||Sundarakanda ||

|| Sarga 13||( Only Slokas in Devanagari) )

(PS: This is a true translation of the Sanskrit epic which tends to have long descriptive sentences which are retained as they are)

||om tat sat||

सुंदरकांड.
अथ त्रयोदशस्सर्गः

विमानुत्तु सुसंक्रम्य प्राकारं हरियूथपः।
हनुमान्वेगवानासीत् यथा विद्युद्घनांतरे॥1||

स॥ हरियूथपः विमानात् सुसंक्रम्य प्राकारं वेगवान् यथा विद्युत् घनांतरे आसीत्॥

The Vanara leader speedily jumped from the aerial chariot to the boundary wall in a flash like a lightning.

संपरिक्रम्य हनुमान् रावणस्य निवेशनात्।
अदृष्ट्वा जानकीं सीतां अब्रवीत् वचनं कपिः॥2||
भूयिष्टं लोळिता लंका रामस्य चरता प्रियम्।
न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम्॥3||

स॥ सीतां जानकीं अदृष्ट्वा हनुमान् रावणस्य निवेशनात् संपरिक्रम्य कपिः (इदं) वचनं अब्रवीत् ॥ रामस्य प्रियं (कर्तुम्) चरता लंका भूयिष्ठं लोळिता अपि सर्वांगसोभनाम् वैदेहीं सीतां न हि पश्यामि॥

Not having been able to see Sita, going around the palace of Ravana Hanuman said the following ( to himself). 'To do what pleases Rama I went around Lanka (searching) thoroughly. Still I could not see Vaidehi of beautiful limbs.

प्लवनानि तटाकानि सरांसि सरितस्तथा।
नद्योsनूपवनांताश्च दुर्गाश्च धरिणीधराः॥4||
लोळिता वसुधा सर्वा न तु पश्यामि जानकीम्।
इह संपातिना सीता रावणस्य निवेशने ॥5||
आख्याता गृथ राजेन न च पश्यामि ता महम्।

स॥ लोळिता प्लवनानि तटाकानि सरांसि सरितः तथा नद्याः अनूपवनानांताश्च दुर्गाः धरणी धराः वसुधा सर्वाः (लोळिता) जानकीं न पश्यामि तु ॥ सीता रावणस्य निवेशने इह ( अस्ति इति) गृथराजेन संपातिना आख्याता । (परंतु) तां (सीतां) न हि पश्यामि ॥

' I searched water bodies, tanks, lakes, similarly streams rivers along the woods, all places difficult to reach, mountains and all over Lanka , but I could not see Sita. The king of birds Sampati told that Sita is in Ravana's palace. But I cannot find her'.

किं नु सीताsथ वैदेही मैथिली जनकात्मजा॥6||
उपतिष्टेत विवशा रावणं दुष्टचारिणम्।
क्षिप्र मुत्पततो मन्ये सीतामादाय रक्षसः॥7||
बिभ्यतो रामबाणानां अंतरा पतिता भवेत् ।
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते॥8||
मन्ये पतिता मार्याया हृदयं प्रेक्ष्य सागरम्।

स॥ जनकात्मजा वैदेही मैथिली विवशं दुष्टचारिणं रावणं किं नु उपतिष्ठेत ?सीताम् आदाय रामबाणानां बिभ्यतः क्षिप्रं उत्पततः रक्षसः अंतरः (सीता) पतिता भवेत् मन्ये॥ अथवा सिद्धनिषेविते पथि ह्रियमाणः आर्यायाः हृदयं सागरं प्रेक्ष्य पतिता (इति) मन्ये॥

Could it be that Sita, the daughter of Janaka dejected and helpless succumbed to the evil intentions of Ravana? (When Ravana was) flying at high speed out of fear of Rama's arrows while bringing Sita, could she have been dropped in the middle? While being carried away on the path travelled by Siddhas, I think the noble lady with broken heart seeing the ocean fell down ( out of fear).

रावण स्योरुवेगेन भुजाभ्यां पीडितेन च॥9||
तया मन्ये विशालाक्ष्या त्यक्तं जीवित मार्यया।
उपर्युपरि वा नूनं सागरं क्रमतस्तदा॥10||
विवेष्टमाना पतिता समुद्रे जनकात्मजा।

स॥ रावणस्य उरुवेगेन भुजाभ्यां पीडितेन च वीशालाक्षी तया जीविता त्यक्तं मन्ये॥ तदा सागरं उपरि उपरि क्रमतः विवेष्टमाना जनकात्मजा समुद्रे नूनं पतिता (एव)॥

With Ravana's speedy flight and (being held by) the pressure of his arms I think she might have given up her life. As he was flying higher and higher, the daughter of Janaka r wriggling hard to extricate herself might have fallen in the ocean.

अहोक्षुद्रेण वाsनेन रंक्षंती शील मात्मनः॥11||
अबंधुर्भक्षिता सीता रावणेन तपस्विनी।
अथवा राक्षसेंद्रस्य पत्नीभि रसितेक्षणा॥12||
अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति।

स॥ अहो आत्मनः शीलं रक्षंती तपस्विनी सीता अबंधुः अनेन क्षुद्रेण रावणेन भक्षिता ? अथवा अदुष्टा असितेक्षणा सा (सीता) राक्षसेंद्रस्य पत्नीभिः दुष्टभावाभिः भक्षिता भविष्यति॥

While protecting her chastity , the pious Sita distanced from close ones might have been eaten up by Ravana. Or else Sita the pious lady with black eyes might have been eaten up by the cruel wives of Ravana.

संपूर्णचंद्र प्रतिमं पद्मपत्रनिभेक्षणम्॥13||
रामस्य ध्यायती वक्त्रं पंचत्वं कृपणा गता।
हा राम लक्ष्मणेत्येवं हाsयोध्ये चेति मैथिली॥14||
विलप्य बहु वैदेही न्यस्त देहा भविष्यति।

स॥ कृपणा वक्त्रं संपूर्णचंद्र प्रतिमं पद्मपत्रनिभेक्षणं रामस्य ध्यायती पंचत्वं गता॥ वैदेही मैथिली हा राम हा लक्ष्मणा हा अयोध्या च इति एवं बहु विलप्य न्यस्त देहा भविष्यति॥

The poor lady with face like a full moon, with eyes like lotus petals always meditating on Rama may have attained death. Vaidehi, the princess of Mithila while crying 'Oh Rama O Lakshmana O Ayodhya " might have given up her life.

अथवा निहिता मन्ये रावणस्य निवेशने॥15||
नूनं लालप्यते सीता पंजरस्थेन शारिका।
जनकस्य सुता सीता रामपत्नी सुमध्यमा॥16||
कथमुत्पल पत्राक्षी रावणस्य वशं व्रजेत्।

स॥ अथवा रावणस्य निवेशने निहिता सीता पंजरस्था शारिका इव नूनं लालप्यते मन्ये॥ जनकस्य सुता रामपत्नी सुमध्यमा उत्पलपत्राक्षी सीता रावणस्य वशं कथं व्रजेत्?

Or else I think in Ravana's palace she might have been imprisoned like a bird myna in the cage and surely crying. The daughter of Janaka, wife of Rama, the lady with beautiful waist and eyes like lotus petals , how could she come under Ravana's control?

विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा॥17||
रामस्य प्रिय भार्यस्य न निवेदयितुं क्षमम्।
निवेद्यमाने दोष स्याद्दोष स्स्या दनिवेदने॥18||
कथं खलु कर्तव्यं विषमं प्रतिभाति मे ।
अस्मिन्नेवं गते कार्ये प्राप्तकालं क्षमं च किम्॥19||
भवेदिति मतं भूयो हनुमान् प्रविचारयत्।

स॥ रामस्य प्रियभार्यस्य जनकात्मजा विनष्टा वा प्रणष्टा वा मृता वा निवेदयितुं न क्षमम्॥ निवेद्यमाने दोषः स्यात्। अनिवेदने दोषः स्यात् । कथं कर्तव्यं नु खलु मे विषमं प्रतिभाति ॥ अस्मिन् कार्ये एवं गते प्राप्तकालं क्षमम् किं भवेत् इति मतं भूयः हनुमान् प्रविचारयत्॥

Whether Rama's dear wife , the daughter of Janaka , is lost or irrecoverable or dead , reporting the same to Rama is not proper. Informing the same is improper. Not informing is also not proper. What to do for me is difficult. In this regard when the things take such a turn what is proper ? Hanuman deliberated once again.

यदि सीता मदृष्ट्वाsहं वानरेंद्रपुरी मितः॥20||
गमिष्यामि ततः कोमे पुरुषार्थो भविष्यति ।
ममेदं लंघनं व्यर्थं सागरस्य भविष्यति॥21||
प्रवेशश्चैव लंकाया राक्षसानां च दर्शनम्।

स॥ अहम् सीताम् अदृष्ट्वा वानरेंद्रपुरीं इतः यदि गमिष्यामि ततः मे को पुरुषार्थः भविष्यति॥ मम इदं सागरस्य लंघनं लंकाया प्रवेशनं राक्षसानां च दर्शनं व्यर्थं भविष्यति॥

Without seeing Sita if I go to the city of the Vanara king then what is my accomplishment. This effort of crossing of the ocean, entering Lanka, seeing the Rakshasas would all be futile.

किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः॥22||
किष्किंधां समनुप्राप्तं तौ वा दशरथात्मजौ।
गत्वातु यदि काकुत्थ्सं वक्ष्यामि परमप्रियम्॥23||
न दृष्टेति मया सीता ततस्तक्ष्यति जीवितम्।
परुषं दारुणं क्रूरं तीक्ष्ण मिंद्रियतापनम्॥ 24||
सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।

स॥ किष्किंधं समनुप्राप्तं मां सुग्रीवः वा समागताः हरयः वा दशरथात्मजौ किं मां वक्ष्यति ॥ गत्वा काकुत्‍स्थं सीता मया नदृष्टा इति परं अप्रियं वक्ष्यामि यदि ततः (सः रामः) जीवितं त्यक्ष्यति॥ परुषं दारुणं कॄरं इंद्रियतापनं सीतानिमित्तं दुर्वाक्यं श्रुत्वा सः रामः न भविष्यति॥

What will Sugriva or the assembled Vanaras or the the two sons of Dasaratha say once I reach Kishkindha. After reaching If I tell Rama the unpleasant news that Sita was not seen by me then he will give up his life. After hearing the harsh dreadful cruel sharp words about Sita which can scorch the senses, Rama will not live.

तं तु कृच्छगतं दृष्ट्वा पंचत्वगतमानसम्॥25||
भृशानु रक्तो मेधावी न भविष्यति लक्ष्मणः।
विनष्टौ भ्रातरौ श्रुत्वा भरतोsपि मरिष्यति॥26||
भरतं च मृतं दृष्ट्वा शतृघ्नो न भविष्यति।
पुत्रान् मृतान् समीक्ष्याथ न भविष्यति मातरः॥27||
कौसल्या च सुमित्रा च कैकेयी च न संशयः।

स॥ पंचत्वगतमानसं तं दृष्ट्वा कृच्छगतं भृशानुरक्तः मेधावी लक्ष्मणः तु न भविष्यति॥ भ्रातरौ विनष्टौ (इति) श्रुत्वा भरतः अपि न भविष्यति। भरतं च मृतं दृष्ट्वा शतृघ्नो न भविष्यति॥ अथ मृतान् पुत्रान् समीक्ष्य मातरः कौसल्या च सुमित्रा च कैकेयी तथा न भविष्यति । न संशयः॥

Seeing him who has given up his life , and in that painful state the wise Lakshmana will not survive. Hearing that the two brothers are dead even Bharata will not survive. Seeing Bharata too dead Satrughna will not survive. Then seeing the the death of their sons mothers Kausalya, Sumitra and Kaikeyi will not survive. There is no doubt.

कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः॥28||
रामं तथा गतं दृष्ट्वा ततस्त्य क्ष्यति जीवितम्।
दुर्मना व्यथिता दीना निरानंदा तपस्विनी॥29||
पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्।
वालिजेन तु दुःखेन पीडिता शोककर्शिता॥30||
पंचत्वं गते राज्ञे ताराsपि न भविष्यति।

स॥ सुग्रीवः कृतज्ञः सत्यसंधः प्लवगाधिपः तथा गतं रामं दृष्ट्वा ततः जीवितं त्यक्ष्यति॥ भर्तृशोकेन पीडिता निरानंदा तपस्विनी व्यथिता दुर्मना रुमा जीवितं त्यक्ष्यति॥ वालिजेन दुःखेन पीडिता शोककर्शिता तारा अपि राज्ञि पंचत्वं गते न भविष्यति॥

Grateful, truthful Sugriva the leader of Vanaras seeing Rama lost , will then give up his life. Grieved on account of husbands death, distressed, unhappy, tormented Ruma will give up her life. Troubled by the death of Vali, being already with grief Tara too will not live on hearing the death of the King.

मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च॥31||
कुमारोsप्यंगदः कस्माद्धारयिष्यति जीवितम्।
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः॥32||
शिरां स्यभिहनिष्यंति तलैर्मुष्टिभि रेव च ।
सांत्वे नानुप्रदानेन मानेन च यशस्विना॥33||
लालिताः कपिराजेन प्राणां स्तक्ष्यंति वानराः ।

स॥ कुमारः अंगदः अपि मातापित्रोः विनाशेन सुग्रीवस्य व्यसनेन जीवितं कस्मात् धरिष्यति? वनौकसः भर्तृजेन दुःखेन अभिभूताः तलैः मुष्टिभिरेवच शिरांसि अभिहनिष्यन्ति ॥ लालिताः यशस्विना कपिराजेन मानेन सात्वेन अनुप्रदानेन वानराः प्राणान् त्यक्ष्यन्ति॥

With the death of his parents and the loss of Sugriva, how will prince Angada keep his life? Vanaras overpowered with grief over their king will hit their heads with their palms and fists. Reared by the illustrious Vanara king with respect, good words and gifts , the Vanaras too will give up their life.

न वनेषु न शैलेषु न निरोधेषु वा पुनः॥34||
क्रीडामनुभविष्यंति समेत्य कपिकुंजराः।
सपुत्त्र दारास्सामत्या भर्तृव्यसनपीडिताः॥35||
शैलाग्रेभ्यः पतिष्यंति समेषु विषमेषु च।
विषमुद्बंधनं वापि प्रवेशं ज्वलनस्य वा॥36||
उपवास मधो शस्त्रं प्रचरिष्यंति वानराः।

स॥।कपिकुंजरां समेत्य वनेषु क्रीडां न अनुभविष्यन्ति । शैलेषु न निरोधेषु वा पुनः न ( अनुभविष्यन्ति)॥ सपुत्रदाराः स अमात्याः भर्तृर्व्यसन पीडिताः शैलाग्रेभ्यः समेषु विषमेषु च पतिष्यन्ति॥ वानराः विषं उद्बन्धनं वापि ज्वलनस्य प्रवेशं वा उपवासं अथो शस्त्रं प्रचरिष्यन्ति॥

Vanara chiefs will not get together to enjoy sports in the forests or mountains or caves again. Troubled by the happenings related to the king the Vanaras along with wives and sons , the counselors, will fall down from the peaks, plains and uneven grounds. Vanaras will perish by poison or hanging or fire or entering into a fast or using a weapon.

घोरमारोदनं मन्ये गते मयि भविष्यति॥37||
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्।
सोsहं नैव गमिष्यामि किष्किंधां नगरी मितः॥38||
न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना।

स॥ मयि गते इक्ष्वाकुकुलनाशस्च वनौकसां नाशश्च एव घोरं आरोदनम् भविष्यति (इति) मन्ये॥ अहं किष्किंधां नगरीं न गमिष्यामि एव । अहं मैथिली विना सुग्रीवं न च द्रक्ष्यामि ॥

I think my going (there without seeing Sita) will result in the destruction of Ikshvakus and the destruction of Vanaras and there will be a great hue and cry. So I will not go to Kishkindha. I am not seeing Sugriva without Maithili.

मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ॥39||
आशया तौ धरिष्येते वानराश्च मनस्विनः।
हस्तादानो मुखादानो नियतो वृक्षमूलिकः॥40||
वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम्।
सागरानूपजे देशे बहुमूलफलोदके॥41||

स॥ मयि अगच्छति इहस्थे तौ धर्मात्मानौ महारथौ आशया धरिष्येते । मनस्विनः वानराः च ॥ जनकात्मजाम् अदृष्ट्वा हस्तदानः मुखदानः नियता बहुमूलफलोदके सागरानूपजे देशे वृक्षमूलिकः वानप्रस्थः भविष्यामि॥

By my not going and staying here, the righteous and great warriors will survive on hope. The high souled Vanaras too (will survive). Not having seen Sita, with food available to hand and mouth and strictly living on fruits , roots and water, living on the land near the sea coast I will live like a hermit.

चितां कृत्वा प्रवेक्ष्यामि समिद्द मरणीसुतम्।
उपविष्टस्य वा सम्यग्लिंगिनीं साधयिष्यतः॥42||
शरीरं भक्षयिष्यंति वायसा श्श्वापदानि च।
इदं महर्षिभि र्दृष्टं निर्याण मिति मे मतिः॥43||
सम्यगापः प्रवेक्ष्यामि न चे त्पश्यामि जानकीम्।

स॥ चितां कृत्वा समिद्धम् अरणीसुतं प्रवेक्ष्यामि वा उपविष्टस्य लिंगिनीं साधयिष्यतः शरीरं वायसाः श्वपदानि च भक्षयिष्यन्ति॥ जानकीं न पश्यामि चेत् आपः प्रवेक्ष्यामि । इदं महर्षिभिः दृष्टं सम्यक् निर्याणं इति मे मतिः ॥

Having made a pyre I will lit the same with fire sticks and enter. Or seated here I will fast unto death. Then wild beasts and crows will eat me. If I donot see Janaki I will enter water. This way of giving up life is suggested by great Rishis I think.

सुजातमूला सुभगा कीर्तिमाला यशस्विनी॥44||
प्रभग्ना चिररात्रीयं मम सीता मपश्यतः।
तापसो वा भविष्यामि नियतो वृक्षमूलिका॥45||
नेतः प्रति गमिष्यामि तामदृष्ट्वाsसितेक्षणाम्।
यदीतः प्रतिगच्छामि सीता मनधिगम्यताम्॥46||
अंगदः सह तैः सर्वैः वानरै र्नभविष्यति।

स॥ सीताम् अपश्यतः मम चिररात्रीयं सुजातमूला सुभगा यशस्विनी कीर्तिमाला प्रभग्ना॥ नियतः वृक्षमूलिकः तापसो वा भविष्यामि । तां असितेक्षणाम् अदृष्ट्वा इतः न प्रति गमिष्यामि ॥ तां सीतां अनधिगम्य इतः यदि प्रतिगच्छामि अंगदैः ते सर्वैः वानरैः सह न भविष्यति॥

Not having seen Sita , this long night which started well, lovely, glorious and famous is (now) wasted. Strictly sitting under a tree I will become an ascetic. Without seeing Sita that black eyed one I will not go back from here. If I go back from here without seeing Sita the Vanaras along with Angada will die.

विनाशे बहनो दोषा जीवन् भद्राणि पश्यति॥47||
तस्मात् प्राणान् धरिष्यामि ध्रुवो जीवितसंगमः।
एवं बहुविधं दुःखं मनसा धारयन् मुहुः॥48||
नाध्यगच्चत् तदा पारं शोकस्य कपिकुंजरः।

स॥ विनाशे बहवः दोषाः । जीवन् भद्राणि पश्यति । तस्मात् प्राणान् धरिष्यामि जीवित संगमः धृवः॥ कपिकुंजरः एवं बहुविथं दुःखं मुहुः मनसा धारयन् तदा शोकस्य पारं नाध्यगच्छत्॥

Death has many sins. Living one will see auspicious events. So I will keep my life , for a living one happiness is certain. Thus the best of Vanaras having thought in many ways, holding his sorrow in the mind could not reach the other end of his grief.

रावणं वा वधिष्यामि दशग्रीवं महाबलम्॥ 49||
काम मस्तु हृता सीता प्रत्याचीर्णं भविष्यति।
अथ वैनं समुत्‍क्षिप्त्यः उपर्युपरि सागरम्॥50||
रामा योपाहरिष्यामि पशुं पशुपतेरिव।
इति चिंतां समापन्नः सीतामनधिगम्यताम्॥51||
ध्यानशोकपरीतात्मा चिंतयामास वानरः।

स॥ दशग्रीवं महाबलं रावणं वधिष्यामि । हृता सीता कामम् अस्तु। प्रत्याचीर्णम् भविष्यति अपि॥ अथवा एनं सागरं उपर्युपरि समुत्‍क्षिप्त्य पशुपतेः पशुं इव रामाय उपहरिष्यामि॥ वानरः तां सीतां अनधिगम्य इति चिंतां समापन्नः ध्यानशोकपरीतात्मा चिंतयामास॥

I will kill the ten headed Ravana. Dead Sita's desire will be fulfilled. That will be a fitting reply. Or else carrying him across the ocean I shall offer him to Rama like a bull offered to Siva. The Vanara unable to find Sita with a mind overcome with grief started again thinking further.

यावत्सीतां न पश्यामिरामपत्नीं यशस्विनीम्॥52||
ताव देतां पुरीं लंकां विचिनोमि पुनः पुनः।
संपाति वचनाच्चापि रामं यद्यानया मह्यम्॥53||
अपश्यन् राघवो भार्यां निर्दहेत् सर्व वानरान्।
इहैव नियताहारो वत्स्यामि नियतेंद्रियः॥54||
न मत्कृते विनश्येयुः सर्वेते नरवानराः।

स॥ रामपत्नीं यशस्विनीं सीतां यावत् न पश्यामि तावत् एतां लंकां पुनः पुनः विचिनोमि ॥ संपाति वचनात् अहं रामं आनयामि यदि राघवः भार्यां अपश्यन् सर्व वानरान् निर्दहेत् ॥नियत आहरः निय त इंद्रियः इहैव वत्स्यामि । मत्कृते ते नरवानराः न विनश्येयुः ॥

Till I see Sita the famous wife of Rama I will keep searching in Lanka again and again. If I had brought Rama based on Samapati's words , unable to see Sita Rama would have burnt all Vanaras. With limited food, controlling my senses I will stay here. For my fault those Vanaras shall not perish.

अशोक वनिकाचेयं दृश्यते या महाद्रुमा॥55||
इमां अधिगमिष्यामि नहीयं विचिता मया।
वसून् रुद्रां स्तथाssदित्यान् अश्विनौ मरुतोsपि च॥56||
नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्थनः।
जित्वातु राक्षसान् सर्वान् इक्ष्वाकुकुलनंदिनीम्॥57||
संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने।
सः मुहूर्तमिव ध्यात्वा चिंतावग्रथितेंद्रियः।
उदतिष्टन् महातेजा हनुमान् मारुतात्मजः॥58||

स॥ इयं महाद्रुमा अशोकवनिका दृश्यते इमां मया न विचिताहि ।इमां अधिगमिष्यामि । वसून् रुद्रान् तथा आदित्यान् अश्विनौ मरुतोपि च नमस्कृत्वा रक्षसां शोकवर्धनः गमिष्यामि॥ सर्वान् राक्षसान् जित्वा तु इक्ष्वाकुकुलनन्दिनीं तपस्विने सिद्धिं यथा रामाय संप्रदास्यामि॥ महातेजाः मारुतात्मजः सः हनुमान् चिंतावग्रथितेंद्रियः मुहूर्तमिव ध्यात्वा उदतिष्ठन् ॥

This Ashoka grove seen with tall trees has not been searched by me. I will go here. After offering salutations to Vasus, Adityas, and Ashwins I will proceed to increase the sorrow for the Rakshasas. After defeating all Rakshasas, as an offering to the ascetic, I will give Rama to her. Thus overpowered by worries for a while Hanuman, the brilliant son of wind god got up after reflecting.

नमोsस्तु रामाय सलक्ष्मणायै
देव्यै च तस्यै जनकात्मजायै।
नमोsस्तु रुद्रेंद्रयमानिलेभ्यो
नमोsस्तु चंद्रार्क मरुद्गणेभ्यः॥59||

स॥ स लक्ष्मणाय रामाय नमः अस्तु। देव्यै तस्यै जनकात्मजायै च । रुद्रेंद्रयमानिलेभ्यो रुद्र इंद्र यम अनिलः एतेभ्यो नमः अस्तु। चन्द्रार्कमरुत् गणेभ्यः नमः अस्तु॥

Salutations to Rama along with Lakshmana. Salutations to the divine lady the daughter of Janaka. Salutations to Rudra Indra Yama and Vayu. Salutations to Sun Moon and Maruts.

सतेभ्यस्तु नमस्कृत्य सुग्रीवायच मारुतिः।60||
दिशस्सर्वा स्समालोक्य ह्यशोकवनिकां प्रति ।
स गत्वा मनसा पूर्व मशोकवनिकां शुभाम्॥61||
उतरं चिंतयामास वानरो मारुतात्मजः।
ध्रुवं तु रक्षोबहुळा भविष्यति वनाकुला॥62||
अशोकवनिकाsचिंत्या सर्वसंस्कारसंस्कृता।

स॥सः मारुतिः तेभ्यः नमस्कृत्य सुग्रीवाय च सर्वाः दिशाः समालोख्य अशोकवनिकाम् प्रति ॥मारुतात्मजः सः वानरः मनसा पूर्वं शुभां अशोकवनिकाम् गत्वा उत्तरं चिन्तयामास॥ अशॊकवनिका बहुळा वनाकुला धृवं रक्षो सर्वसंस्कारसंस्कृता पुण्या भविष्यति॥

That Maruti having offered salutations to all, including Sugriva, then looking in all directions moved towards the Ashoka grove. That Vanara ,the son of wind god, having entered the auapicious looking Ashoka grove started thinking. This Ashoka grove with many trees , surely guarded by many Rakshasas is carefully tended. It must be sacred.

रक्षिण श्चात्र विहिता नूनं रक्षंति पादपान् ॥63||
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै।
संक्षिप्तोsयं मयाssत्मा च रामार्थे रावणस्य च ॥64||

स॥अत्र विहिताः रक्षिणश्च पादपान् नूनं रक्षन्ति सर्वात्मा भगवनपि नातिक्षोभं प्रावातिवै मया रामार्थे रावणस्य च अयं अत्मा संक्षिप्तः॥

The Rakshasa guards posted here are protecting the trees. Divinity also not blowing violently. I have in the interest of Rama's desire as well as for protecting myself from Ravana made myself small.

सिद्धिं मे संविधास्यंति देवा स्सर्षिगणास्त्विह।
ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशंतुमे ॥65||
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत्।
वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ॥66||
अश्विनौ च महात्मानौ मरुत श्शर्व एवच।
सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः।
दास्यंति ममये चान्ये ह्यदृष्टाः पथि गोचराः।67||

स॥ स ऋषिगणाः देवाः इह मे सिद्धिं संविधास्यन्ति ।स्वयंभूः भगवान् ब्रह्मा देवाश्चैव अग्निश्च वायुश्च वज्रभूत् पुरुहूतश्च पाशहस्तः वरुणश्च सोमादित्यौ महात्मानौ अस्विनौ मरुतः सर्वएव च मे सिद्धिं दिशन्तु । सर्वाणि भूतान् यः भूतानाम् प्रभुः अन्ये ये अदृष्टाः प्थि गोचराः मम सिद्धिं दास्यन्ति॥

May gods here along with all the legions of Rishis give me success. May the Svayambhu Brahma, Devas , Agni, Vayu , Indra who is invoked in all sacrifices, the one holding Pasa, Varuna, Soma, Aditya, the two Aswins, Marut all of them give me success. May the Lords of all beings and quarters help me to succeed. May those whom I could not see also bring me success.

तदुन्नसं पांडुरदंतमव्रणम्
शुचिस्मितं पद्मपलाश लोचनम्।
द्रक्षे तदार्यावदनं कदान्वहं
प्रसन्न ताराधिपतुल्य दर्शनम्॥68||
क्षुद्रेण पापेन नृशंसकर्मणा
सुदारुणालंकृत वेषधारिणा।
बलाभिभूता ह्यबला तपस्विनी
कथं नु मे दृष्टिपथेsद्य सा भवेत् ॥69||

स॥ उन्नसं पाण्डुरदंतं अव्रणं शुचिस्मितं पद्मपलासलोचनं प्रसन्नताराधिपतुल्य दर्शनं तत् तदार्यवदनं अहं कदा द्रक्ष्ये नु ॥ क्षुद्रेण पापेन नृशंसकर्मणा सुदारुमालांकृतवेषधारिणा बलाभिभूता तपस्विनी सा अबला अद्य मे दृष्टिपथे कथं भवेत् नु॥

'That noble lady with high nose, white teeth, with pleasing smile, with eyes like lotus petals, who appears like a pleasant moon , when will I see her? The frail gentle and suffering lady abducted by a mean sinner , a man of cruel deeds, endowed with dreadful look , how will I see her?'

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रयोदशस्सर्गः॥

Thus ends the thirteenth sarga of Sundarakanda in Ramayana, the first ever poem of mankind composed by Maharshi Valmiki.

|| Om tat sat ||