||Sundarakanda ||

|| Sarga 13||( Only Slokas in Devanagari) )

हरिः ओम्

सुंदरकांड.
अथ त्रयोदशस्सर्गः

विमानुत्तु सुसंक्रम्य प्राकारं हरियूथपः।
हनुमान्वेगवानासीत् यथा विद्युद्घनांतरे॥1||

संपरिक्रम्य हनुमान् रावणस्य निवेशनात्।
अदृष्ट्वा जानकीं सीतां अब्रवीत् वचनं कपिः॥2||

भूयिष्टं लोळिता लंका रामस्य चरता प्रियम्।
न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम्॥3||

पल्वलानि तटाकानि सरांसि सरितस्तथा।
नद्योsनूपवनांताश्च दुर्गाश्च धरिणीधराः॥4||

लोळिता वसुधा सर्वा न तु पश्यामि जानकीम्।
इह संपातिना सीता रावणस्य निवेशने ॥5||

आख्याता गृथ राजेन न च पश्यामि ता महम्।
किं नु सीताsथ वैदेही मैथिली जनकात्मजा॥6||

उपतिष्टेत विवशा रावणं दुष्टचारिणम्।
क्षिप्र मुत्पततो मन्ये सीतामादाय रक्षसः॥7||

बिभ्यतो रामबाणानां अंतरा पतिता भवेत् ।
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते॥8||

मन्ये पतिता मार्याया हृदयं प्रेक्ष्य सागरम्।
रावण स्योरुवेगेन भुजाभ्यां पीडितेन च॥9||

तया मन्ये विशालाक्ष्या त्यक्तं जीवित मार्यया।
उपर्युपरि वा नूनं सागरं क्रमतस्तदा॥10||

विवेष्टमाना पतिता समुद्रे जनकात्मजा।
अहोक्षुद्रेण वाsनेन रंक्षंती शील मात्मनः॥11||

अबंधुर्भक्षिता सीता रावणेन तपस्विनी।
अथवा राक्षसेंद्रस्य पत्नीभि रसितेक्षणा॥12||

अदुष्टा दुष्टभावाभि रक्षिता सा भविष्यति।
संपूर्णचंद्र प्रतिमं पद्मपत्रनिभेक्षणम्॥13||

रामस्य ध्यायती वक्त्रं पंचत्वं कृपणा गता।
हा राम लक्ष्मणेत्येवं हाsयोध्ये चेति मैथिली॥14||

विलप्य बहु वैदेही न्यस्त देहा भविष्यति।
अथवा निहिता मन्ये रावणस्य निवेशने॥15||

नूनं लालप्यते सीता पंजरस्थेन शारिका।
जनकस्य सुता सीता रामपत्नी सुमध्यमा॥16||

कथमुत्पल पत्राक्षी रावणस्य वशं व्रजेत्।
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा॥17||

रामस्य प्रिय भार्यस्य न निवेदयितुं क्षमम्।
निवेद्यमाने दोष स्याद्दोष स्स्या दनिवेदने॥18||

कथं खलु कर्तव्यं विषमं प्रतिभाति मे ।
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम्॥19||

भवेदिति मतं भूयो हनुमान् प्रविचारयत्।
यदि सीता मदृष्ट्वाsहं वानरेंद्रपुरी मितः॥20||

गमिष्यामि ततः कोमे पुरुषार्थो भविष्यति ।
ममेदं लंघनं व्यर्थं सागरस्य भविष्यति॥21||

प्रवेशश्चैव लंकाया राक्षसानां च दर्शनम्।
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः॥22||

किष्किंधां समनुप्राप्तं तौ वा दशरथात्मजौ।
गत्वातु यदि काकुत्थ्सं वक्ष्यामि परमप्रियम्॥23||

न दृष्टेति मया सीता ततस्तक्ष्यति जीवितम्।
परुषं दारुणं क्रूरं तीक्ष्ण मिंद्रियतापनम्॥ 24||

सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।
तं तु कृच्छगतं दृष्ट्वा पंचत्वगतमानसम्॥25||

भृशानु रक्तो मेधावी न भविष्यति लक्ष्मणः।
विनष्टौ भ्रातरौ श्रुत्वा भरतोsपि मरिष्यति॥26||

भरतं च मृतं दृष्ट्वा शतृघ्नो न भविष्यति।
पुत्रान् मृतान् समीक्ष्याथ न भविष्यति मातरः॥27||

कौसल्या च सुमित्रा च कैकेयी च न संशयः।
कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः॥28||

रामं तथा गतं दृष्ट्वा ततस्तक्ष्यति जीवितम्।
दुर्मना व्यथिता दीना निरानंदा तपस्विनी॥29||

पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्।
वालिजेन तु दुःखेन पीडिता शोककर्शिता॥30||

पंचत्वं गते राज्ञे ताराsपि न भविष्यति।
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च॥31||

कुमारोsप्यंगदः कस्माद्धारयिष्यति जीवितम्।
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः॥32||

शिरां स्यभिहनिष्यंति तलैर्मुष्टिभि रेव च ।
सांत्वे नानुप्रदानेन मानेन च यशस्विना॥33||

लालिताः कपिराजेन प्राणां स्तक्ष्यंति वानराः ।
न वनेषु न शैलेषु न निरोधेषु वा पुनः॥34||

क्रीडामनुभविष्यंति समेत्य कपिकुंजराः।
सपुत्त्र दारास्सामत्या भर्तृव्यसनपीडिताः॥35||

शैलाग्रेभ्यः पतिष्यंति समेत्य विषमेषु च।
विषमुद्बंधनं वापि प्रवेशं ज्वलनस्य वा॥36||

उपवास मधो शस्त्रं प्रचरिष्यंति वानराः।
घोरमारोदनं मन्ये गते मयि भविष्यति॥37||

इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्।
सोsहं नैव गमिष्यामि किष्किंधां नगरी मितः॥38||

न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना।
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ॥39||

आशया तौ धरिष्येते वानराश्च मनस्विनः।
हस्तादानो मुखादानो नियतो वृक्षमूलिकः॥40||

वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्।
सागरानूपजे देशे बहुमूलफलोदके॥41||

चितां कृत्वा प्रवेक्ष्यामि समिद्द मरणीसुतम्।
उपविष्टस्य वा सम्यग्लिंगिनीं साधयिष्यतः॥42||

शरीरं भक्षयिष्यंति वायसा श्श्वापदानि च।
इदं महर्षिभि र्दृष्टं निर्याण मिति मे मतिः॥43||

सम्यगापः प्रवेक्ष्यामि न चे त्पश्यामि जानकीम्।
सुजातमूला सुभगा कीर्तिमाला यशस्विनी॥44||

प्रभग्ना चिररात्रीयं मम सीता मपश्यतः।
तापसो वा भविष्यामि नियतो वृक्षमूलिका॥45||

नेतः प्रति गमिष्यामि तामदृष्ट्वाsसितेक्षणाम्।
यदीतः प्रतिगच्छामि सीता मनधिगम्यताम्॥46||

अंगदः सह तैः सर्वैः वानरै र्नभविष्यति।
विनाशे बहनो दोषा जीवन् भद्राणि पश्यति॥47||

तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवितसंगमः।
एवं बहुविधं दुःखं मनसा धारयन् मुहुः॥48||

नाध्यगच्चत् तदा पारं शोकस्य कपिकुंजरः।
रावणं वा वधिष्यामि दशग्रीवं महाबलम्॥ 49||

काम मस्तु हृता सीता प्रत्याचीर्णं भविष्यति।
अथ वैनं समुत्‍क्षिप्त्यः उपर्युपरि सागरम्॥50||

रामा योपाहरिष्यामि पशुं पशुपतेरिव।
इति चिंतां समापन्नः सीतामनधिगम्यताम्॥51||

ध्यानशोकपरीतात्मा चिंतयामास वानरः।
यावत्सीतां न पश्यामिरामपत्नीं यशस्विनीम्॥52||

ताव देतां पुरीं लंकां विचिनोमि पुनः पुनः।
संपाति वचनाच्चापि रामं यद्यानया मह्यम्॥53||

अपश्यन् राघवो भार्यां निर्दहेत् सर्व वानरान्।
इहैव नियताहारो वत्स्यामि नियतेंद्रियः॥54||

न मत्कृते विनश्येयुः सर्वेते नरवानराः।
अशोक वनिकाचेयं दृश्यते या महाद्रुमा॥55||

इमां अधिगमिष्यामि नहीयं विचिता मया।
वसून् रुद्रां स्तथाssदित्यान् अश्विनौ मरुतोsपि च॥56||

नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्थनः।
जित्वातु राक्षसान् सर्वान् इक्ष्वाकुकुलनंदिनीम्॥57||

संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने।
समुहूर्तमिव ध्यात्वा चिंतावग्रथितेंद्रियः॥

उदतिष्टन् महातेजा हनुमान् मारुतात्मजः॥58||

नमोsस्तु रामाय सलक्ष्मणायै
देव्यै च तस्यै जनकात्मजायै।
नमोsस्तु रुद्रेंद्र यमानिलेभ्यो
नमोsस्तु चंद्रार्क मरुद्गणेभ्यः॥59||

सतेभ्यस्तु नमस्कृत्य सुग्रीवायच मारुतिः।60||

दिशस्सर्वा स्समालोक्य ह्यशोकवनिकां प्रति ।
स गत्वा मनसा पूर्व मशोकवनिकां शुभाम्॥61||

उतरं चिंतयामास वानरो मारुतात्मजः।
ध्रुवं तु रक्षोबहुळा भविष्यति वनाकुला॥62||

अशोकवनिकाsचिंत्या सर्वसंस्कारसंस्कृता।
रक्षिण श्चात्र विहिता नूनं रक्षंति पादपान् ॥63||

भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै।
संक्षिप्तोsयं मयाssत्मा च रामार्थे रावणस्य च ॥64||

सिद्धिं मे संविधास्यंति देवा स्सर्षिगणास्त्विह।
ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशंतुमे ॥65||

सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्।
वरुणः पासहस्तश्च सोमादित्यौ तथैव च ॥66||

अश्विनौ च महात्मानौ मरुत श्शर्व एवच।
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः॥67||

दास्यंति ममये चान्ये ह्यदृष्टाः पथि गोचराः।68||

तदुन्नसं पांडुरदंतमव्रणम्
शुचिस्मितं पद्मपलाश लोचनम्।
द्रक्षे तदार्यावदनं कदान्वहं
प्रसन्न ताराधिपतुल्य दर्शनम्॥69||

क्षुद्रेण पापेन नृशंसकर्मणा
सुदारुणालंकृत वेषधारिणा।
बलाभिभूता ह्यबला तपस्विनी
कथं नु मे दृष्टिपथेsद्य सा भवेत् ॥70||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रयोदशस्सर्गः॥


|| Om tat sat ||