||Sundarakanda ||

|| Sarga 12||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ द्वादशस्सर्गः

स तस्य मध्ये भवनस्य मारुतिः लतागृहं श्चित्रगहान्निशागृहान्।
जगाम सीतां प्रतिदर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम्॥1||

स॥ सः मारुतिः तस्य भवनस्य मध्ये सीतां प्रति दर्शनोत्सुकः लता गृहान् चित्रगृहान् निशागृहान् जगाम। चारुदर्शनाम् तां न पश्यति एव ॥

That Maruti anxious to see Sita went to the houses of creepers, picture galleries, night places in the middle of those palace complex. But he could not find the beautiful lady Sita.

स चिंतयामास ततो महाकपिः प्रियामपश्यन् रघुनंदनस्य ताम्।
ध्रुवं हि सीता म्रियते यथा नमे विचिन्वतोदर्शन मेति मैथिली॥2||
सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षण तत्परा सती।
अनेन नूनं प्रति दुष्ट कर्मणा हता भवेत् आर्यपथे परे स्थिता॥3||
विरूप रूपा विकृता विवर्चसो महानना दीर्घविरूप दर्शनाः।
समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा॥4||

स॥ ततः महाकपिः रघुनन्दनस्य प्रियाम् ताम् अपस्यन् चिंतयामास । मैथिली विचिन्वतः मे यथा दर्शनम् न उपैति सीता ध्रुवम् म्रियते॥ सा जानकी परे आर्यपथे स्थिता स्वशीलसंरक्षणतत्परा सती प्रति दुष्टकर्मणा अनेन राक्षसानां प्रवरेण हता भवेत् नूनं॥ सा जनकेश्वरात्मजा भयात् विरूपरूपाः विकृताः विवर्चसः महाननाः दीर्घविरूप दर्शनाः राक्षसराज योषितः समीक्ष्य विनष्टा॥

Then the great Vanara unable to see the beloved of Rama started thinking. "While searching for Mythili I am unable to find her. She might surey be dead. That Janaki the follower of noble path who wishes to protect her chastity surely must have been killed by him the evil mind the king of Rakshasas. That daughter of king Janaka looking at the ugly distorted dull women with huge faces, the tall and deformed women of the Rakshasa King may have died out of fear."

सीतां अदृष्ट्वाह्यनवाप्य पौरुषम् विहृत्य कालं सह वानरैश्चिरम्।
न मेsस्ति सुग्रीव समीपगा गतिः सुतीक्ष्ण दंडो बलवांश्च वानरः॥5||

स॥ सीतां अदृष्ट्वा पौरुषं अनवाप्य वानरैः सह चिरं कालं विहृत्य सुग्रीव समीपगा गतिः नास्ति । वानरः (सुग्रीवः) सुतीक्ष्णदण्डः बलवांश्च॥

Without seeing Sita , searching for whom is the pride of achievment, having passed the time limit it is not possible to go to Sugriva. That Sugriva punishes severely and is powerful.

दृष्टमंतः पुरं सर्वं दृष्ट्वा रावणयोषिताः ।
न सीता दृश्यते साध्वी वृथाजातो मम श्रमः॥6||
किंनु मां वानरास्सर्वे गतं वक्ष्यंति संगताः।
गत्वा तत्र त्वया वीर किं कृतं तद्वदस्य नः ॥7||

स॥ सर्वं अंतः पुरं दृष्टं। रावणयोषिताः दृष्टा। साध्वी सीता नदृश्यते।मम श्रमः वृथा जातः॥ गतं मां संगताः सर्वे वानराः किं नु वक्ष्यंति ।वीर तत्र गत्वा त्वया किं कृतं । तत् नः वदस्व॥

All the harem has been seen. All the Ravana women were seen. The pious Sita is not seen. My effort has gone waste. Once I go back what will the Vanaras say ? 'Valiant one ! what have you done after going there? That you tell us.'

अदृष्ट्वा किं प्रवक्ष्यामि तां अहं जनकात्मजाम्।
ध्रुवं प्रायमुपैष्यंति कालस्य व्यतिवर्तने॥8||
किं वा वक्ष्यति वृद्धश्च जांबवान् अंगदश्च सः।
गतं पारं समुद्रस्य वानराश्च समागताः॥9||

स॥ कालस्य व्यतिवर्तने तां जनकात्मजां अदृष्ट्वा किं प्रवक्ष्यामि । धृवं प्रायं उपैष्यंति॥ समुद्रस्य पारं गतं वृद्धः जाम्बवान् किं वा वक्ष्यति । सः अंगदः च । समागतः वानराश्च।

Having exceeded the time limit and not having seen the daughter of Janaka what can I say?They will surely sit and wait unto death. Once I cross the sea what will the elder Jambavan say. What will Angada and other Vanaras who gather say.

अनिर्वेद श्श्रियोमूलं अनिर्वेदः परं सुखम्।
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥10||
करोतिसफलं जंतोः कर्म यत् तत् करोति सः।
तस्मात् अनिर्वेदकृतं यत्नं चेष्टेsहमुत्तमम्॥11||
भूयस्तावत् विचेष्यामि देशान् रावणपालितान्।

स॥ अनिर्वेदः श्रियः मूलं अनिर्वेदः परं सुखं अनिर्वेदः सतताम् सर्वार्थेषु प्रवर्तकः हि ॥यत् कर्म करोति जंतोः तत् सफलं करोति सः। तस्मात् अहं अनिर्वेदकृतं उत्तमम् प्रयत्नं चेष्टे । अदृष्टवान् रावणपालितान् देशान् विचेष्टामि तावत्॥

Being free from despair is the cause of prosperity. Being free from despair leads to ultimate happiness and leads to achieving all objectives. The effort of living beings always bears fruit. Therefore without despairing I will renew my efforts. I will look at all places not seen in this country ruled by Ravana.

अपानशाला विचिताः तथा पुष्पगृहाणि च॥12||
चित्रशालाश्च विचिता भूयः क्रीडा गृहाणि च।
निष्कुटान्तर रथ्याश्च विमानानि च सर्वशः॥13||

स॥पानशालाः विचिताः ।तथा पुष्फगृहाणि च । चित्रशालाश्च विचिताः ।भूयः क्रीडागृहाणि च।निष्कुटान्तर रथ्याश्च। विमानानि च। सर्वशः॥

The drinking places are visited. The garden houses too. The picture galleries too. Again all the play houses too. The paths through the gardens and mansions were searched. Everywhere including the chariot Pushpaka were searched.

इति संचित्य भूयोsपि विचेतु मुपचक्रमे।
भूमिगृहां श्चैत्य गृहान् गृहातिगृहकानपि॥14||
उत्पतन् निष्पतं श्चापि तिष्ठन् गच्चन् पुनः पुनः।
अपावृण्वंश्च द्वाराणि कवाटान्यवघाटयन्॥15||
प्रविशन् निष्पतं श्चापि प्रपतन् उत्पततन् अपि।
सर्वमप्यवकाशं स विचचार महाकपिः॥16||

स॥ इति संचित्य भूमि गृहान् चैत्य गृहान् गृहातिगृहकानपि भूयः अपि विचेतुं उपचक्रमे॥सः महाकपिः पुनः पुनः उत्पतन् निष्पतंश्चापि तिष्ठन् गच्छन् द्वाराणि अपावृण्वन् कवाटानि अवघाटयन् प्रविशन् निष्पतंश्चापि प्रपतन् उत्पतन्नपि सर्वं अपि अवकाशम् विचचार॥

Having thought as above he again started searching the underground houses, temples, the houses within houses The great Vanara searched again going up and down, stopping for some time and moving, opening and closing doors by crossing, entering, and exiting , jumping up and down. He searched wherever there was scope for search.

चतुरंगुळमात्रोsपि नावकाश स्सविद्यते।
रावणांतःपुरे तस्मिन् यं कपिर्नजगाम सः॥17||
प्राकारान्तररथ्याश्च वेदिकाश्चैत्य संश्रयाः।
दीर्घिकाः पुष्करिण्यश्च सर्वं ते नावलोकितम्॥18||

स॥ तस्मिन् रावणांतः पुरे स कपिः यम् न जगाम सः अवकाशः चतुरंगुळमातः अपि न विद्यते। प्राकारान्तररथ्याश्च चैत्यसंश्रयाः वेदिकाः दीर्घिकाः पुष्करिणश्च सर्वम् तेन अवलोकितम्॥

In that inner palaces of Ravana's harem he did not leave space of even four fingers. He went through the lanes inside the boundaries, around the temples, the pandals, the wells and ponds. He searched all of them.

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा।
दृष्टा हनुमता तत्र नतु सा जनकात्मजा ॥19||
रूपेणा प्रतिमा लोके वरा विध्याधरस्त्रियः।
दृष्टा हनुमता तत्र नतु राघवनन्दिनी॥20||

स॥ तत्र हनुमता विविधाकाराः विकृताः विरूपाः राक्षस्यः दृष्टा । सा जनकात्मजा न तु॥ हनुमता तत्र लोके रूपेण अप्रतिमा वराः विध्याधरस्त्रियः दृष्टा। न तु राघवनन्दिनी।

There Hanuman saw Rakshasas of different types ugly and deformed. But he did not see the daughter of Janaka. Hanuman saw Vidhyadhara women who are of matcheless beauty . But he did not see the daughter of Janaka.

नागकन्या वरारोहाः पूर्णचंद्रनिभाननाः।
दृष्टा हनुमता तत्र नतु सीता सुमध्यमा॥21||
प्रमध्य राक्षसेंद्रेण देवकन्या बलाद्दृताः।
दृष्टा हनुमता तत्र नतु सा जनकनन्दिनी॥22||

स॥ हनुमता तत्र वरारोहाः नागकन्याः पूर्णचंद्र निभाननाः दृष्टा। न तु सुमध्यमा सीता॥ राक्षसेंद्रेण प्रमथ्य बलात् हृताः नागकन्याः तत्र हनुमता दृष्टा। न तु सा जनकनंदिनी॥

Hanuman saw Naga women with moon like faces , but he did not see Sita with slender waist. Hanuman saw the Naga women forcibly taken away after defeating them. But not Sita.

सोsपश्यं स्तां महाबाहुः पश्यं श्चान्या वरस्त्रियः।
विषसाद मुहुर्थीमान् हनुमान्मारुतात्मजः॥23||
उद्योगं वानरेंद्राणां प्लवनं सागरस्य च।
व्यर्थं वीक्ष्यानिलसुतः चिंतां पुनरुपागमत्॥24||

स॥ महाबाहुः धीमान् मारुतात्मजः सः हनुमान् ताम् ( सीतां ) अपश्यन् अन्याः वरस्त्रियः पश्यन् मुहुः विषसाद॥ अनिलसुतः तां वीक्ष्य वानरेंद्राणाम् उद्योगम् सागरस्य च प्लवनं च व्यर्थम् (इति चिन्तयामास)। सः पुनः चिन्ताम् उपागमत्॥

Hanuman, the great armed Vanara not being able to see Sita while seeing other great women was again despondent. Looking at them, the son of wind god felt that the effort of crossing the sea is wasted. Again he started to brood.

अवतीर्य विमानाच्च हनुमान् मारुतात्मजः ।
चिंतामुपजगामा थ शोकोपहतचेतनः॥25||

स॥ अथ मारुतात्मजः हनुमान् विमानात् अवतीर्य शोकोपहतचेतनः चिंतां उपजगाम॥

Then with a mind stricken with grief, the Hanuman got down from the chariot and started to think.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे द्वादशस्सर्गः॥

Thus ends the twelfth sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.

|| Om tat sat ||