||Sundarakanda ||

|| Sarga 12||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ द्वादशस्सर्गः

स तस्य मध्ये भवनस्य मारुतिः लतागृहं श्चित्रगहान्निशागृहान्।
जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनम्॥1||

स चिंतयामास ततो महाकपिः प्रियामपश्यन् रघुनंदस्य ताम्।
ध्रुवं हि सीता म्रियते यथा नमे विचिन्वतोदर्शन मेति मैथिली॥2||

सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षण तत्परा सती।
अनेन नूनं प्रति दुष्ट कर्मणा हता भवेत् आर्यपथे परे स्थिता॥3||

विरूप रूपा विकृता विवर्चसो महानना दीर्घविरूप दर्शनाः।
समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा॥4||

सीतां अदृष्ट्वाह्यनवाप्य पौरुषम् विहृत्य कालं सह वानरैश्चिरम्।
न मेsस्ति सुग्रीव समीपगा गतिः सुतीक्ष्ण दंडो बलवांश्च वानरः॥5||

दृष्टमंतः पुरं सर्वं दृष्ट्वा रावणयोषिताः ।
न सीता दृश्यते साध्वी वृथाजातो मम श्रमः॥6||

किंनु मां वानरास्सर्वे गतं वक्ष्यंति संगताः।
गत्वा तत्र त्वया वीर किं कृतं तद्वदस्य नः ॥7||

अदृष्ट्वा किं प्रवक्ष्यामि तां अहं जनकात्मजाम्।
ध्रुवं प्रायमुपैष्यंति कालस्य व्यतिवर्तने॥8||

किं वा वक्ष्यति वृद्धश्च जांबवान् अंगदश्च सः।
गतं पारं समुद्रस्य वानराश्च समागताः॥9||

अनिर्वेद श्श्रियोमूलं अनिर्वेदः परं सुखम्।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥10||

करोतिसफलं जंतोः कर्म यत् तत् करोति सः।
तस्मात् अनिर्वेदकृतं यत्नं चेष्टेsहमुत्तमम्॥11||

भूयस्तावत् विचेष्यामि देशान् रावणपालितान्।
अपानशाला विचिताः तथा पुष्पगृहाणि च॥12||

चित्रशालाश्च विचिता भूयः क्रीडा गृहाणि च।
निष्कुटान्तर रथ्याश्च विमानानि च सर्वशः॥13||

इति संचित्य भूयोsपि विचेतु मुपचक्रमे।
भूमिगृहां श्चैत्य गृहान् गृहातिगृहकानपि॥14||

उत्पतन् निष्पतं श्चापि तिष्ठन् गच्चन् पुनः पुनः।
अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन्॥15||

प्रविशन् निष्पतं श्चापि प्रपतन् उत्पततन् अपि।
सर्वमप्यवकाशं स विचचार महाकपिः॥16||

चतुरंगुळमात्रोsपि नावकाश स्सविद्यते।
रावणांतःपुरे तस्मिन् यं कपिर्नजगाम सः॥17||

प्राकारान्तररथ्याश्च वेदिकाश्चैत्य संश्रयाः।
दीर्घिकाः पुष्करिण्यश्च सर्वं ते नावलोकितम्॥18||

राक्षसो विविधाकारा विरूपा विकृतास्तथा।
दृष्टा हनुमता तत्र नतु सा जनकात्मजा ॥19||

रूपेणा प्रतिमा लोके वरा विध्याधरस्त्रियः।
दृष्टा हनुमता तत्र नतु राघवनन्दिनी॥20||

नागकन्या वरारोहाः पूर्णचंद्रनिभाननाः।
दृष्टा हनुमता तत्र नतु सीता सुमध्यमा॥21||

प्रमध्य राक्षसेंद्रेण देवकन्या बलाद्दृताः।
दृष्टा हनुमता तत्र नतु सा जनकनन्दिनी॥22||

सोsपश्यं स्तां महाबाहुः पश्यं श्चान्या वरस्त्रियः।
विषसाद मुहुर्थीमान् हनुमान्मारुतात्मजः॥23||

उद्योगं वानरेंद्राणां प्लवनं सागरस्य च।
व्यर्थं वीक्ष्यानिलसुतः चिंतां पुनरुपागमत्॥24||

अवतीर्य विमानाच्च हनुमान् मारुतात्मजः ।
चिंतामुपजगामा थ शोकोपहतचेतनः॥25||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वादशस्सर्गः॥

 


 

 

 

 





 



 

|| Om tat sat ||