||Sundarakanda ||

|| Sarga 11||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ एकादशस्सर्गः

अवधूताय च तां बुद्धिं बभूवास्थित तदा।
जगाम चापरां चिंतां सीतां प्रति महाकपिः॥1||

स॥ महाकपिः तां बुद्धिं अवधूय अवस्थितः बभूव। सीतां प्रति अपरं चिंतां जगाम॥

The great Vanara having rejected his judgement stood there. Then started thinking about Sita again.

न रामेण वियुक्ता सा स्वप्तु मर्हति भामिनी।
न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्॥2||
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरीम्।
न हि रामः समः कश्चित् विद्यते त्रिदशेष्वपि॥3||

स॥ भामिनी रामेणा वियुक्ता स्वप्तुं न अर्हति । भोक्तुं न । न अलंकर्तुं । न पानं उपसेवितुम्॥ न अन्यं नरं उपस्थातुं सुराणां ईश्वरम् अपि न । रामः समः त्रिदशेष्वपि न कश्चित् विद्यते॥

(Sita) The lovely lady separated from Rama will not sleep. Not eat. Not decorate herself. Not drink. Not approach another man even if it is the Lord among the Gods. There is none equal to Rama even among Gods.

अन्येयमिति निश्चित्य पानभूमौ चचार सः।
क्रीडिते नापराः क्लांता गीतेन च तथाsपराः॥4||
नृत्तेन चापराः क्लांताः पान विप्रहतस्तथा।
मुरजेषु मृदंगेषु पीठिकासु च संस्थिताः॥5||

स॥ सः अयं अन्यः इति निश्चित्य पानभूमौ चचार। पराः क्लीडितेन क्लांताः तथा अपराः गीतेन (क्लांताः)॥ अपराः नृत्तेन च क्लांताः ।तथा पानविप्रहताः (क्लांताः अपाराः)। ( अपराः स्त्रियः) मुरजेषु मृदंगेषु पीठिकासु च संस्थिताः ॥

Having decided that she is some body else he started moving about in the banquet hall. There are women exhausted by sporting, there are others exhausted by singing. Others were exhausted by dancing. Others worn out due to drinking. Yet others resting on Murajas, Tabors, in hassocks.

तथास्तरण मुख्येषु संविष्ठा श्चापरा स्त्रियः ।
अंगनानां सहस्रेण भूषितेन विभूषणैः॥6||
रूपसल्लापशीलेन युक्तगीतार्थ भाषिणा।
देशकालाभियुक्तेन युक्तवाक्याभिदायिना॥7||
रताभिरतसंसुप्तं ददर्श हरियूथपः।

स॥ तथा अपराः स्त्रियः आस्थरण मुख्येषु संस्थिताः । हरियूथपः विभूषणेन भूषितैः रूपसल्लापशीलेन युक्तगीतार्थभाषिणा देशकालाभियुक्तेन युक्तवाक्याभिधायिना रताभिरतसंसुप्तं सहस्रेण अंगनानां ददर्श॥

Others were resting on exquisite beds. The best among Vanaras saw thousands of women adorned with ornaments who are good at arguments who are well versed in appreciation, who were well aware of the time and place, who are good at appropriate expressions, who were sleeping after dalliance.

तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः॥8||
गोष्ठेमहति मुख्यानां गवां मध्ये यथा वृषः।
स राक्षसेंद्र शुश्शुभे ताभिः परिवृतः स्वयम्॥9||
करेणुभिर्यथारण्ये परिकीर्णो महाद्विपः।

स॥ तासां मध्ये महाबाहुः राक्षसेश्वरः यथा महति गोष्ठे गवां मध्ये वृषः इव शुशुभे ॥ ताभि परिवृतः सः राक्षसेंद्रः स्वयं यथा महारण्ये करेणुभिः परिकीर्णः द्विपः इव शुशुभे॥

In the midst of these women the king of Rakshasas with powerful arms shone like a bull among the cows in a big cowshed. Surrounded by these women the king of Rakshasas shone like a great elephant among the female elephants in a big forest.

सर्वकामैरुपेतां च पानभूमिं महात्मनः॥10||
ददर्श हरिशार्दूलः तस्य रक्षः पतेर्गृहे।
मृगाणां महिषाणां च वराहाणांच भागशः॥11||
तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः।

स॥ महात्मनः हरिशार्दूलः सर्व कामैः उपेतां पानभूमिं च तस्य रक्षः पतेः गृहे ददर्श॥ तत्र पानभूमौ मृगाणां महिषाणां च वराहाणां च मांसानि भागशः न्यस्तानि ददर्श॥

The great one a tiger among the Vanaras then saw a banquet hall which is provided with everything in the palace of the king of Rakshasas. There in that banquet hall apportioned meat of deer, buffaloes and pigs was placed.

रौक्मेषु च विशालेषु भजनेष्वर्थ भक्षितान्॥12||
ददर्श हरिशार्दूलो मयूरान् कुक्कुटांस्तथा।
वराहवार्थ्राणसकान् दधिसौवर्चलायुतान्॥13||
शल्यान्मृगमयूरांश्च हनुमानन्ववैक्षत।

स॥ हरिशार्दूलः रौक्मेषु विशालेषु भाजनेषु अर्थभक्षितान् मयूरान् तथा कुक्कुटान् ददर्श॥शल्यान् दधिसौवर्चलायुतान् वराहवार्ध्राणसकान् मृगमयूरांश्च हनुमान् अन्ववैक्षत॥

The tiger among the Vanaras saw large golden vessels with half eaten peacocks as well as chicken. Hanuman observed bones marinated with yogurt and special salt , meat of pigs and jungle fowls as well as deer and peacocks.

क्रकरान् विविधान् सिद्धां श्चकोरानर्थभक्षितान्॥14||
महिषान् एकशल्यांश्च छांगांश्च कृतनिष्ठितान्।
लेह्यानुच्चावचान् पेयान् भोज्यानि विविधानिच॥15||
तथाssम्ललवणोत्तं सैर्विविधैरागषाडबैः।
हारनूपूर केयूरै रपविद्धै र्महाधनैः॥16||
पानभाजन विक्षिप्तैः फलैश्च विविधैरपि।
कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्॥17||

विविधान् सिद्धान् क्रकरान् चकोरान् महिषान् एकशल्यांस्च छगांश्च उच्चवचान् लेह्यान् पेयान् विविधानि भोज्यानि च (हनुमान् अन्ववैक्षत)॥ तथा आम्ललवणोत्तंसैः विविधैः रागषाडभैः अपविद्धैः महाधनैः हारनूपुरकेयूरैः पानभाजनविक्षिप्तैः विविधैः फलैश्च कृतपुष्पोपहारा भूः अधिकं श्रियं पुष्यति॥

He saw a variety of several types of cooked fowls half eaten ruddy geese , buffaloes, fishes, goats and all sorts of food that can be licked and variety of drinks. The banquet hall, filled with food seasoned with salt and sour ingredients, with many types of syrups, with discarded heavy chains, anklets and shoulder straps, with drinks spilt from glasses, with many fruits and flowers, looked very splendid.

तत्र तत्र च विन्यस्तै शुश्लिष्टै श्शयनासनैः।
पानभूमिर्विना वह्निः प्रदीप्ते वोपलक्ष्यते॥18||
बहुप्रकारैर्विविधैः वरसंस्कारसंस्कृतैः।
मांशैः कुशलसंपृक्तैः पानभूमिगतैः पृथक्॥19||

स॥पानभूमिः तत्र तत्र विन्यस्तैः सुश्लिष्ठैः शयनासनैः विना वह्निं प्रदीप्तेव उपलक्ष्यते ॥ बहुप्रकारैः विविधैः नरसंस्कारसंस्कृतैः कुशल संपृक्तैः पृथक् पानभूमि गतैः मांसैः ॥

The banquet hall with well arranged beds and seats here and there was glowing even wthout fire. With variety of meat arranged in many ways seasoned with many types of ingredients, cooked by experts the banquet hall was filled.

दिव्याः प्रपन्ना विविधाः सुराः कृतसुरा अपि ।
शर्कराssसव माध्वीक पुष्पासव फलासवाः॥20||
वासचूर्णैश्च विविधैः द्रृष्टाः तैः तैः पृथक् पृथक्।
संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः॥21||
हिरण्मयैश्च विविधैर्भाजनैः स्फाटिकैरपि।
जांबूनदमयै श्चान्यैः करकैरभिसंवृता॥22||

स॥ दिव्याः प्रसन्नाः विविधाः सुराः शर्कराssसव माध्वीक पुष्पासव फलासवाः कृतसुराः अपि तैस्तैः विविधैः वासचूर्णैः पृथक् पृथक् मृष्टाः॥बहुशंस्थितैः माल्यैश्च संतता हिरण्मयैः स्फाटिकैरपि विविधैः भाजनैः जाम्बूनदमयैः अन्यैः करकैः अभिसंवृता भूमिः शुशुभे॥

Wonderful and pleasing wines extracted from sugarcane , honey and flowers though fermented were made delicious with spices. Arranged in variety of ways with garlands, vessels made of gold and crystals , the jars spread all over , the floor looked splendid.

राजतेषु च कुंभेषु जांबूनदमयेषु च ।
पानश्रेष्ठं तदा भूरि कपिः तत्र ददर्श ह ॥23||
सोपश्य च्चातकुंभानि शीधोर्मणिमयानि च।
राजतानि च पूर्णानि भाजनानि महाकपिः॥24||

स॥ कपिः तदा राजतेषु जाम्बूनदमयेषु कुंभेषु भूरि पानश्रेष्ठं तत्र ददर्श ह॥ स महाकपिः पूर्णानि शीधोः भाजनानि शातकुम्भानि मणिमायानि च रजतानि च अपश्यत्॥

The Vanara saw abundant of the best of wines kept in silver and golden vessels. The great Vanara saw filled wine vessels made of made of gold inlaid with gems also and of silver too.

क्वचित् अर्थावशेषाणि क्वचि पीतानि सर्वशः।
क्वचिन्नैव प्रपीतानि पानानि स ददर्श ह॥25||
क्वचिदृक्ष्यां श्च विविधान् क्वचित्पानानि भागशः।
क्वचिदर्थाव शेषाणि पश्यन् वै विचचार ह॥26||

स॥ क्वचित् अर्थावशेषाणि क्वचित् सर्वशः पीतानि क्वचित् नैव प्रपीतानि पानानि ददर्श ह॥ क्वचित् विविधान् भक्ष्यांश्च क्वचित् पानानिभागशः क्वचित् अवशेषाणि पश्यन् विचचार ह॥

There he saw some half filled, some fully drained and some not even touched drinks. In one place many types of eatables, at another place drinks separately , yet at another place left over food was seen as he moved about.

क्वचिप्रभन्नैः करकैः क्वचिदालोळितैर्घटैः।
क्वचित्संपृक्तमाल्यानि जलानि फलानि च॥27||

स॥ क्वचित् प्रभिन्नैः करकैः क्वचित् आलोलितैः घटैः क्वचित् संप्रुक्तमाल्यानि जलानि च फलानि च (हनुमान् ददर्श)॥

At one place he saw a broken pots at another place rolling pots and yet at another place mixed up flower garlands strewn about along with water and fruits.

शयनान् यत्र नारीणां शुभ्राणि बहुधा पुनः।
परस्परं समाश्लिष्य काश्चित् सुप्ता वरांगनाः॥28||
काश्चिच्च वस्त्रं अन्यस्यास्स्वपंत्याः परिधाय च।
आहृत्य च अबलाः सुप्ता निद्रा बलपराजिताः॥29||

स॥ अत्र नारीणां शयनानि पुनः बहुधा शुभ्राणि काश्चित् वरांगानाः परस्परं समाश्लिष्य सुप्ताः हनुमान् ददर्श॥ काश्चित् निद्राबलपराजिताः अन्यस्याः स्वपंत्याः वस्त्रं आहृत्य परिधाया सुप्ताः अबलाः (हनुमान् ददर्श)॥

There Hanuman saw some women's beds unused, some women were sleeping having embraced another woman. Some overcome with sleep pulled the clothes from some other sleeping women and slept.

तासां उच्च्वासवातेन वस्त्रं माल्यं च गात्रजम्।
नात्यर्धं स्पंदते चित्रं प्राप्य मंदमिवानलम्॥30||

स॥ तासां गात्रजं वस्त्रं माल्यांश्च उछ्छ्वासवातेन मंदं अनिलं प्राप्य इव नात्यर्थं चित्रं स्पंदते॥

The clothes on their bodies as well as the garlands moved gently by the wind created by their exhalations.

चंदनस्य च शीतस्य शीथोर्मधुरसस्य च।
विविधस्य च माल्यस्य धूपस्य विविधस्य च॥31||
बहुधा मारुतः तत्र गंधं विविधमुद्वहन्।
स्नानानां चंदनानां च धूपानां चैव मूर्चितः॥32||
प्रववौ सुरभिर्गंधो विमाने पुष्पके तदा।

तत्र मारुतः शीतस्य चंदनस्य शीथोः मधुरस्य च विविधस्य माल्यस्य विविधस्य धूपस्य च विविधं गंधं बहुधा उद्वहन्॥स॥ तदा पुष्पके विमाने स्नानानाम् चंदनानां च धूपानां चैव सुरभिः गंधः मूर्चितः प्रववौ॥

There wind carried the fragrances of cool sandal , of sweet smelling wines of different types, of flower garlands of different types, of incenses of different types. Then on the Pushpaka chariot the fragrance of cool sandal used after bath, fragrance of incense as well as sweet smelling wines wafted through.

श्यामावदाता स्तत्रान्याः काश्चित् कृष्णा वरांगनाः॥33||
काश्चि कांचन वर्णांग्यः प्रमदा राक्षसालये।
तासां निद्रावशत्वाच्च मदनेन विमूर्छितम्॥34||
पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव च।

स॥ तत्र राक्षसालये अन्याः श्यामावदाताः काश्चित् वरांगनाः कृष्णाः काश्चित् प्रमदाः कांचनवर्णांग्यः ॥ निद्रावशत्वाच्च मदनेन च विमूर्छितम् प्रसुप्तानां तासां रूपं यथा प्रसुप्तानां पद्मिनीनां इव आसीत् ॥

There in the mansion of Rakshasas there were other Rakshasa women of glowing dark complexion as well as lovely women dark in color as well as some of golden complexion. Over come with sleep and exhausted due to dalliance , the women who were sleeping looked like lotus creepers.

एवं सर्वं अशेषेण रावणांतःपुरं कपिः॥35||
ददर्श सुमहातेजा न ददर्श जानिकीम्।

स॥ सुमहातेजः कपिः एवं सर्वं रावणांतः पुरं अशेषेण ददर्श । जानकीं च नददर्श॥

The brillinat Vanara saw all this in the inner apartments of Ravana . He did not see Janaki.

निरीक्षमाणश्च तदा ताः स्त्रियः स महाकपिः॥36||
जगाम महतीं चिंतां धर्मसाध्वसशंकितः ।
परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्॥37||
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति।

स॥ तथा स्त्रियः निरीक्षमाणः सः महाकपिः धर्मसाध्वसशंकितः महतीं चिंतां जगाम॥ प्रसुप्तस्य परदारावरोधस्य इदं मम निरीक्षणम् अत्यर्थं धर्मलोपं करिष्यति ॥

Then the great Vanara while seeing the women thinking that he transgressed the moral code started thinking with a concern. 'Seeing the sleeping wives of other men is very much a transgression of moral code by me'.

न हि मे परदाराणां दृष्ठिर्विषयवर्तिनी॥38||
अयं चात्र मयादृष्टः परदार परिग्रहः।
तस्य प्रादुरभूच्चिंता पुनरन्या मनस्विनः ॥39||
निश्चितैकांतचित्तस्य कार्य निश्चय दर्शिनः।

स॥ मे दृष्टिः परदाराणां विषयवर्तिनी न हि अत्र मया परदारापरिग्रहः दृष्टश्च ॥ मनस्विनः निश्चितैकांतचित्तस्य तस्य पुनः कार्यनिश्चयदर्शिनी अन्या चिंता प्रादुरभूत् ॥

' I have seen others wives , but seeing wives of others is not with sensual mind'. The highly sensible Vanara was struck with another brilliant idea that he is single minded in the direction of the task ahead.

कामं दृष्टा मयासर्वा विश्वस्ता रावणस्त्रियः॥40||
न हि मे मनसः किंचित् वैकृत्यं उपपद्यते।
मनो हि हेतुः सर्वेषां इंद्रियाणां प्रवर्तने॥41||
शुभा शुभा स्ववस्थासु यच्च मे सुव्यवस्थितम्।

स॥ विश्वस्ताः सर्वाः रावणस्त्रियः मया कामं दृष्टाः मे मनसः किंचित् वैकृत्यं उपजायते हि॥शुभ असुभ्हासु अवस्थासु सर्वेषाम् इंद्रियाणां प्रवर्तने मनः हेतुः । मे मनः तच्च सुव्यवस्थितम्॥

'All the loyal wives of Ravana were seen without any foul desire. My mind is not perturbed even a little. At all times for good and bad the sense organs are controlled by the mind. My mind is firmly established'.

नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्॥42||
स्त्रियो हि स्त्रीषु दृश्यंते सदा संपरिमार्गणे।
यस्य सत्त्वस्य या योनिः तस्यां तत्परिमार्ग्यते॥43||
न शक्या प्रमदा नष्टा मृगीषु परिमार्गितुम्।

स॥ वैदेही अन्यत्र परिमार्गितुं मया न शक्या हि सदा संपरिमार्गने स्रियः स्त्रिषु दृश्यंते ॥ यस्य सत्वस्य या योनिः तत् तास्याम् परिमार्ग्यते नष्टा प्रमदा मृगीषु परिमार्गितुं न शक्या॥

'It is not possible to search for Vaidehi any other way. Women can be looked for among women. One has to search for a creature among its own species. It is not possible to find a lost woman in the herd of female deer'.

तदिदं मार्गितं तावच्चुद्धेन मनसा मया॥44||
रावणांतः पुरं सर्वं दृश्यते न च जानकी।
देवगंधर्वकन्याश्च नागकन्याश्च वीर्यवान्॥45||
अवेक्षमाणो हनुमान् नैवापश्यत जानिकीम्।
ता मपश्यन् कपिः तत्र पश्यं श्चान्या वरस्त्रियः ॥46||
अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे।

स॥तत् मया शुद्धेन मनसा इदं सर्वं रावणांतः पुरं मार्गितुं । जानकी तु नदृश्यते॥ देवगंधर्वकन्याश्च नागकन्याश्च अवेक्षमाणः हनुमान् वीर्यवान् जानकीं नैव अपश्यत॥ वीरः कपिः तत्र तां अपश्यन् अन्याः परस्त्रियः पस्यश्च तदा अपक्रम्य प्रद्यातुं उपचक्रमे॥

'This Ravana's harem was serached with pure mind by me , but i have not seen Janaki'. He saw daughters of Devas, Gandharvas. Nagas but the valiant Hanuman did not find Janaki. The valiant Vanara unable of see her among other women , moved aside and started thinking.

सभूय स्तां परं श्रीमान् मारुतिर्यत्न मास्थितः।
अपानभूमि मुत्सृज्य तद्विचेतुं प्रचक्रमे॥47||

स॥ श्रीमान् सः मारुतिः आपानभूमिं उत्सृज्य भूयः परं यत्नं आस्थितः तत् विचेतुं उपचक्रमे॥

Illustrious Maruti leaving the banquet hall once again renewed his effort in search of Sita.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे एकादशस्सर्गः॥

Thus ends the eleveth sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.

|| Om tat sat ||