृत्तेन चापराः क्लांताः पान विप्रहतस्तथा।
मुरजेषु मृदंगेषु पीठिकासु च संस्थिताः॥5||

तथास्तरण मुख्येषु संविष्ठा श्चापरा स्त्रियः ।
अंगनानां सहस्रेण भूषितेन विभूषणैः॥6||

रूपसल्लापशीलेन युक्तगीतार्थ भाषिणा।
देशकालाभियुक्तेन युक्तवाक्याभिदायिना॥7||

रताभिरतसंसुप्तं ददर्श हरियूथपः।
तासां मध्ये महाबाहुः सुशुभे राक्षसेश्वरः॥8||

गोष्ठेमहति मुख्यानां गवां मध्ये यथा वृषः।
स राक्षसेंद्र शुश्शुभे ताभिः परिवृतः स्वयम्॥9||

करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः।
सर्वकामैरुपेतां च पानभूमिं महात्मनः॥10||

ददर्श हरिशार्दूलः तस्य रक्षः पतेर्गृहे।
मृगाणां महिषाणां च वराहाणांच भागशः॥11||

तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः।
रौक्मेषु च विशालेषु भजनेष्वर्थ भक्षितान्॥12||

ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा।
वराहार्थ्राणसकान् दधिसौवर्चलायुतान्॥13||

शल्यान्मृगमयूरांश्च हनुमानन्ववैक्षत।
क्रकरान् विविधान् सिद्धां श्चकोरानर्थभक्षितान्॥14||

महिषान् एकशल्यांश्च छांगांश्च कृतनिष्ठितान्।
लेह्यानुच्चावचान् पेयान् भोज्यानि विविधानिच॥15||

तथाssम्ललवणोत्तं सैर्विविधैरागषाडबैः।
हारनूपूर केयूरै रपविद्धै र्महाधनैः॥16||

पानभाजन विक्षिप्तैः फलैश्च विविधैरपि।
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्॥17||

तत्र तत्र च विन्यस्तै शुश्लिष्टै श्शयनासनैः।
पानभूमिर्विना वह्निः प्रदीप्ते वोपलक्ष्यते॥18||

बहुप्रकारैर्विविधैः वरसंस्कारसंस्कृतैः।
मांशैः कुशलसंपृक्तैः पानभूमिगतैः पृथक्॥19||

दिव्याः प्रपन्ना विविधाः सुराः कृतसुरा अपि ।
शर्कराssसव माध्वीक पुष्पासव फलासवाः॥20||

वासचूर्णैश्च विविधैः द्रृष्टाः तैः तैः पृथक् पृथक्।
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः॥21||

हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि।
जांबूनदमयै श्चान्यैः करकैरभिसंवृता॥22||

राजतेषु च कुंभेषु जांबूनदमयेषु च ।
पानश्रेष्ठं तदा भूरि कपिः तत्र ददर्श ह ॥23||

सोपश्य च्चातकुंभानि शिलामणि मयानि च।
राजतानि च पूर्णानि भाजनानि महाकपिः॥24||

क्वचित् अर्थावशेषाणि क्वचि पीतानि सर्वशः।
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह॥25||

क्वचिदृक्ष्यां श्च विविधान् क्वचित्पानानि भागशः।
क्वचिदर्थाव शेषाणि पश्यन् वै विचचार ह॥26||

क्वचिप्रभन्नैः करकैः क्वचिदालोळितैर्घटैः।
क्वचित्संपृक्तमाल्यानि जलानि फलानि च॥27||

शयनान् यत्र नारीणां शुभ्राणि बहुधा पुनः।
परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः॥28||

काश्चिच्च वस्तं अन्यस्यास्स्वपंत्याः परिधाय च।
आहृत्य च अबलाः सुप्ता निद्रा बलपराजिताः॥29||

तासां उच्च्वासवातेन वस्त्रं माल्यं च गात्रजम्।
नात्यर्धं स्पंदते चित्रं प्राप्य मंदमिवानलम्॥30||

चंदनस्य च शीतस्य शीथोर्मधुरसस्य च।
विविधस्य च माल्यस्य धूपस्य विविधस्य च॥31||

बहुधा मारुतः तत्र गंधं विविधमुद्वहन्।
रसानां चंदनानां च धूपानां चैव मूर्चितः॥32||

प्रववौ सुरभिर्गंधो विमाने पुष्पके तदा।
श्यामावदाता स्तत्रान्याः काश्चित् कृष्णा वरांगनाः॥33||

काश्चि कांचन वर्णांग्यः प्रमदा राक्षसालये।
तासां निद्रावशत्वाच्च मदनेन विमूर्चितम्॥34||

पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव च।
एवं सर्वं अशेषेण रावणांतःपुरं कपिः॥35||

ददर्श सुमहातेजा न ददर्श जानिकीम्।
निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः॥36||

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्।
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति॥37||

न हि मे परदाराणां दृष्ठिर्विषयवर्तिनी।
अयं चात्र मयादृष्टः परदार परिग्रहः॥38||

तस्य प्रादुरभूच्चिंता पुनरन्या मनस्विनः।
निश्चितैकांतचित्तस्य कार्य निश्चय दर्शिनः॥39||

कामं दृष्टा मयासर्वा विश्वस्ता रावणस्त्रियः।
न हि मे मनसः किंचित् वैकृत्यं उपपद्यते॥40||

मनो हिहेतुः सर्वेषां इंद्रियाणां प्रवर्तने।
शुभा शुभा स्ववस्थासु यच्च मे सुव्यवस्थितम्॥41||

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्।
स्त्रियो हि स्त्रीषु दृश्यंते सदा संपरिमार्गणे॥42||

यस्य सत्त्वस्य या योनिः तस्यां तत्परिमार्ग्यते।
न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्॥43||

तदिदं मार्गितं तावच्चुद्धेन मनसा मया।
रावणांतः पुरं सर्वं दृश्यते न च जानकी॥44||

देवगंधर्वकन्याश्च नागकन्याश्च वीर्यवान्।
अवेक्षमाणो हनुमान् नैवापश्यत जानिकीम्॥45||

ता मपश्यन् कपिः तत्र पश्यं श्चान्या वरस्त्रियः।
अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे॥46||

सभूय स्तां परं श्रीमान् मारुतिर्यत्न मास्थितः।
अपानभूमि मुत्सृज्य तद्विचेतुं प्रचक्रमे॥47||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकादशस्सर्गः॥


|| Om tat sat ||